भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 3.7

3.7.1

य एष देवः कथितो यस्मिञ् ज्ञाते विमुच्यते ।
वद क्वासौ स्थितो देवः कथम् एनम् अहं लभे ॥

3.7.2

य एष देवः कथितो नैष दूरे ऽवतिष्ठते ।
शरीरे संस्थितो नित्यं चिन्मात्रम् इति विश्रुतः ॥

3.7.3

एष सर्वम् इदं विश्वं न विश्वं त्व् एष सर्वगः ।
विद्यते ह्य् एष एवैको न तु विश्वाभिधास्ति दृक् ॥

3.7.4

चिन्मात्रम् एष शशिभृच् चिन्मात्रं गरुडध्वजः ।
चिन्मात्रम् एव तपनश् चिन्मात्रं कमलोद्भवः ॥

3.7.5

बाला अपि वदन्त्य् एतद् यदि चेतनमात्रकम् ।
जगद् इत्य् एव कैवात्र नाम स्याद् उपदेशता ॥

3.7.6

चिन्मात्रं चेतनं विश्वम् इति यज् ज्ञातवान् असि ।
न किञ्चिद् एतद् विज्ञातं भवता भवतारणम् ॥

3.7.7

चेतनं नाम संसारो जीव एष पशुस् स्मृतः ।
एतस्माद् एव निर्यान्ति जरामरणवीचयः ॥

3.7.8

पशुर् अज्ञो ह्य् अमूर्तो ऽपि दुःखस्यैवैष भाजनम् ।
चेतनत्वाच् चेततीदम् अत्यनर्थस् स्वयं स्थितः ॥

3.7.9

चेत्यनिर्मुक्तता या स्याद् अचेत्योन्मुखताथवा ।
अस्य सा भरितावस्था तां ज्ञात्वा नानुशोचति ॥

3.7.10

भिद्यते हृदयग्रन्थिश् छिद्यन्ते सर्वसंशयाः ।
क्सीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परापरे ॥

3.7.11

तस्य चेत्योन्मुखत्वं तु चेत्यासम्भवनं विना ।
रोद्धुं न शक्यं दृश्यं तु चेत्यं शाम्यतु वै कथम् ॥

3.7.12

साधुसङ्गमसच्छास्त्रैस् संसारार्णवतारकः ।
दृश्यते परमात्मा यस् स ब्रह्मन् वद कीदृशः ॥

3.7.13

यद् एतच् चेतनं जीवो विशीर्णो जन्मजङ्गले ।
एतम् आत्मानम् इच्छन्ति ये ते ऽज्ञाः पण्डिता अपि ॥

3.7.14

जीव एवेह संसारश् चेतनाद् दुःखसन्ततेः ।
अस्मिञ् ज्ञाते नाविज्ञातं किञ्चिद् भवति कुत्रचित् ॥

3.7.15

ज्ञायते परमात्मा चेद् राम तद् दुःखसन्ततिः ।
क्षयम् एति विषावेशशान्ताव् इव विषूचिका ॥

3.7.16

रूपं कथय मे ब्रह्मन् यथावत् परमात्मनः ।
यस्मिन् दृष्टे नरो मोहात् समग्रात् सन्तरिष्यति ॥

3.7.17

देशाद् देशान्तरं दूरं प्राप्तायास् संविदो वपुः ।
निमेषेणैव यन् मध्ये तद् रूपं परमात्मनः ॥

3.7.18

अत्यन्ताभाव एवास्ति संसारस्य जगत्स्थितेः ।
यस्मिन् बोधमहाम्भोधौ तद् रूपं परमात्मनः ॥

3.7.19

द्रष्टृदृश्यक्रमो यत्र स्थितो ऽप्य् अस्तम् अलं गतः ।
यद् अनाकाशम् आकाशस् तद् रूपं परमात्मनः ॥

3.7.20

अशून्यम् इव यच् छून्यं यस्मिञ् शून्यं जगत् स्थितम् ।
सर्गौघे सति यच् छून्यं तद् रूपं परमात्मनः ॥

3.7.21

यन् महाचिन्मयम् अपि बृहत्पाषाणवत् स्थितम् ।
जडं त्व् अजडम् एवान्तस् तद् रूपं परमात्मनः ॥

3.7.22

सबाह्याभ्यन्तरं सर्वं येन सम्प्राप्य सङ्गमम् ।
स्वरूपसत्ताम् आप्नोति तद् रूपं परमात्मनः ॥

3.7.23

प्रकाशस्य यथालोको यथा शून्यत्वम् अम्बरे ।
तथेदं संस्थितं यत्र तद् रूपं परमात्मनः ॥

3.7.24

सर्वतः परमात्मैष कथं नामावबुध्यते ।
इयतो ऽस्य जगन्नाम्नो दृश्यस्यासम्भवः कुतः ॥

3.7.25

भ्रमस्य जागतस्यास्य जातस्याकाशवर्णवत् ।
अत्यन्ताभावसम्बोधे यदि रूढिर् अलं भवेत् ॥

3.7.26

तज् ज्ञातं ब्रह्मणो रूपं भवेन् नान्येन कर्मणा ।
दृश्यात्यन्ताभावतस् तु ऋते नान्या शुभा गतिः ॥

3.7.27

अत्यन्ताभावसम्पत्तौ दृश्यस्यास्य यथास्थितेः ।
शिष्यते परमार्थो ऽसौ बुध्यते ज्ञायते ततः ॥

3.7.28

न चिद् अप्रतिबिम्बास्ति दृश्याभावाद् ऋते क्वचित् ।
क्व विना प्रतिबिम्बेन किलादर्शो ऽवतिष्ठते ॥

3.7.29

जगन्नाम्नो ऽस्य दृश्यस्य सत्तासम्भवनं विना ।
बुध्यते परमं तत्त्वं न कदाचन केनचित् ॥

3.7.30

इयतो दृश्यजालस्य ब्रह्माण्डस्य जगत्स्थितेः ।
मुने कथम् असत्तास्ति क्व मेरुस् सर्षपोदरे ॥

3.7.31

दिनानि कतिचिद् राम यदि तिष्ठस्य् अखिन्नधीः ।
साधुसङ्गमसच्छास्त्रपरमस् तद् अहं क्षणात् ॥

3.7.32

प्रमार्जयामि ते दृश्यं बोधे मृगजलं यथा ।
दृश्याभावे द्रष्टृता च शाम्येद् बोधो ऽवशिष्यते ॥

3.7.33

द्रष्टृत्वं सति दृश्ये ऽस्मिन् दृश्यत्वं सत्य् अवेक्षके ।
एकत्वं सति हि द्वित्वे द्वित्वं चैकत्ववेदने ॥

3.7.34

एकाभावे द्वयोर् एव सिद्धिर् भवति नात्र हि ।
द्वित्वैक्यद्रष्टृदृश्यत्वक्षये सद् अवशिष्यते ॥

3.7.35

अहन्तादि जगद्दृश्यं सर्वं ते मार्जयाम्य् अहम् ।
अत्यन्तासत्त्वसंवित्त्या मनोमकुरतो मलम् ॥

3.7.36

नासतो विद्यते भावो नाभावो विद्यते सतः ।
यत् तु नास्ति स्वभावेन कः क्लेशस् तत्प्रमार्जने ॥

3.7.37

जगद् आदाव् अनुत्पन्नं यच् चेदं दृश्यते ततम् ।
तत् स्वात्मन्य् एव विमले ब्रह्म चित्त्वात् स्वबृंहितम् ॥

3.7.38

जगन् नाम न चोत्पन्नं न चास्ति न च दृश्यते ।
हेम्नीव कटकादित्वं किम् एतन्मार्जने श्रमः ॥

3.7.39

तथैतद् विस्तरेणेह वक्ष्यामो बहुयुक्तिभिः ।
अबाधितं यथा नूनं स्वयम् एवानुभूयते ॥

3.7.40

आदाव् एव हि नोत्पन्नं यत् तस्येहास्तिता कुतः ।
कुतो मरौ जलसरिद् द्वितीयेन्दौ कुतो ग्रहः ॥

3.7.41

यथा वन्ध्यासुतो नास्ति यथा नास्ति मरौ जलम् ।
यथा नास्ति नभोवृक्षस् तथा नास्ति जगद्भ्रमः ॥

3.7.42

यद् इदं दृश्यते राम तद् ब्रह्मैव निरामयम् ।
एतत् पुरस्ताद् वक्ष्यामो युक्तितो न गिरैव वः ॥

3.7.43

यन् नाम युक्तिभिर् इह प्रवदन्ति तज्ज्ञास् तत्रावहेलनम् अयुक्तम् उदारबुद्धेः ।
यो युक्तियुक्तम् अवमत्य विमूढबुद्ध्या कष्टावहो भवति तं विदुर् अज्ञम् एव ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc