मोक्षोपाय · अध्याय 3.87
पितामहक्रमे तस्मिंस् ततस् ते बद्धभावनाः ।
कर्मभिस् तैस् समाक्रान्तमनस्कास् तस्थुर् आदृताः ॥
यावत् ते देहकास् तेषां तापेन पवनैस् तथा ।
ययुश् शोषं यथा ग्रीष्मे छिन्नाः कमलपल्लवाः ॥
जक्षुस् तान् देहकांस् तत्र क्रव्यादा वनवासिनः ।
इतश् चेतश् च लुठितास् सत्फलानीव मर्कटाः ॥
अथ ते शान्तबाह्यार्था ब्रह्मत्वे कृतभावनाः ।
तस्थुश् चतुर्युगस्यान्ते यावत् कल्पः क्षयं गतः ॥
क्षीयमाणे ततः कल्पे तपत्य् आदित्यसञ्चये ।
पुष्करावर्तकेषूच्चैर् वर्षत्सु कठिनारवम् ॥
वहत्सु कल्पवातेषु स्थित एव महार्णवे ।
क्षीणेषु भूतवृन्देषु ते तथैव व्यवस्थिताः ॥
अद्य प्रबुद्धे भवति द्रष्टुम् इच्छति संसृतिम् ।
स्वकेनैव क्रमेणोच्चैस् ते तथैव व्यवस्थिताः ॥
त एते भगवन् ब्रह्मन् ब्रह्मणो ब्राह्मणा दश ।
त एते दश संसारा मनोव्योमनि संस्थिताः ॥
तेषाम् एकतमस्यायम् अहम् आकाशमन्दिरः ।
भानुर् भुवि विभो कालकलाकर्मणि योजितः ॥
एष ते कथितस् सर्गो दशानाम् अब्जसम्भव ।
ब्रह्मणां सम्भवो व्योम्नि यथेच्छसि तथा कुरु ॥
विविधकल्पनम् आवलिताम्बरं यद् इदम् उत्तमजागतम् उत्थितम् ।
किरणजालकमोहितमोहनं तद् अखिलं निजचेतसि विभ्रमः ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0