भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 3.37

3.37.1

रणे रभसनिर्लूननरवारणदारुणे ।
अहं पूर्वम् अहं पूर्वम् इति वृन्दानुपातिनि ॥

3.37.2

एते चान्ये च बहवस् तत्र भस्मत्वम् आगताः ।
प्रविशन्तः प्रयत्नेन शलभा इव पावके ॥

3.37.3

अत्रान्ये मध्यदेशीया जना नोदाहृता मया ।
तान् इमाञ् शृणु वक्ष्यामि पक्ष्यांल् लीलामहीभृतः ॥

3.37.4

उद्देहिकाश् शूरसेना गुडा अश्वत्थनीपकाः ।
उत्तमज्योतिकद्राणि पदमध्यमिकादयः ॥

3.37.5

साल्वकाः केतका मत्स्या दौलेयककपिष्टलाः ।
माण्डव्यपाण्डुनगरसौरग्रीवा गुरुग्रहाः ॥

3.37.6

पारियात्राः कुराढ्यश् च यामुनोडुम्बरा अपि ।
गजाह्वा उज्जिहानाश् च कालकोटिकमाथुराः ॥

3.37.7

कपोलधर्मारण्याश् च तथैवोत्तरदक्षिणाः ।
पाञ्चालकाः कुरुक्षेत्रास् तथा सारस्वता जनाः ॥

3.37.8

अवन्तीस्यन्दनश्रेणीकुन्तैः पञ्चनदेरिताः ।
स्यन्दमाना विद्रवन्ती निपपात महाभृगौ ॥

3.37.9

काशा ब्रह्मावसाताश् च छिन्नास् साम्बवतीजनैः ।
भूमौ निपतितास् सन्तो मथिता मत्तवारणैः ॥

3.37.10

शूरा दशपुराश् शस्त्रैर् निकृत्तोदारकन्धराः ।
तारक्षतिभिर् आक्रम्य योजिता योजने ह्रदे ॥

3.37.11

ऋष्यकारुरुकच्छाश् च शैव्यशङ्कुशताङ्किताः ।
पङ्किले पङ्कतां याता भूतले सैन्यमर्दनैः ॥

3.37.12

वनवासोपगिरयो ऽनिलये निलयार्थिनः ।
परितः परिधावन्तः पतिता यमुनाह्रदे ॥

3.37.13

दीर्णोदरविनिर्यातस्वान्त्रतन्त्रीनियन्त्रिताः ।
रात्रिकाश् शान्तसञ्चाराः पिशाचैश् चर्विता निशि ॥

3.37.14

उद्रवैर् भद्रगिरिभिस् सङ्ग्रामाध्वनि दीक्षितैः ।
क्षोणीगर्तेषु निक्षिप्ता रसलाः कमला इव ॥

3.37.15

विद्रुत्येव द्रवद्रक्ता विद्रावितमहारथाः ।
दण्डकान्त्रानिलोद्धूता हेहया हरिणा इव ॥

3.37.16

दन्तिदन्तविनिर्भिन्ना दारदा दलितारयः ।
नीता रक्तमहानद्या द्रुमाणां पल्लवा इव ॥

3.37.17

नाराचैश् चर्विताश् चीना जीर्णजर्जरजीविताः ।
जहुर् जलनिधौ देहान् भारभूतान् अवस्थितान् ॥

3.37.18

कर्णाटसुभटोड्डीनकुन्तकर्तितकन्दराः ।
तेरुर् आभीरशूराः खे तारकानिकरा इव ॥

3.37.19

करीन्द्रमकरव्यूहरंहसाहतहेतयः ।
केशाकेशिकृतारम्भा विनेमुर् दशकाश् शकाः ॥

3.37.20

दशार्णाद् आशनिर् मुक्तशृङ्खला जालभीरवः ।
निलीना रक्तजम्बाले वैतस्तास् तिमयो यथा ॥

3.37.21

गूर्जरानीकनाशेन गूर्जरीकेशलुञ्छनम् ।
विहितं तङ्गनोत्तुङ्गशितशङ्कुशतेरणैः ॥

3.37.22

सिषिचुश् शस्त्रकाषोद्यद्विद्युद् द्यौनिर्गता द्रवात् ।
शरधारावनानीव मीनहेतिप्रदाम्बुदात् ॥

3.37.23

भुसुण्डीमण्डलोद्द्योतश्यामार्कोत्पातभीरुषु ।
आभीरेष्व् अरयः पेतुर् गोगणा हरितेष्व् इव ॥

3.37.24

कान्तकाञ्चनकान्ताङ्गी नग्ना तङ्गनवाहिनी ।
भुक्ता गौडभटेनाङ्गनखकेशनिकर्षणैः ॥

3.37.25

रणद्गगनगासज्जचक्रिचक्रविकर्तनैः ।
तङ्गनाः कणशः कीर्णाः कङ्कगृद्ध्रेषु रुद्रकैः ॥

3.37.26

लगुडालोडनोड्डीनं गौडं गुडगुडारवम् ।
श्रुत्वा गान्धारगावोग्रे दुद्रुवुः प्रमिता इव ॥

3.37.27

आकाशगार्णवप्रख्यो वहच्छस्त्रकदम्बकः ।
अकरोद् पारसीकानां घननैशतमोभ्रमम् ॥

3.37.28

मन्दराहननोड्डीनखस्थक्षीरोदसुन्दरे ।
वनालीवायुधान्य् आसञ् छत्त्रप्रालेयसानुनि ॥

3.37.29

यद् अम्बुदैर् इवोड्डीनं शस्त्रवृन्दैर् नभोऽङ्गने ।
तद् दृष्टं वीचिवलयैर् लोलैः प्लुतम् इवार्णवे ॥

3.37.30

शतचन्द्रं सितच्छत्रैश् शरैश् शलभनिर्भरम् ।
शक्तिभिः काकनीरन्ध्रं दृष्टम् आकाशकाननम् ॥

3.37.31

लीनाश् चीरचयाक्रन्दकारिणः केकयाः कृताः ।
कङ्कैः कङ्ककुलाक्रान्तैर् व्योमोच्छलितमस्तकाः ॥

3.37.32

हिमवच्छैलकन्यानां कामं कलकलारवैः ।
अङ्गैर् अनङ्गतां नीत्वा भैरवैर् इव गर्जितम् ॥

3.37.33

काशैर् उद्देहकाक्रान्ता अदृश्यैर् दयया खगैः ।
निर्धूतपक्षैः क्षुभितैः पवनैर् इव पांसवः ॥

3.37.34

उन्मत्तास्त्रविनिर्धूतास् त्यक्तहेतिरणाम्बराः ।
नन्दनानन्दनिर्मातृ ननृतुर् जहसुर् जगुः ॥

3.37.35

प्रक्वणत्किङ्किणीजालं शक्तिवर्षम् उपागतम् ।
साल्वबाणानिलोद्धूतम् अगमत् पृषदाकृतिम् ॥

3.37.36

शैव्यास्त्रैः खण्डिताः कौन्ता भ्रमत्कुन्तैर् विघट्टिताः ।
शवीभूता दिवं नीता दृष्टा विद्याधरा इव ॥

3.37.37

धराधरणधर्मिण्या धीरया वीरसेनया ।
लोठिताः पाण्डुनगराश् चलनोल्लासमात्रतः ॥

3.37.38

उद्देहकाः पञ्चनदैर् दलिता मत्तकाशिभिः ।
कुन्तदन्तक्षतोद्दामैः पद्मा इव मतङ्गजैः ॥

3.37.39

ब्रह्मवासन्तकानीकैः कृत्ताश् चक्रैर् गता महीम् ।
माहार्याः क्रकचोत्कृत्ता वृक्षाः कुसुमिता इव ॥

3.37.40

भोक्काणकाननं लूनं कुठारैर् जठरेरितैः ।
पतद् ददाह पार्श्वस्थो भद्रेशश् शरवह्निना ॥

3.37.41

काशयो वन्दिलालानलग्ना जीर्णमतङ्गजाः ।
लयम् आजग्मुर् आबुद्धम् इद्धे ऽग्नाव् इन्धनं यथा ॥

3.37.42

त्रिगर्तावर्तगर्तेषु भ्रमित्वौण्ड्रास् तृणोपमाः ।
विविशुर् व्यस्तमूर्धानः पातालान्तं पलायिताः ॥

3.37.43

मन्दानिलाचलाम्भोधिभासुरे मागधे बले ।
निमग्ना वन्दिला मन्दाः पङ्के जीर्णगजा इव ॥

3.37.44

चेदयच् चेतनां जह्नुस् तङ्गनानां रणाङ्गने ।
पुष्पाणां पथि शीर्णानां सौकुमार्यम् इवातपाः ॥

3.37.45

कोसलाः पौरवारावम् असहन्तो ऽर्भका इव ।
तेरुर् मुक्तगदाप्रासशरशक्त्यृष्टिवृष्टयः ॥

3.37.46

बभुर् भल्लनिकृत्ताङ्गा द्रिमयो विद्रुमद्रुमाः ।
इवाद्रौ विद्रवत्स्वान्त्रसान्द्रासृक्स्रवमूर्तयः ॥

3.37.47

नाराचौघा महाहेतिमारुताधूतमूर्तयः ।
बभ्रमुर् भ्रमरानीकभासुरा जलधाव् इव ॥

3.37.48

शरधाराधरामेघाश् शरोर्णापूर्णमेचकाः ।
शरपत्रावृता वृक्षा भ्रेमुर् उद्गर्जना जवाः ॥

3.37.49

वनराज्यो जवाज् जीर्णाः कटकस्थलजन्तवः ।
अत्रुटन् परमाकृष्टाः पेलवा इव तन्तवः ॥

3.37.50

रथेषूर्ध्वस्थचक्रेषु निखातोन्मग्नमूर्धसु ।
निपेतुर् जनसङ्घाता मेघा इव वनाद्रिषु ॥

3.37.51

सालतालवनं प्राप्य जनतालवनं घनम् ।
भुजावकर्तनं चासीद् उत्तालस्थाणुकाननम् ॥

3.37.52

ननन्दुर् नन्दनोद्यानसुन्दर्यो मत्तयौवनाः ।
वनोपवनदेशेषु मेरोर् वीरवराश्रिताः ॥

3.37.53

तावत् तारारवं रेजे सैन्यकाननम् उन्नतम् ।
यावन् न परपक्षेण क्रान्तं कल्पानलौजसा ॥

3.37.54

छिन्नान् पिशाचसंयुक्ता हूनापहृतहेतयः ।
पातयित्वा ययुः कर्णान् दशार्णास् तर्णका इव ॥

3.37.55

जहुर् भग्नस्वराः कान्तिं ताजिकाजिजनौजसा ।
काशयः कमलानीव शुष्कस्रोतस्स्विनोजसा ॥

3.37.56

भुखारा मेखलैः कीर्णाश् शरशक्त्यृष्टिमुद्गरैः ।
विद्रुता नरके क्षिप्ताः कार्कोटस्थलनामनि ॥

3.37.57

कौरुक्षेत्रास्थस् तवसैश् छद्मयोधिभिर् आवृताः ।
गुणा इव खलाक्रान्ता गता व्यक्तम् अशक्तताम् ॥

3.37.58

द्रिमयो वटधानानां क्षणेनादाय मस्तकम् ।
भल्लैः पलाय्याशु गता विलूनकमला इव ॥

3.37.59

मिथस् सारस्वतादित्या आदिनान्तं कृताजयः ।
पण्डिता इव वादेषु नोद्विग्ना न पराजिताः ॥

3.37.60

कवाटाः खर्वितक्षुद्रावाटधानैः परावृताः ।
तेजः परमम् आजग्मुश् शान्ताग्नय इवेन्धनैः ॥

3.37.61

कियदाख्यायत एतज् जिह्वानिचयैः किलालम् आकुलितम् ।
वासुकिर् अपि वर्णयितुं न समर्थो रणवरं नाम ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc