भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 3.35

3.35.1

अथ प्रोड्डयनोद्युक्ततुरङ्गमतरङ्गकः ।
उत्ताण्डव इवामत्तो बभूव स रणार्णवः ॥

3.35.2

छत्त्रदिण्डीरविश्रान्तशितेषुशफरोत्करः ।
अश्वेभसैन्योल्ललनकल्लोलाकुलकोटरः ॥

3.35.3

नानायुधनदीनीतसैन्यावर्तविवृत्तिमान् ।
मत्तहस्तिघटापीठचलाचलकुलाकुलः ॥

3.35.4

कचच्चक्रशतावर्तवृत्तिभ्रान्तशिरस्तृणः ।
धूलीजलधरापीतभ्रमत्खड्गप्रभाजलः ॥

3.35.5

मकरव्यूहविस्तारभग्नाभग्नभटोग्रनौः ।
महागुडुगुडावर्तप्रतिश्रुद्घनकन्दरः ॥

3.35.6

मीनव्यूहविनिष्क्रान्तशरबीजौघसर्षपः ।
हेतिवीचिघटालूनपताकावीचिमण्डलः ॥

3.35.7

शस्त्रवारिक्षताम्भोदसदृशावर्तकुण्डलः ।
संरम्भघनसञ्चारघटातिमितिमिङ्गिलः ॥

3.35.8

कृष्णायसपरीधानचलत्सेनाम्बुभीषणः ।
कबन्धावर्तलेखान्तर्बद्धसैन्याद्रिभीषणः ॥

3.35.9

शरशीकरनीहारसान्धकारककुब्गणः ।
निर्घोषाशेषिताशेषशब्दैकघनघुङ्घुमः ॥

3.35.10

पतनोत्पतनव्यग्रशिरश्शकलशीकरः ।
आवर्तचक्रव्यूहान्तःप्रभ्रमद्भटकाष्टकः ॥

3.35.11

कष्टटाङ्कारकोदण्डकुण्डलोर्मिघटोद्भटः ।
अशङ्कम् एव पातालाद् इवोद्यत्सैनिकोर्मिमान् ॥

3.35.12

गमागमपरानन्तपताकाच्छत्रफेनिलः ।
वहद्रक्तनदीरंहःप्रोह्यमानरथद्रुमः ॥

3.35.13

गजप्रतिमसम्पन्नमहारुधिरबुद्बुदः ।
सैन्यप्रवाहविवलद्धयहस्तिजलेचरः ॥

3.35.14

स सङ्ग्रामो ऽम्बरग्राम इवाश्चर्यकरो नृणाम् ।
अभूत् प्रलयभूकम्पकम्पिताचलचञ्चलः ॥

3.35.15

तरत्तुरङ्गविहगः पतत्करिघटातटः ।
भ्रमद्भीरुमृगानीकस् स्फूर्जद्घुरघुरारवः ॥

3.35.16

सरच्छरालीशरभश् शरभङ्गुरसैन्यभूः ।
तरत्तुरङ्गशरभश् शरभारवहावनिः ॥

3.35.17

वलद्वीरेभनिर्ह्रादो रसतूर्यगुहागृहः ।
विसरत्सैन्यजलदो लुठद्भटमृगाधिपः ॥

3.35.18

प्रसरद्धूलिजलदो विगलत्सैन्यसानुमान् ।
पतद्रथवराढ्यङ्गः प्रपतत्खड्गमण्डलः ॥

3.35.19

प्रोत्पतत्पट्टपुष्पाढ्यः पताकाछत्रवारिदः ।
वहद्रक्तनदीपूरः पतत्साराववारणः ॥

3.35.20

सो ऽभूत् समरकल्पान्तो जगत्कवलनाकुलः ।
पर्यस्तसध्वजच्छत्रपताकारथपत्तनः ॥

3.35.21

पतद्विमलहेत्योघभूरिभास्करभास्वरः ।
कठिनप्राणिसन्तापतापिताखिलमानवः ॥

3.35.22

कोदण्डपुष्करावर्तशरधारानिरन्तरः ।
वहत्खड्गशिलालेखाविद्युद्वलयिताम्बरः ॥

3.35.23

उच्छूनरक्तजलधिपतितेभकुलाचलः ।
नभोविकीर्णनिपतद्यन्त्राश्मगणतारकः ॥

3.35.24

चक्रकल्पाम्बुदावर्तपूर्णव्योमशराम्बुदः ।
अस्त्रकल्पाग्निनिर्दग्धसैन्यलोकान्तरान्तराः ॥

3.35.25

हेतिवर्षाशनिच्छिन्नभूतभूतलभूधरः ।
गजराजगिरिव्रातपातपिष्टजनव्रजः ॥

3.35.26

शरधाराधरानीकमेघच्छन्नमहीनभः ।
महानीकार्णवक्षोभसङ्घट्टकठिनारवः ॥

3.35.27

व्याप्त उग्रानिलोद्धूतैर् जलव्यालानलाचलैः ।
अन्योऽन्यदलनव्यग्रैर् अस्त्रोत्पातफलोत्थितैः ॥

3.35.28

शूलासिचक्रशरशक्तिगदाभुसुण्डीप्रासादयो विदलनेन मिथो ध्वनन्तः ।
दीप्ता दधुर् दशदिशं शतशो भ्रमन्तः कल्पान्तवातपरिवृत्तपदार्थलीलाम् ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc