मोक्षोपाय · अध्याय 3.50
तस्मिंस् तदा वर्तमाने घोरे सम्रम्भविभ्रमे ।
सर्वारिसैन्यनाशार्थम् एकस् स्वबलशान्तये ॥
सस्मार स्मृतिमान् अन्तर् अनन्तोदारधैर्यभृत् ।
अस्त्रम् अस्त्रेश्वरं श्रीमद् वैष्णवं शङ्करोपमम् ॥
अथ यो ऽसौ शरस् तेन वैष्णवास्त्राभिमन्त्रितः ।
मुक्तस् तस्य फलप्रान्ताद् उल्मुकानीव निर्ययुः ॥
पङ्क्तयस् स्फारचक्राणां शतार्कीकृतदिक्तटाः ।
गदानाम् अभियान्तीनां शतवंशीकृताम्बराः ॥
वज्राणाम् उरुधाराणां शरच्छृङ्गीकृताम्बराः ।
पट्टिसानां च पट्टानां तीरवृक्षीकृताम्बराः ॥
अथ राजा द्वितीयो ऽपि वैष्णवास्त्रप्रशान्तये ।
ददौ वैष्णवम् एवास्त्रं शस्त्रनिष्ठीवपूरकम् ॥
ततो ऽपि निर्ययुर् नद्यो हेतीनां हतहेतयः ।
शरशक्तिगदाप्रासपट्टिसादिपयोरयाः ॥
शस्त्रास्त्रसरितां तासां व्योम्नि युद्धम् अवर्तत ।
रोदोरन्ध्रक्षयकरं कुलशैलेन्द्रदारणम् ॥
शरशातितशूलाश्रिखड्गाकुट्टितपट्टिसम् ।
सुप्रासप्रहतप्रासं शूलशातितशक्तिकम् ॥
शराम्बुराशिमथनमत्तमुद्गरमन्दरम् ।
गदावदलनोद्युक्तदुर्वाराद्रिनिभाशनि ॥
ऋष्टिवृष्टिप्रशमनभ्रमत्कुन्तेन्दुमण्डलम् ।
प्रासग्रसनसंरब्धप्रोद्यच्छङ्कुकृतान्तकम् ॥
चक्रार्धचटितोच्चाद्रिवज्रविज्वरपर्वतम् ।
शङ्कुशङ्कितशूत्कारकाशिशूलशिलातलम् ॥
भुसुण्डीभण्डितोद्दण्डभिण्डिपालोडुमण्डलम् ।
परशूलकरानेकपरशूलूकलङ्घितम् ॥
वहत्कचक्रकचवच्छिन्नचञ्चुरचामरम् ।
स्फुटच्चटचटास्फोटत्रुट्यत्त्रिपथगारयम् ॥
हेत्यश्रिचूर्णसंभारमहाभ्रमवितानकम् ।
अन्योऽन्यशस्त्रसंघट्टभ्रमज्ज्वालोल्लसत्तडित् ॥
शब्दस्फुरद्विरिञ्चाण्डं घातभग्नकुलाचलम् ।
धारानिकृत्तशस्त्रौघम् अस्त्रयोर् युध्यमानयोः ॥
सदस्त्रवारणेनैव यातः कालो बलात्मनः ।
स्वयं कियद्बल इति सिन्धौ तिष्ठति हेलया ॥
विदूरथो ऽस्त्रम् आग्नेयं तत्याजाशनिशब्दवत् ।
ज्वालयाम् आस स रथं सिन्धोः कक्षम् इवारसम् ॥
एतस्मिन्न् अन्तरे व्योम्नि हेतिनिर्विवरोदरे ।
स सन्नाह इव प्रावृट्पयोदपटिनीव वा ॥
अस्त्रराजेक्षणं कृत्वा युद्धं परमदारुणं ।
अन्योऽन्यं शमम् आयातौ सवीर्यौ सुभटाव् इव ॥
एतस्मिन्न् अन्तरे ऽस्त्राग्नी रथं कृत्वाशु भस्मसात् ।
प्राप दग्ध्वा वनं सिन्धुं मृगेन्द्रम् इव कन्दरात् ॥
सिन्धुर् अभ्याशतो ऽग्न्यस्त्रं वारुणास्त्रेण शातयन् ।
रथं त्यक्त्वावनिं प्राप्य खड्गखेटकवान् अभूत् ॥
अक्ष्णोर् निमेषमात्रेण रथाश्वानां रिपोः खुरान् ।
लुलाव करवालेन मृणालानीव लाघवात् ॥
विदूरथो ऽपि विरथो बभूव खेटकासिमान् ।
समायुधौ समोत्साहौ चेरतुर् मण्डलान्वितौ ॥
खड्गौ क्रकचतां यातौ मिथः प्रहरतोस् तयोः ।
दन्तमालेयम् अस्येव चलेचर्चयतः प्रजाः ॥
शक्तिम् आदाय चिक्षेप खड्गं त्यक्त्वा विदूरथः ।
सिन्धाव् उद्घर्घरारावं महोत्पात इवाशनिम् ॥
अविच्छिन्नं समायान्ती पतिता सास्य वक्षसि ।
अप्रियस्य यथा भर्तुर् अनिच्छन्ती स्वकामिनी ॥
तेन शक्तिप्रहारेण नासौ मरणम् आप्तवान् ।
केवलं रुधिरस्रोतो नागो जलम् इवात्यजत् ॥
तद्देशलीला तं दृष्ट्वा भग्नं तम इवेन्दुना ।
सविकासा घनानन्दा पूर्वलीलाम् उवाच ह ॥
देवि पश्य नृसिंहेन हतो भर्तायम् आवयोः ।
शक्तिकोटिनखैर् दैत्यस् सिन्धुर् उद्धुरकन्धरः ॥
सरस्तलस्थनागेन्द्रवरहूङ्कृतवारिवत् ।
दिष्ट्योरस्य् अस्य निर्याति रक्तं शुलुशुलारवैः ॥
हा कष्टं रथम् आनीतं सिन्धुर् आरोढुम् उद्यतः ।
सौवर्णं मैरवं शृङ्गं पुष्करावर्तको यथा ॥
पश्य देवि रथो ऽस्यासौ मुद्गरेणावचूर्णितः ।
भ्रमत्पर्वतपातेन सौवर्णं नगरं यथा ॥
प्रवृत्तो रथम् आनीतम् आरोढुं पतिर् एष मे ।
कष्टं वज्रम् इवेन्द्रेण मुसुलं सिन्धुनेरितम् ॥
वञ्चयित्वा विलासेन रथम् आरुह्य लाघवात् ।
पश्य भर्ता मदीयो ऽसौ चकास्ति नितरां रणे ॥
हा धिक् कष्टम् असौ सिन्धुर् आर्यपुत्ररथं बलात् ।
हरिश् श्वभ्रम् इवरूढः प्लवेनोन्तर् इव द्रुमम् ॥
खड्गेनारोहतो ऽस्यांसच्छिन्नो भर्ता विलोकय ।
पद्मरागगिरिर् द्योतम् इव मुञ्चति शोणितम् ॥
हा हा धिक् कष्टम् एतेन सिन्धुना खड्गधारया ।
जङ्घयोर् मे पतिश् छिन्नः क्रकचेनेव पादपः ॥
हा हा हतास्मि दग्धास्मि मृतास्म्य् अपहतास्मि च ।
मृणाले इव लूने मे पत्युर् द्वे अपि जानुनी ॥
इत्य् उक्त्वा सा तदालोक्य भर्तृभावभयातुरा ।
लता परशुकृत्तेव मूर्छिता पतिता भुवि ॥
विदूरथो ऽपि निर्जानुः प्रहरन्न् एव विद्विषि ।
पपात स्यन्दने ऽप्य् आशु छिन्नमूल इव द्रुमः ॥
पतन्न् एवैष सूतेन रथेनैवापवाहितः ।
यदा तदाहतिं तस्य कण्ठे ऽदात् सिन्धुर् उद्धतः ॥
अर्धविच्छिन्नकण्ठो ऽसाव् अनुयातो ऽथ सिन्धुना ।
स्यन्दनेनाविशत् सद्म पद्मम् एवेन्दिरा यथा ॥
सरस्वतीप्रभावाढ्यं तत् प्रवेष्टुम् असौ गृहम् ।
नाशकन् मषको मत्तो महाज्वालान्तरं यथा ॥
खड्गावकृत्तगलगर्तगलत्सवातरक्तच्छटाच्छुरितवस्त्रतनुत्रगात्रम् ।
तत्याज तं भगवतीम् अभितो गृहान्तस् सूतः प्रविश्य मृतितल्पतले गतारिम् ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0