भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 3.6

3.6.1

अस्य देवातिदेवस्य परस्य परमात्मनः ।
ज्ञानाद् एव परा सिद्धिर् न त्व् अनुष्ठानखेददा ॥

3.6.2

अत्र ज्ञानम् अनुष्ठानं न त्व् अन्यद् उपयुज्यते ।
मृगतृष्णाजलभ्रान्तिशान्तिवेदनरूपि तत् ॥

3.6.3

न चैष दूरे नाकाशे नालभ्यो विषमो न च ।
स्वानन्दभासरूपो ऽसौ स्वदेहाद् एव लभ्यते ॥

3.6.4

किञ्चिन् नोपकरोत्य् अत्र तपोदानव्रतादिकम् ।
स्वभावमात्रविश्रान्तिम् ऋते नात्रास्ति साधनम् ॥

3.6.5

शास्त्रसत्सङ्गसद्योगिपरतैवात्र केवलम् ।
साधनं बोधनं मोहजालस्य यद् अकृत्रिमम् ॥

3.6.6

अयं स देव इत्य् एव सम्परिज्ञानमात्रतः ।
जन्तोर् न जायते दुःखं जीवन्मुक्तत्वम् एति च ॥

3.6.7

सम्परिज्ञातमात्रेण किलानेनात्मनात्मनि ।
पुनर् दोषा न बाधन्ते मरणाद्याः कदाचन ॥

3.6.8

देवदेवो महान् एष कुतो दूराद् अवाप्यते ।
तपसा केन तीव्रेण क्लेशेन कियताथवा ॥

3.6.9

स्वपौरुषप्रयत्नेन विवेकेन विकासिना ।
स देवो ज्ञायते राम न तपस्स्नानकर्मभिः ॥

3.6.10

रागद्वेषतमःक्रोधमदमात्सर्यवर्जनम् ।
विना राम तपोदानं क्लेश एव न वास्तवम् ॥

3.6.11

रागाद्युपहते चित्ते वञ्चयित्वा परं धनम् ।
यद् अर्ज्यते ततो दानाद् यस्यार्थस् तस्य तत्फलम् ॥

3.6.12

रागाद्युपहते चित्ते व्रतादि क्रियते च यत् ।
स दम्भः प्रोच्यते तस्य फलम् अस्ति मनाङ् न वा ॥

3.6.13

तस्मात् पुरुषयत्नेन मुख्यम् औषधम् आहरेत् ।
सच्छास्त्रसज्जनासङ्गं संसृतिव्याधिनाशनम् ॥

3.6.14

अत्रैकं पौरुषं यत्नं वर्जयित्वेतरा गतिः ।
सर्वदुःखक्षयप्राप्तौ न काचिद् उपपद्यते ॥

3.6.15

शृणु तत् पौरुषं कीदृग् आत्मज्ञानस्य लब्धये ।
येन शाम्यन्त्य् अशेषेण रागद्वेषविषूचिकाः ॥

3.6.16

यथासम्भवया वृत्त्या लोकशास्त्राविरुद्धया ।
सन्तोषसन्तुष्टमना भोगगर्धं परित्यजन् ॥

3.6.17

यथासम्भवम् उद्योगाद् अनुद्विग्नतया स्वया ।
साधुसङ्गमसच्छास्त्रपरतां प्रथमं श्रयेत् ॥

3.6.18

यथाप्राप्तार्थसन्तुष्टो यो गर्हितम् उपेक्षते ।
साधुसङ्गमसच्छास्त्ररतश् शीघ्रं स मुच्यते ॥

3.6.19

विचारणापरिज्ञातस्वभावस्य महामतेः ।
अनुकम्प्या भवन्त्य् एते ब्रह्मविष्ण्विन्द्रशङ्कराः ॥

3.6.20

भृशं यं सुजनप्रायं लोकास् साधुं प्रचक्षते ।
स विशिष्टस् स साधुस् स्यात् तं प्रयत्नेन संश्रयेत् ॥

3.6.21

अध्यात्मविद्या विद्यानां प्रधानं तत्कथाश्रयम् ।
शास्त्रं सच्छास्त्रम् इत्य् आहुर् मुच्यते तद्विचारवान् ॥

3.6.22

सच्छास्त्रसत्सङ्गमजैर् विवेकैस् तथा विनश्यन्ति बलान् मलानि ।
यथा जलानां कतकानुषङ्गाद् यथा जडानाम् अभयोपयोगात् ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc