भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 3.36

3.36.1

अथ शृङ्गोपमानेषु स्थितेषु शवरादिषु ।
गङ्गातुल्यासु जातासु वहद्रक्तनदीषु च ॥

3.36.2

नृत्यत्सु लोलदोर्दण्डं कबन्धेषु सबन्धुषु ।
ब्रुडत्सु नरहस्त्यश्वरथेषु रुधिराम्भसि ॥

3.36.3

सर्वसैन्येषु यातेषु विरलत्वं विसारिषु ।
सर्वभीरुषु भग्नेषु विद्रुतेषु दिशो दश ॥

3.36.4

मातङ्गशवशैलेषु विश्रान्ताम्बुदपङ्क्तिषु ।
यक्षरक्षःपिशाचेषु क्रीडत्सु रुधिरार्णवे ॥

3.36.5

महतां धर्मनिष्ठानां शीलौजस्सत्त्वशालिनाम् ।
शुद्धानां कुलपद्मानां वीराणाम् अनिवर्तिनाम् ॥

3.36.6

द्वन्द्वयुद्धानि जातानि मेघानाम् इव गर्जताम् ।
मिथो निगरणोत्कानि मिलत्सागरपूरवत् ॥

3.36.7

सपञ्जरः पञ्जरिणा गजौघेन गजोच्चयः ।
सवनस् सवनेनाद्रिर् अद्रिणेवामिलद् बलात् ॥

3.36.8

अश्वौघो ऽमिलद् अश्वानां वृन्देनाराविरंहसा ।
तरङ्गोघेन घोरेण तरङ्गोघ इवार्णवे ॥

3.36.9

नरानीको नरानीकं समायुधम् अयोधयत् ।
वेण्वौघम् इव वेण्वौघो मरुल्लोलो मरुच्चलम् ॥

3.36.10

रथौघश् च रथौघेन निष्पिपेषाखिलं वपुः ।
नगरं नगरेणेव दैवेनोड्डीनम् अम्बरम् ॥

3.36.11

सरच्छरभरासाररचितापूर्ववारिदम् ।
युयुधे स्थगिताकाशा धनुर्धरपताकिनी ॥

3.36.12

विषमायुधयुद्धेषु योद्धारः पेलवाशयाः ।
यदा युक्त्या पलायन्ते रणकल्पानले तदा ॥

3.36.13

मिलिताश् चक्रिणश् चक्रैर् धनुर्धारैर् धनुर्धराः ।
खड्गिभिः खड्गयोद्धारो भुसुण्डीभिर् भुसुण्डिनः ॥

3.36.14

मुसुलैर् मुसुलोद्धाराः कुन्तिनः कुन्तधारिभिः ।
ऋष्ट्यायुधा ऋष्टिधरैः प्रासिभिः प्रासपाणयः ॥

3.36.15

समुद्गरा मुद्गरिभिस् सगदैर् विलसद्गदाः ।
प्रासमार्गविदः प्रासैः परशूत्काः परश्वधैः ॥

3.36.16

लगुडौघैर् लगुडिन उपलैर् उपलायुधाः ।
पाशिभिः पाशपरमाश् शङ्कुभिश् शङ्कुधारिणः ॥

3.36.17

क्षुरिकाभिस् सक्षुरिका भिण्डिपालैश् च तद्भृतः ।
वज्रमुष्टिधरास् तत्स्थैर् अङ्कुशैर् अङ्कुशोद्धृताः ॥

3.36.18

हलैर् हलनिकाषज्ञास् त्रिशूलैश् च त्रिशूलिनः ।
शृङ्खलाजालिनो जालैश् शार्ङ्खलैर् अलिकोमलैः ॥

3.36.19

शाक्तीकैश् शक्तियोद्धारश् शूलैश् शूलविशारदाः ।
क्षुभिताः कल्पविक्षुब्धसागरोर्मिघटा इव ॥

3.36.20

क्षुब्धश् चक्रजलावर्तैश् शरशीकरमारुतैः ।
प्रभ्रमद्धेतिमकरो व्योमैकार्णव आबभौ ॥

3.36.21

उत्फालायुधकल्लोलस् सेनाकुलजलेचरः ।
रोधोरन्ध्रसमुद्रो ऽसौ बभूवामरदुस्तरः ॥

3.36.22

दिगष्टकजनानीकं पक्षद्वयतया तया ।
अर्धेनार्धेन कुषितं भूपालाभ्यां तथा स्थितम् ॥

3.36.23

पश्य देशादिसङ्ख्येन प्राग्दिग्भागगतान् इमान् ।
लीलानाथस्य पद्मस्य पक्षे जनपदाञ् शृणु ॥

3.36.24

पूर्वस्यां काशिमगधाः कोसला मिथिलोत्कलाः ।
मेकलाः कवटाः पुण्ड्रास् तथौण्ड्रास् समगौडकाः ॥

3.36.25

द्रिमयो मद्रसुह्माश् च ताम्रलिप्तास् तथैव च ।
प्राग्ज्योतिषा वाजिमुखा अम्बष्ठाः पुरुषादकाः ॥

3.36.26

कर्णाक्षष्ठा अविश्रोत्रा आममीनाशनास् तथा ।
व्याघ्रवक्त्राः किराताश् च शवरा एकपादकाः ॥

3.36.27

माल्यवान् नाम शैलो ऽत्र शिबिवाञ् ज्ञान एव च ।
वृषभध्वजपद्माद्यास् तथोदयकरो गिरिः ॥

3.36.28

अथ प्राग्दक्षिणायां तु इमे विन्ध्याद्रिवासिनः ।
चेदयो वत्सदाशार्णा अङ्गवङ्गोपवङ्गकाः ॥

3.36.29

कलिङ्गपुण्ड्रजठरा विदर्भा मेखलास् तथा ।
शवरा नग्नपर्णाश् च कण्ठत्रिपुरपूरकाः ॥

3.36.30

कण्टकस्थलनामानः पृथुद्वीपककोमलाः ।
कण्ठद्राश् शोणिकाश् चैव तथा चर्मण्वता अपि ॥

3.36.31

कोकका हेमकुड्याश् च तथा श्मश्रुधरा इति ।
बलिग्रीवमहाग्रीवाः किष्किन्धा नारिकेलिनः ॥

3.36.32

अथ लीलापतेर् अस्य दक्षिणस्याम् इमे ऽद्रयः ।
विन्ध्यो ऽथ कुसुमापीडो महेन्द्रो दुन्दुरस् तथा ॥

3.36.33

मलयस् सूर्यवांश् चैव गणराज्यनृराज्यकाः ।
अवन्तिर् इति विख्याता तथा साम्बवतीति च ॥

3.36.34

दशपुर्या एककच्छा ऋषिकास् तुरुष्काश् शकाः ।
वनवासोपगिरयस् ते भद्रगिरयस् तथा ॥

3.36.35

नागरा दण्डकाश् चैव गणराज्या नृराज्यकाः ।
सहारा ऋष्यमूकाश् च कार्कोटा वनतिम्बिलाः ॥

3.36.36

पद्मा निवासिनश् चैव चौरकाः कर्कवीरकाः ।
वैरिकाः पाशिकाश् चैव धर्मपत्तनपांसिकाः ॥

3.36.37

शाकिकाः कृष्णचेलूरा नार्मदास् ताम्रपर्णकाः ।
गोनन्दाः कनकाश् चैव चीनपत्तननामकाः ॥

3.36.38

तालीकटास् सरित्कीर्णा रहका वेण्णकार्हणाः ।
वैवुण्डकास् तुम्बवना लाजिनद्वीपकर्णकाः ॥

3.36.39

कर्णिकाराश् च शिवयः कुङ्कुणाश् चित्रकूटकाः ।
कर्णाटमञ्चकटका महाकटविकास् तथा ॥

3.36.40

आन्ध्राश् च कोल्लशिनयश् शिवातकचवैरिकाः ।
बलदेवाः पत्तनकाः क्रौञ्चाष् टीवास् तथैव च ॥

3.36.41

शिलाक्षा रदतो नन्दनन्दनामलयाभिधाः ।
ते चित्रकूटशिखरा लङ्कारक्षोगणास्पदाः ॥

3.36.42

अथ प्रत्यग्दक्षिणायां महाराष्ट्रसुराष्ट्रकाः ।
सिन्धुसौवीरशूद्राख्या आभीरा द्रमिडास् तथा ॥

3.36.43

कोटकाष् षण्डसिन्ध्वाख्यास् तथा कलिरुहा अपि ।
अत्र हेमगिरिश् शैलस् तथा रैवतको गिरिः ॥

3.36.44

नभुकाख्यं मयवनं यवनास् तत्र जन्तवः ।
पह्लवा मार्गणावर्ता धूम्राम्बष्ठकनामकाः ॥

3.36.45

तथा लाजकणाश् चैव तथाम्रगिरिवासिनः ।
ततो ऽब्धिर् और्वाग्नियुता एते लीलापतेर् जनाः ॥

3.36.46

अथ तत्प्रतिपक्षस्थान् इमाञ् जनपदाञ् शृणु ।
पश्चिमायां दिशि प्रौढा इमे तावन् महाद्रयः ॥

3.36.47

मतिमान् नाम शैलेन्द्रः क्षुरार्पणगिरिस् तथा ।
वनौकहा मेघवांश् च चक्रवान् अस्तपर्वतः ॥

3.36.48

जनाः पञ्चनदा नाम काशा ब्रह्मावसातकाः ।
तथैव तारक्षतयः पारवाश् शान्तिकास् तथा ॥

3.36.49

पार्श्वे वतकपोक्राणां गिरिवानवमास् तथा ।
सन्त्यक्तधर्ममर्यादास् ते ऽधमा म्लेच्छजातयः ॥

3.36.50

ततो जनपदा भूमिर् योजनानां शतद्वयम् ।
ततो महेन्द्रशिखरी मुक्ता मणिमयावनिः ॥

3.36.51

वृतो महीधरशतैर् अथास्तो नाम पर्वतः ।
ततो महार्णवो भीमाः पारियात्रगिरेस् तटे ॥

3.36.52

पश्चिमोत्तरदिग्भागे देशो गिरिमतिस् स्थितः ।
तथा वेणुमतिश् चैव ततस् तुरमतिर् मही ॥

3.36.53

तथा फल्गुनकाश् चैव माण्डव्या एकनेत्रकाः ।
पुरुकुन्दास् तुखाराश् च तालमल्ललहावहाः ॥

3.36.54

वन्दिला नविला वाला दीर्घकेशाङ्गबाहवः ।
रङ्गाः खमूनिकाः कम्पा गुरुहाश् चारुहास् तथा ॥

3.36.55

ततस् स्त्रीराज्यम् अतुलं गोवृषापत्यभाजनम् ।
अथोत्तरस्यां हिमवान् काञ्जो ऽथ मधुमान् गिरिः ॥

3.36.56

कैलासो वसुमान् मेरुस् तत्पथेषु जना इमे ।
मद्रपौरवयौधेया मालवाश् शूरसेनकाः ॥

3.36.57

राजन्याश् च तथाश्विन्या अर्जुनावनयस् तथा ।
त्रिगर्तकेकयः क्षुद्रमाचेलाश्चूस्तवासिनः ॥

3.36.58

अम्बलाः प्रस्थलाश् शाकाः क्षेमधूर्तय एव च ।
अन्तरद्वीपगान्धारस् तथा वन्दिवटस्तवः ॥

3.36.59

अथ तक्षशिला नाम ततो ऽपि लवणावती ।
पुष्कलावतिदेशश् च यशोवतिमही ततः ॥

3.36.60

ततो मणिमती भूमिश् श्यामाका खचरास् तथा ।
दाशदाना गव्यसना दण्डहव्यसनास् तथा ॥

3.36.61

दानदाश् शूरकाश् चैव वाटाधारास् तथैव च ।
कोहकं नगरं चैव सुरभूतिपुरं तथा ॥

3.36.62

ततो वै तटकादर्शा दन्तुरादर्श एव च ।
ततः पिण्डलमालव्ययायनेयाभिधानकाः ॥

3.36.63

मालहाला हूनहेमतालाश्वास् स्वमुखास् तथा ।
हिमवान् वसुमान् कौञ्जः कैलासश् चेत्यगास् तथा ॥

3.36.64

ततो जनपदा भूमिर् अशीतिशतयोजना ।
अथ प्रागुत्तरस्यां त्वम् इमाञ् जनपदाञ् शृणु ॥

3.36.65

कौलूता ब्रह्मपुत्राश् च कुविन्दाश् च दिनादनाः ।
मडवा नष्टराज्याश् च वनराष्ट्रास् तथैव च ॥

3.36.66

कैडभल्लास् सिंहपुरास् तथा चामवतङ्गनाः ।
सार्पातकाः पार्वतकाः कश्मीरा दरदास् तथा ॥

3.36.67

अभिसारजदार्वाकाः पल्लोलुकचिरोडुनाः ।
किराताः पशुपालाश् च चीनास् स्वर्णमही ततः ॥

3.36.68

देवस्थलोपवनभूस् तदनूदितश्रीर् विश्वावसोस् तदनु मन्दिरम् उत्तमर्द्धि ।
कैलासभूस् तदनु मुञ्जवनश् च शैलो विद्याधरामरविहारविमानभूमिः ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc