भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 4.11

4.11.1

एवम्प्रायाकुलारम्भैर् असुरैर् असुहारिभिः ।
महासाहससंरब्धैर् आरब्धमरणै रणैः ॥

4.11.2

माययाथ विवादेन सन्धिना विग्रहेण च ।
पलायनेन धैर्येण च्छद्मनोपायनेन च ॥

4.11.3

कार्पण्येनास्त्रयुद्धेन स्वान्तर्धानैश् च भूरिशः ।
कृतस् स समरो देवैस् त्रिंशद् वर्षाणि पञ्च च ॥

4.11.4

वर्षाणि दिवसान् मासान् दशाष्टौ पञ्च सप्त च ।
वर्षाणि पेतुर् वृक्षाग्निहेत्यम्ब्वशनिभूभृताम् ॥

4.11.5

एतावता तु कालेन दृढाभ्यासाद् अहङ्कृतेः ।
दामादयो ऽहम् इत्य् आस्थां जगृहुर् ग्रस्तचेतसः ॥

4.11.6

नैकट्यातिशयाद् यद्वद् दर्पणं बिम्बवद् भवेत् ।
अभ्यासातिशयात् तद्वत् ते ऽप्य् अहङ्कारितां गताः ॥

4.11.7

यद्वद् दूरतरं वस्तु नादर्शे प्रतिबिम्बते ।
पदार्थवासना तद्वद् अनभ्यासान् न जायते ॥

4.11.8

यदा दामादयो जाता जाताहङ्कारवासनाः ।
तदा मे जीवितं मे ऽर्थ इति दैन्यम् उपागमन् ॥

4.11.9

भयवासनया ग्रस्ता मोहवासनया हताः ।
आशापाशनिबद्धास् ते ततः कृपणतां गताः ॥

4.11.10

मुधैव ह्य् अनहङ्कारैर् ममत्वम् उपकल्पितम् ।
रज्ज्वां भुजङ्गत्वम् इव दामव्यालकटैस् ततः ॥

4.11.11

आपादमस्तकं देहलतेयं भवतु स्थिरा ।
ममेति तृष्णाकृपणा दीनतां ते समाययुः ॥

4.11.12

स्थिरो भवतु मे देहस् सुखायास्तु धनं मम ।
इति बद्धधियां तेषां धैर्यम् अन्तर्धिम् आययौ ॥

4.11.13

अवासनत्वाद् वपुषाम् अनास्थत्वात् सुरद्विषाम् ।
याभूत् प्रहारपरता मार्जितैवाशु साभवत् ॥

4.11.14

कथं स्थिरा जगत्य् अस्मिन् भवेम इति चिन्तया ।
वेधिता दीनतां जग्मुः पद्मा इव निरम्भसः ॥

4.11.15

तेषां त्व् अर्थान्नपानेषु स्वाहङ्कृतिमतां रतिः ।
बभूव भवभावस्था भीषणा भवभागिनी ॥

4.11.16

अथ तस्मिन् रणे भीत्या सापेक्षत्वम् उपाययुः ।
मत्तेभगणसंरब्धा वने हरिणका इव ॥

4.11.17

मरिष्यामो मरिष्याम इति चिन्ताहताशयाः ।
मन्दं मन्दं किल भ्रेमुः कुपितैरावणे रणे ॥

4.11.18

शरीरैकार्थिनां तेषां भीतानां मरणाद् अति ।
अल्पसत्त्वतया मूर्ध्नि कृतम् आपत्प्रदं पदम् ॥

4.11.19

अथ प्रम्लानसत्त्वास् ते हन्तुम् अग्रगतं भटम् ।
न शेकुर् इन्धनक्षीणा हविर् दग्धुम् इवाग्नयः ॥

4.11.20

विबुधानां प्रहरतां सुदस्युत्वम् उपागताः ।
क्षतविक्षतसर्वाङ्गास् तस्थुस् सामान्यवद्भटाः ॥

4.11.21

बहुनात्र किम् उक्तेन मरणाद् भीतचेतसः ।
दैत्या देवेषु वल्गत्सु दुद्रुवुस् समराजिरात् ॥

4.11.22

तेषु द्रवत्सु सर्वेषु सर्वतो दानवाद्रिषु ।
दामव्यालकटाख्येषु विख्यातेष्व् असुरालये ॥

4.11.23

तद्दैत्यसैन्यम् अपतत् खाद् विद्रुतम् इतस् ततः ।
कल्पान्तपवनाधूतं ताराजालम् इवाभितः ॥

4.11.24

अमराचलकुञ्जेषु शिखराणां शिलासु च ।
तटेषु वारिराशीनां पयोदपटलेषु च ॥

4.11.25

सागरावर्तगर्तेषु श्वभ्रेष्व् अथ सरित्सु च ।
जङ्गलेषु दिगन्तेषु ज्वलत्सु विपिनेषु च ॥

4.11.26

तद्रणोत्सन्नकोशेषु ग्रामेषु नगरेषु च ।
अटवीषूग्रयक्षासु मरुषूद्यद्दवाग्निषु ॥

4.11.27

लोकालोकाचलान्तेषु पर्वतेषु ह्रदेषु च ।
अन्ध्रद्रमिडकाश्मीरपारसीकपुरेषु च ॥

4.11.28

नानाम्भोधितरङ्गासु गङ्गाजलघटासु च ।
द्वीपान्तरेषु दूरेषु जम्बूषण्डलतासु च ॥

4.11.29

सर्वतः पर्वताकाराः पतितास् ते सुरारयः ।
विस्फोटिताङ्गचरणा विभिन्नकरबाहवः ॥

4.11.30

शाखालग्नान्त्रतन्त्रीका मुक्तरक्तवहच्छटाः ।
व्यस्ताङ्गखुरमूर्धानो निष्क्रान्तकुपितेक्षणाः ॥

4.11.31

स्वायुधावलनावेगच्छिन्नकङ्कटहेतयः ।
दूरापातविपर्यस्तपतन्नानाविधांशुकाः ॥

4.11.32

कण्ठलग्नशिरस्त्राणखटत्कारोग्रभीतयः ।
शिलाशितशिखाप्रोतदेहभागावलम्बिनः ॥

4.11.33

शल्मल्यग्रदृढापातप्रोतकङ्कटशङ्कवः ।
सुशिलाफलकास्फालशतधाशीर्णमस्तकाः ॥

4.11.34

सर्व एव सकलासु सशस्त्राः पातमात्रसमनन्तरम् एव ।
दिक्षु नाशम् अगमन्न् असुरेन्द्राः पांसवो ऽम्बुधिगताः पयसीव ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc