मोक्षोपाय · अध्याय 3.64
यो ऽयं सर्वगतो देवः परमात्मा महेश्वरः ।
स्वच्छस् स्वानुभवानन्दरूपो ऽन्तादिविवर्जितः ॥
एतस्मात् परमानन्दाच् छुद्धचिन्मात्ररूपिणः ।
जीवस् सञ्जायते पूर्वं स चित्तं तत् ततो जगत् ॥
स्वानुभूतिप्रमाणे ऽस्मिन् ब्रह्मन् ब्रह्मणि बृंहिते ।
कथं सत्ताम् अवाप्नोति जीवको द्वैतवर्जिते ॥
असदाभासम् अध्यात्म ब्रह्मास्तीह प्रबृंहितम् ।
बृंहच्चिद्भैरववपुर् आनन्दाभिधम् अव्ययम् ॥
तस्य यत् समम् आपूर्णं शुद्धं सत्त्वम् अचिह्नितम् ।
तद्विदाम् अप्य् अनिर्देश्यं तच् छान्तं परमं पदम् ॥
तस्यैवोद्यन् महाशान्ति यत् सत्त्वं संविदात्मकम् ।
स्वभावात् स्पन्दनं तत् तज् जीवशब्देन कथ्यते ॥
तत्रेमाः परमादर्शे चिद्व्योम्न्य् अनुभवात्मिकाः ।
असत्याः प्रतिबिम्बन्ति जगज्जालपरम्पराः ॥
ब्रह्मणस् स्फुरणं किञ्चिद् यद् अवाताम्बुधेर् इव ।
दीपस्य वाप्य् अवातस्य तज् जीवं विद्धि राघव ॥
शान्तत्वापगमे ऽच्छस्य मनाक्संवेदनात्मकम् ।
स्वाभाविकं यत् स्फुरणं चिद्व्योम्नस् सो ऽङ्ग जीवकः ॥
यथा वातस्य चलनं कृशाणोर् उष्णता यथा ।
शीतता वा तुषारस्य तथा जीवत्वम् आत्मनः ॥
चिद्रूपस्यात्मतत्त्वस्य स्वभाववशतस् स्वयम् ।
मनाक्संवेदनं पूर्वं यत् तज् जीव इति स्मृतः ॥
तद् एव घनसंवित्ति यात्य् अहन्ताम् अनुक्रमात् ।
वह्न्यणुस् स्वेन्धनाधिक्यात् स्वां प्रकाशकताम् इव ॥
यथास्य तारकासर्गे व्योम्नस् स्फुरति नीलिमा ।
शून्यस्याप्य् अस्य जीवस्य तथाहम्भावभावना ॥
जीवो ऽहङ्कृतिम् आदत्ते सङ्कल्पकलयेद्धया ।
स्वयैव वा घनतया नीलिमानम् इवाम्बरम् ॥
अहम्भावो हि दिक्कालव्यवच्छेदाङ्किताकृतिः ।
खस्थस् सङ्कल्पवशतो वातस्पन्द इव स्फुरन् ॥
सङ्कल्पोन्मुखतां यातस् त्व् अहङ्काराभिधस् स्थितः ।
चित्तं जीवो मनो माया प्रकृतिश् चेति नामभिः ॥
तत्सङ्कल्पात्मकं चेतो भूतमात्रात्मकल्पनम् ।
कुर्वंस् तत्तां व्रजत्य् एव सङ्कल्पाद् याति पञ्चताम् ॥
तन्मात्रपञ्चकाकारं चित्तं तेजःकणो भवेत् ।
अजातजगति व्योम्नि तारका पेलवा यथा ॥
तेजःकणत्वम् आदत्ते चित्तं तन्मात्रकल्पनात् ।
शनैस् स्वस्मात् परिस्पन्दाद् बीजम् अङ्कुरताम् इव ॥
असौ तेजःकणो ऽण्डाख्यात् कल्पनात् कश्चिद् अण्डताम् ।
प्रयात्य् अन्तस्स्फुरद्ब्रह्मा जलम् आपीडताम् इव ॥
कश्चिद् द्रागिति देहादिकल्पनाद् याति देहताम् ।
भ्रान्त्युत्थां तदतद्रूपां गन्धर्वेच्छेव पूश्श्रियम् ॥
कश्चित् स्थावरताम् एति कश्चिज् जङ्गमताम् अपि ।
कश्चिद् याति खवार्यादिरूपं सङ्कल्पतस् स्वजात् ॥
सर्गादाव् आदिजो देहो जीवसङ्कल्पसम्भवः ।
क्रमेण पदम् आसाद्य वैरिञ्चं कुरुते जगत् ॥
आत्मभूः कलनात्माभो यत् सङ्कल्पयति क्षणात् ।
तत् स्वभाववशाद् एव जातम् एव प्रपश्यति ॥
चित्स्वभावात् स्वम् आयातं ब्रह्मत्वं सर्वकारणम् ।
संसृतौ कारणं पश्चात् कर्म निर्माय संस्थितम् ॥
चित्त्वं स्वभावात् स्फुरति चितः फेन इवाम्भसः ।
कर्मभिर् बध्यते पश्चाद् दिण्डीरम् इव रज्जुभिः ॥
सङ्कल्पः कर्मणो बीजं तदात्मैव हि जीवकः ।
कर्म पश्चात् तनोत्य् उच्चैर् उत्थायाकर्मकक्रमम् ॥
क्रोडीकृताङ्कुरां पूर्वं बीजं धत्ते स्वबीजताम् ।
पश्चान् नानात्वम् आयाति पत्त्राङ्कुरफलभ्रमैः ॥
अन्ये ख एव ये जीवा एवम् एवाकृतिं गताः ।
पूर्वोत्पन्ने जगति ते यान्ति भूताश्रितास् स्थितिम् ॥
स्वकर्मभिस् ततो जन्ममृतिकारणतां गतैः ।
प्रयान्त्य् ऊर्ध्वम् अधस्ताद् वा कर्म चित्स्पन्द उच्यते ॥
चित्स्पन्दनं भवति कर्म तद् एव दैवं चित्तं तद् एव च तद् एव शुभाशुभादि ।
तस्माद् भवन्ति भुवनानि जगन्ति पूर्वं भूतानि चाशु कुसुमानि तरोर् इवाद्यात् ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0