भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 3.38

3.38.1

एवम् अत्याकुले युद्धे सास्फोटभटसङ्कटे ।
आदिनान्तम् असंरुद्धे रटत्कठिनकङ्कटे ॥

3.38.2

वहन्तीषूत्पतन्तीषु पतन्तीष्व् अश्मवृष्टिषु ।
नदीषु क्षेपणोत्थासु चटत्केत्वब्जपङ्क्तिषु ॥

3.38.3

मिथः फलाग्रटङ्कोत्थवह्निशीकरिणीसु खे ।
आयान्तीषु पतन्तीषु दूरं शरनदीषु च ॥

3.38.4

वहल्लूनशिरःपद्मचक्रावर्तैस् तरङ्गितैः ।
खार्णवे पूरिते हेतिवृन्दमन्दाकिनीगणैः ॥

3.38.5

समीरणरणद्वारिशस्त्रचूर्णघनैर् घनैः ।
सदाहाङ्गेषु सिद्धेषु कपिकच्छव्यथाप्रदैः ॥

3.38.6

अष्टभागदशाशेषं प्रतापमधुराकृतिः ।
शस्त्रघातौजसा वीर इवाहस् तनुतां ययौ ॥

3.38.7

श्रान्ताश्वेन प्रभग्नाग्रहेतिसङ्घातदीप्तयः ।
दिनेशेन समं सेना ययुर् मन्दप्रतापताम् ॥

3.38.8

अथ सेनाधिनाथाभ्यां विचार्य सह मन्त्रिभिः ।
दूताः परस्परं दत्ता युद्धं संह्रियताम् इति ॥

3.38.9

ततश् श्रमवशान् मन्दपत्त्रशस्त्रपराक्रमैः ।
रणसंहरणं काले सर्वैर् एवोररीकृतम् ॥

3.38.10

ततो महारथोत्तुङ्गकेतुप्रान्ते कृतास्पदम् ।
बलयोर् आरुरोहैक एको योधो ध्रुवो यथा ॥

3.38.11

अंशुकं भ्रामयाम् आस सर्वदिङ्मण्डलेक्षितम् ।
द्याम् एव दीर्घम् इन्द्वंशुं युद्धं संह्रियताम् इति ॥

3.38.12

ततो दुन्दुभयश् शेमुः प्रतिध्वनितदिङ्मुखाः ।
महाप्रलयसंशान्तौ पुष्करावर्तका इव ॥

3.38.13

शरादिहेतिसरितो विस्तीर्णे गगनस्थले ।
प्रवृत्ताश् शोषम् आगन्तुं शारद्यस् सरितो यथा ॥

3.38.14

योधदोर्द्रुमसञ्चारस् तनुताम् आययौ शनैः ।
भूकम्पान्ते वनस्पन्द इवावात इवार्णवः ॥

3.38.15

विनिर्गन्तुं प्रववृते रणारण्याद् बलद्वयम् ।
वारिपूरश् चतुर्दिक्कं प्रलयैकार्णवाद् इव ॥

3.38.16

उत्क्षिप्तमन्दरक्षीरसमुद्रवलनाकुलम् ।
सैन्यं प्रशमदावर्तं शनैस् साम्यम् उपाययौ ॥

3.38.17

क्रमेणासीन् मुहूर्तेन विकटोदरभीषणम् ।
अगस्त्यपीतार्णववच् छून्यम् एव रणाङ्गनम् ॥

3.38.18

शवसन्ततिसम्पूर्णं वहद्रक्तमहाह्रदम् ।
परिकूजनझाङ्कारपूर्णखिल्लीवनोपमम् ॥

3.38.19

बृहद्रक्तसरित्स्रोतस्तरङ्गरवघर्घरम् ।
साक्रन्दावसृताहूतस्वत्राणव्यग्रमानवम् ॥

3.38.20

मृतार्धमृतदेहौघरक्तौघस्रुतनिर्झरम् ।
सजीवनरपृष्ठस्थशवस्पन्दनभीतिदम् ॥

3.38.21

करीन्द्रशवराश्यग्रविश्रान्ताम्बुदखण्डकम् ।
विशीर्णरथसङ्घातजितच्छत्त्रमहावनम् ॥

3.38.22

वहद्रक्तनदीरंहःप्रोह्यमानरथद्विपम् ।
शरशक्त्यृष्टिमुसुलगदाप्रासासिसङ्कुलम् ॥

3.38.23

पर्याणाञ्चलसन्नाहकवचावृतभूतलम् ।
केतुचामरपट्टौघगुप्तशावशरीरकम् ॥

3.38.24

स्फारस्फोटकतूणीरकुञ्जकूजत्समीरणम् ।
शरराशिपलाशौघतल्पसुप्तशवेश्वरम् ॥

3.38.25

मौलिहाराङ्गदोद्द्योतचक्रचापवनावृतम् ।
श्वसृगालखगाकृष्टसान्द्रान्त्रदीर्घरज्जुकम् ॥

3.38.26

रक्तक्षेत्रक्वणत्किञ्चिच्छेषजीवातिदन्तुरम् ।
रक्तकर्दमनिर्मग्नसजीवनरदुर्दुरम् ॥

3.38.27

वराटकचयप्रेक्ष्यनिर्गताक्षिशतोच्चयम् ।
वहद्भुजौघकाष्टौघघोररक्तसरिच्छतम् ॥

3.38.28

साक्रन्दबन्धुवलितमृतार्धमृतमानवम् ।
सर्वायुधरथाश्वेभपर्याणासञ्चरान्तरम् ॥

3.38.29

नृत्यत्कबन्धदोर्दण्डषण्डकाननिताम्बरम् ।
मदमेदोवसागन्धपिण्डाक्तघ्राणकोटरम् ॥

3.38.30

उत्फालार्धमृतेभाश्वमार्यमाणाल्पजीवितम् ।
वहद्रक्तनदीवीचीप्रहारहतदुन्दुभि ॥

3.38.31

उह्यमानमृताश्वेभमकरासृक्सरिच्छटम् ।
म्रियमाणनरानीकफूत्कृतासृग्घनानिलम् ॥

3.38.32

स्वल्पजीवशरापूर्णमुखहिक्काङ्कितस्वरम् ।
पिण्डहार्यवसागन्धवातात्तोत्पीडलोहितम् ॥

3.38.33

उन्नासार्धमृतेभेन्द्रकराक्रान्तकबन्धकम् ।
निरधिष्ठितहस्त्यश्वपातितोद्यत्कबन्धकम् ॥

3.38.34

रुदद्बन्धुसखिभ्रष्टशवक्षुब्धासृगुद्ध्वनि ।
मृतभर्तृगले शस्त्रत्यक्तप्राणकुलाङ्गनम् ॥

3.38.35

शवस्थानकृतोद्ग्रीवबन्धुकायपरीक्षणम् ।
शवहारखराकृष्टसम्पृक्तनरव्याकुलम् ॥

3.38.36

केशशेवलवक्त्राब्जचक्रावर्तननर्तनम् ।
तरत्तुङ्गतरङ्गाढ्यवहद्रक्तमहानदम् ॥

3.38.37

प्राणान्तस्मृतपुत्रेष्टमातृदेवधनाभिधम् ।
हाहाहीहीतिकथितमर्मच्छेदनवेदनम् ॥

3.38.38

अङ्गलग्नायुधोद्धारव्यग्रार्धमृतमानवम् ।
विदेशमृतसाक्रन्दहूनतङ्गनताजिकम् ॥

3.38.39

म्रियमाणमिथोद्विष्टप्रारब्धरथसङ्गरम् ।
दन्तयुद्धासमर्थास्यस्मृतगेहेष्टदैवतम् ॥

3.38.40

म्रियमाणपथलज्जशूराश्रितपलायनम् ।
अशङ्कितासृगावर्तनीतास्पदगमोत्सुकम् ॥

3.38.41

मर्मच्छेदिशरव्रातव्यथाविहितहुङ्कृति ।
कबन्धबन्धप्रारब्धवेतालवलनाक्रमम् ॥

3.38.42

उह्यमानध्वजच्छत्त्रचारुचामरपङ्कजम् ।
किरत्सन्ध्यारुणं दिक्षु तेजस्विरक्तपङ्कजम् ॥

3.38.43

रथचक्रवनावर्तं रक्तार्णवम् इवाष्टमम् ।
पताकाफेनपुञ्जाढ्यं चारुचामरबुद्बुदम् ॥

3.38.44

विपर्यस्तरथं भूमिकम्पभग्नपुरोपमम् ।
उत्पातवातनिर्धूतद्रुमं वनम् इवाततम् ॥

3.38.45

कल्पदग्धजगत्प्रख्यं मुनिपीतार्णवोपमम् ।
अतिवृष्टिहतो देश इव प्रोच्छिन्नमानवम् ॥

3.38.46

कालायःकुन्तवलितं भुसुण्डीमण्डलाकुलम् ।
मत्तनागशवाकारं सन्नतोमरमुद्गरम् ॥

3.38.47

शिलाशिखरसञ्जाततालजालम् इवाततम् ।
पतद्रक्तनदीतीरजातकुन्तोन्नतद्रुमम् ॥

3.38.48

नागागस्यूतहेत्योघवृक्षांशुकुसुमाकुलम् ।
कङ्ककृष्टान्त्ररशनावृन्दजालकिताम्बरम् ॥

3.38.49

असृक्सरोवरध्वस्तपताकानलिनीगणम् ।
रक्तकर्दमनिर्मग्ननराहूतसुहृज्जनम् ॥

3.38.50

करीन्द्रकुणपागारनिर्यद्भीतजनेक्षितम् ।
हेतिलूनलतैर् वृक्षैस् सन्दिग्धोग्रकबन्धकम् ॥

3.38.51

असृङ्नदीवहद्धस्तिकटकर्परनौगणम् ।
रक्तस्रोतस्स्फुरच्छुक्लवस्त्रदिण्डीरपिण्डकम् ॥

3.38.52

सञ्चरन्निपतत्क्षिप्रमृत्युविच्छिन्नमानवम् ।
इतश् चेतश् च निपतत्कबन्धनवदानवम् ॥

3.38.53

ऊर्ध्वस्थालक्ष्यचक्रौघछिन्नसैन्यद्रवज्जनम् ।
रक्तनिस्स्रावभाङ्कारहिक्कारार्धमृतारवम् ॥

3.38.54

सिरामुखोल्लसद्रक्तधाराधौतव्रजत्खगम् ।
सुतालोत्तालवेतालतालताण्डवसङ्कटम् ॥

3.38.55

पर्यस्तरथदार्वन्तर्वनान्तरितसद्भटम् ।
अन्तस्स्थसज्जीवभटस्यन्दिस्यन्दनभीतिदम् ॥

3.38.56

रक्तकर्दमपूर्णास्यकिञ्चिज्जीवक्वणच्छवम् ।
किञ्चिज्जीवनरोद्ग्रीवकष्टदृष्टश्ववायसम् ॥

3.38.57

एकामिषोग्रक्रव्यादयुद्धकोलाहलाकुलम् ।
एकामिषार्थयुद्धेहामृतक्रव्यादसङ्कुलम् ॥

3.38.58

विवृत्तासङ्ख्याश्वद्विरदपुरुषाधीश्वररथप्रवृत्तास्तग्रीवप्रकृतिरुधिरोद्गारसुसरित् ।
रणोद्यानं मृत्योस् तद् अभवद् अशुष्कायुधलतं सशैलं कल्पान्ते जगद् इव विपर्यस्तम् अखिलम् ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc