भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 4.10

4.10.1

इत्य् उक्त्वा भगवान् देवस् तत्रैवान्तर्धिम् आययौ ।
वेलावनतटे शब्दं कृत्वेवाम्बुतरङ्गकः ॥

4.10.2

सुरास् त्व् आकर्ण्य तद्वाक्यं जग्मुस् स्वाम् अभितो दिशम् ।
कमलामोदम् आदाय वनमालाम् इवानिलाः ॥

4.10.3

दिनानि कतिचित् स्वेषु कान्तेषु स्थिरकान्तिषु ।
द्विरेफा इव पद्मेषु मन्दिरेषु विशश्रमुः ॥

4.10.4

कञ्चित् कालं समासाद्य स्वात्मोदयकरं शुभम् ।
चक्रुर् दुन्दुभिनिर्घोषं प्रलयाभ्ररवोपमम् ॥

4.10.5

अथ दैत्यैस् सह व्योम्नि तैः पातालतलोत्थितैः ।
कालक्षेपकरं घोरं पुनर् युद्धम् अवर्तत ॥

4.10.6

ववुर् असिशरशक्तिमुद्गरौघा मुसुलगदापरशूग्रचक्रसङ्घाः ।
अशनिगिरिशिलाहुताशवृक्षा अहिगरुडादिमुखानि चायुधानि ॥

4.10.7

मायाकृतायुधमहाम्बुघनप्रवाहा क्षिप्रं प्रति प्रतिदिशं परिनिर्जगाम ।
पाषाणपर्वतमहीतटवृक्षलक्षक्षुब्धाम्बुपूरघनघोषवती नदी द्राक् ॥

4.10.8

मध्यप्रवाहवहदुल्मुकशूलशैलप्रासासिकुन्तशरतोमरमुद्गरेण ।
गङ्गोपमाम्बुवलितामरमन्दिरेण सर्वासु दिक्ष्व् अशनिवर्षणकर्षणेन ॥

4.10.9

पृथ्व्यादिदारुणशरीरमयी प्रहारदानग्रहे गगनरश्मिशरीरकैव ।
या योपशाम्यति सुरासुरसिद्धसेना मायाकृता पुनर् उदेति रसेन सैव ॥

4.10.10

शैलोपमायुधविघट्टितभूधराणि रक्ताम्बुपूरपरिपूर्णमहार्णवानि ।
देवासुरेन्द्रसुरशैलविरूढकुन्ततालीवनानि ककुभां वदनान्य् अथासन् ॥

4.10.11

उद्गीर्णकुन्तशरशक्तिगदासिचक्रा हेलानिगीर्णसुरदानवमुक्तशैला ।
काषक्वणत्क्रकचदन्तनखोग्रमाला जीवान्वितापतद् अथायससिंहवृष्टिः ॥

4.10.12

उज्ज्वाललोचनविषज्वलनातपोद्यद्दिग्दाहदर्शितयुगान्तदिनेशसेना ।
उड्डीयमानपरिदीर्घमहीमहीध्रा मत्ताब्धिवद् विषधरावलिर् उल्ललास ॥

4.10.13

उन्नादवज्रमकरोत्करकर्करान्तरिक्षाब्धिवीचिवलयैर् वलिताचलेन्द्रैः ।
आसीज् जगत् सकलम् एव सुसङ्कटाङ्गम् आवर्तिभिर् विविधहेतिनदीप्रवाहैः ॥

4.10.14

शैलास्त्रशस्त्रगरुडाचलमालितोच्चनागाङ्गनासुरगणाङ्गनम् अन्तरिक्षम् ।
आसीत् क्षणं जलधिभिः क्षणम् अग्निपूरैः पूर्णं क्षणं दिनकरैः क्षणम् अन्धकारैः ॥

4.10.15

गरुडगुडगुडाकुलान्तरिक्षप्रविसृतहेतिहुताशपर्वतौघैः ।
जगद् अभवद् असह्यकल्पकालज्वलितसुरालयभूतलान्तरालम् ॥

4.10.16

उदपतन् वसुधातलतो ऽसुरा गगनम् अद्रितटाद् इव पक्षिणः ।
अतिबलाद् अपतन् विबुधा भुवि प्रलयचालितशैलशिला इव ॥

4.10.17

शरीररूढोन्नतहेतिवृक्षवनावलीलग्नमहाग्निदाहाः ।
सुरासुराः प्रापुर् अथाम्बरान्तः कल्पानिलान्दोलितशैलशोभाम् ॥

4.10.18

सुरासुराद्रीन्द्रशरीरमुक्तै रक्तप्रवाहैर् अभितो भ्रमद्भिः ।
बभार पूर्णं परितो ऽम्बराब्धिस् सन्ध्यारुणोद्यच्छतगङ्गम् अङ्गम् ॥

4.10.19

गिरिवर्षणम् अम्बुवर्षणं विविधोग्रायुधवर्षणं तथा ।
विषमाशनिवर्षणं च ते शमम् अन्योऽन्यम् अथाग्निवर्षणम् ॥

4.10.20

अनयन् नयमार्गकोविदा दलिताशेषगिरीन्द्रभित्तयः ।
ससृजुश् च समं समन्ततः ककुबङ्गेष्व् इव पुष्पवर्षणम् ॥

4.10.21

देवासुरास् सरससङ्गरसम्भ्रमार्ता अन्योऽन्यम् अङ्गदलनाकुलहेतिहस्ताः ।
दामेन्द्रडिम्बदहनाः पृथुपीठपीठैः कीर्णासृजो नभसि बभ्रमुर् आक्षिपन्तः ॥

4.10.22

छिन्नैश् शिरःकरभुजोरुभरैर् भ्रमद्भिर् आकाशकोशशलभैर् अशिवैस् तदानीम् ।
आसीज् जगज्जठरम् अभ्रवरैर् इवोग्रैर् आभास्करं स्थगितदिक्तटशैलजालम् ॥

4.10.23

मत्तानलं क्षुब्धजलानिलार्कं दलद्वनं शीर्णसुरासुरौघम् ।
ब्रह्माण्डम् आखण्डितकुड्यकोणम् अकालकल्पान्तकरालम् आसीत् ॥

4.10.24

भ्रान्तं भृशं भ्रमितदिक्तटम् अद्रिकूटैर् आत्मप्रमाणघनहेतिहतै रणद्भिः ।
कूजद्भिर् आर्तिभिर् इवोग्रगुहौघवातैः क्रन्दद्भिर् आपतितसिंहरवैर् अदभ्रैः ॥

4.10.25

मायानदीजलधियोधघनाग्निदाहैर् वृक्षैस् सुरासुरशवैर् अचलैश् शिलौघैः ।
भ्रान्तं शिरस्त्रशरशक्तिगदास्त्रशस्त्रैर् वातावकीर्णवनपर्णवद् अम्बरान्तः ॥

4.10.26

अद्रीन्द्रपक्षपरिमाणगमागमैकदुर्वारहस्ततलदारुणताडनैर् द्राक् ।
आसीत् पतद्भटशरीरगिरीन्द्रघातविभ्रष्टदेवपुरपूर्णजलार्णवौघः ॥

4.10.27

घनघुङ्घुमपूरितान्तरिक्षा क्षतजाक्षालितभूधरान्तराला ।
रुधिरह्रदवृत्तिवर्तिनी वा भुवनाभोगगुहा तदाकुलाभूत् ॥

4.10.28

अनन्तदिक्प्रसरविकारकारिणी क्षयोदयोन्मुखसुखदुःखदायिनी ।
रणक्रियासुरसुरसङ्घसङ्कटा तदाभवत् खलु सदृशीह संसृतेः ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc