भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 3.75

3.75.1

अथ वर्षसहस्रेण तां पितामह आययौ ।
वरं पुत्रि गृहाणेति व्याजहार नभस्तलात् ॥

3.75.2

सूची कर्मेन्द्रियाभावाज् जीवमात्रकलावती ।
न किञ्चिद् व्याजहारास्मै चिन्तयाम् आस केवलम् ॥

3.75.3

पूर्णास्मि गतसन्देहा किं वरेण करोम्य् अहम् ।
शाम्यामि परिनिर्वामि सुखम् आसे च केवलम् ॥

3.75.4

ज्ञातं ज्ञातव्यम् अखिलं शान्तास् सन्देहजालिकाः ।
स्वविवेको विकसितः किम् अन्येन प्रयोजनम् ॥

3.75.5

यथा स्थितेयम् अस्मीह सन्तिष्ठेयं तथैव हि ।
सत्यासत्यकलाम् एव त्यक्त्वा किम् इतरेण मे ॥

3.75.6

एतावन्तम् अहं कालम् अविवेकेन बाधिता ।
स्वसङ्कल्पसमुत्थेन वेतालेनेव बालिका ॥

3.75.7

इदानीम् उपशान्तो ऽसौ स्वविचारणया स्वयम् ।
ईप्सितानीप्सितैर् अर्थः को भवेत् कल्पितैर् मम ॥

3.75.8

इति निश्चययुक्तां तां सूचीं कर्मेन्द्रियोज्झिताम् ।
तूष्णीं स्थितां स नियतेस् सम्पश्यन् भगवान् स्थितिम् ॥

3.75.9

ब्रह्मा पुनर् उवाचेमां वीतरागां प्रसन्नधीः ।
वरं पुत्रि गृहाण त्वं कञ्चित् कालं च भूतले ॥

3.75.10

भोगान् भुक्त्वा ततः पश्चाद् गमिष्यसि परं पदम् ।
अव्यावृत्तिस्वरूपाया नियतेर् एष निश्चयः ॥

3.75.11

तपसानेन सङ्कल्पस् सफलो ऽस्तु तवोत्तमे ।
पीना भव पुनस् सैव हिमकाननराक्षसी ॥

3.75.12

यया पूर्वं वियुक्तासि तन्वा जलदरूपया ।
बीजान्तर्वृक्षता पुत्रि बृहद्वृक्षतया यथा ॥

3.75.13

योगम् एष्यसि भूयस् त्वं तन्वा तद्बीजरूपिणी ।
तयैव रमसे पुत्रि लतयेवाङ्कुरस्थितिः ॥

3.75.14

बाधां विदितवेद्यत्वान् न च लोके करिष्यसि ।
अन्तश्शुद्धा शान्तवाता शरदीवाभ्रमण्डली ॥

3.75.15

अन्तरध्यानविरता कदाचिल् लीलया यदि ।
भविष्यसि बहीरूढा सर्वात्मध्यानरूपिणी ॥

3.75.16

व्यवहारात्मकध्यानधारणाधाररूपिणी ।
वातस्वभाववद्देहपरिस्पन्दविलासिनी ॥

3.75.17

तदा विरोधिनी पुत्रि स्वकर्मस्पन्दरोधिनी ।
न्यायेन क्षुन्निवृत्त्यर्थं भूतबाधां करिष्यसि ॥

3.75.18

भविष्यसि न्यायवृत्तिर् लोके त्वं न्यायबाधिका ।
जीवन्मुक्ततया देहे स्वविवेकैकपालिका ॥

3.75.19

इत्य् उक्त्वा गगनतलाज् जगाम देवस् सूची सा भवतु ममेति किं विरागः ।
रागो वाब्जजवचनार्थधारणे ऽस्मिन्न् इत्य् अन्तर् मननमयी मनाग् बभूव ॥

3.75.20

प्रादेशः प्रथमम् अभूत् ततो ऽपि हस्तो व्यासं चाप्य् अथ विटपस् ततो ऽभ्रमाला ।
सोद्यत्सावयवलता बभौ निमेषात् सङ्कल्पद्रुमकणिकाङ्कुरक्रमेण ॥

3.75.21

तन्मात्राण्य् अविकलशक्तिमन्ति देहाद् उद्भूतान्य् अथ करणेन्द्रियाणि सम्यक् ।
सङ्कल्पद्रुमनवपुष्पवत् समन्ताद् बीजे यान्य् अलम् अभवंस् तिरोहितानि ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc