भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 3.34

3.34.1

अथ राज्ञां युयुत्सूनां भटानां मन्त्रिणाम् अपि ।
रभसप्रेक्षकाणां च तत्रेमाः प्रोदगुर् गिरः ॥

3.34.2

चलत्पद्मं सर इव वहद्विहगम् एव वा ।
नभश् शूरशिरःकीर्णं भाति तारकिताकृति ॥

3.34.3

पश्य रक्तपृषत्पूरसिन्दूरारुणमारुतैः ।
सन्ध्या इव विभान्त्य् एते मध्याह्ने ऽम्बुदभानवः ॥

3.34.4

किम् इदं भगिनि व्योम पलालभरितं स्थितम् ।
नेदं पलालं वीराणाम् एते शरभराम्बुदाः ॥

3.34.5

यावन्तो भुवि शाम्यन्ति रुधिरैर् अणुरेणवः ।
तावन्त्य् अब्दसहस्राणि भटानाम् आस्पदं दिवि ॥

3.34.6

मा भैष्ट नैते निस्त्रिंशा नीलोत्पलदलत्विषः ।
अमी वीरावलोकिन्या लक्ष्म्या नयनविभ्रमाः ॥

3.34.7

वीरालिङ्गनलोलानां नितम्बे सुरयोषिताम् ।
मेखलाश् शिथिलीकर्तुं प्रवृत्तः कुसुमायुधः ॥

3.34.8

ललद्भुजलतालोलरक्तपल्लवपाणयः ।
मञ्जरीमत्तनयना मध्वामोदसुगन्धयः ॥

3.34.9

याचन्त्यो मधुरालापैर् नन्दनोद्यानदेवताः ।
तवागमनम् आशङ्क्य प्रवृत्ताः परिनर्तितुम् ॥

3.34.10

प्रत्यनीकं भिनत्त्य् अन्तः कुठारैः कठिनैर् इयम् ।
सेना ग्राम्येव वनिता दयितं दुष्टचेष्टितैः ॥

3.34.11

हा पितुर् मम भल्लेन शिरो ज्वलितकुण्डलम् ।
सूर्यस्य निकटं नीतं कालेनेवाष्टमो ग्रहः ॥

3.34.12

आपादं शृङ्खलाप्रोतभ्रमत्स्थूलोपलद्वयम् ।
भ्रमयंश् चित्रदण्डाख्यं चक्रम् ऊर्ध्वभुजो जवात् ॥

3.34.13

योधो यम इवायामी याम्याद् आयाति दिक्तटात् ।
सर्वतस् संहरन् सेनाम् एहि यामो यथागतम् ॥

3.34.14

सद्यश्छिन्नशिरश्श्वभ्रमज्जत्कङ्ककुलाकुलाः ।
कबन्धाः पश्य नृत्यन्ति तालोत्ताला रणाङ्गने ॥

3.34.15

गीर्वाणगणगोष्ठीषु प्रवृत्ता सङ्कथा मिथः ।
वद लोकान्तरं वीराः कथं यास्यन्ति के कुतः ॥

3.34.16

निगिरन्त्य् आगतास् सेनास् स्रवन्तीर् इव सागराः ।
समत्स्यमकरव्यूहा अहो नु विषमा भटाः ॥

3.34.17

कटेषु करिणां कीर्णा धारानाराचराशयः ।
पतिता इव सम्पूर्णाश् शृङ्गसङ्घेषु वृष्टयः ॥

3.34.18

हा कुन्तेन शिरो नीतं ममेत्य् एवं विवक्षतः ।
शिर आनीतम् इत्य् एव खे खगेनेव वाशितम् ॥

3.34.19

यन्त्रपाषाणवर्षेण येनास्मान् परिषिञ्चति ।
सेनास्यां शृङ्खलाजालवलना क्रियतां बलात् ॥

3.34.20

सर्वान् समग्रतो मूढान् नयतार्धमृतान् नरान् ।
निजान् पादप्रहारेण मैतान् मारयताधमाः ॥

3.34.21

धम्मिल्लवलनाव्यग्रे घनोत्कण्ठाप्सरोगणे ।
भटो दिव्यशरीरेण पार्श्वं प्राप्तो विलोक्यताम् ॥

3.34.22

फुल्लहेमारविन्दासु च्छायाशीतजलानिलैः ।
स्वर्गनद्यास् तटीष्व् एवं दूरायातं विलोकय ॥

3.34.23

विविधायुधसङ्घट्टखण्डितोग्राद्रिकोटयः ।
खे चरन्त्यो झणत्कारैः प्रमृतास् तारका इव ॥

3.34.24

व्योम्नि शून्यनदीवाहे वहत्सायकवारिणि ।
चक्रावर्तिनि गच्छन्ति गिरयो ऽप्य् अणुपङ्कताम् ॥

3.34.25

भ्रमद्भिर् ग्रहमार्गेषु शिरोभिर् वीरभूभृताम् ।
आयुधांशुलतानाललग्नासिदलकण्टकैः ॥

3.34.26

केतुपट्टमृणालाङ्कतलैर् लग्नशिलीमुखैः ।
वहद्वातललत्पद्मं नभः पद्मसरः कृतम् ॥

3.34.27

मृतमातङ्गसङ्घाते गिराव् इव पिपीलिकाः ।
भीरवः परिलीयन्ते स्त्रियः पुंवक्षसीव वा ॥

3.34.28

अपूर्वोत्तमसौन्दर्यकान्तसङ्गमशंसिनः ।
वान्ति विद्याधरस्त्रीणाम् अलकोल्लासिनो ऽनिलाः ॥

3.34.29

छत्त्रेषूड्डीय यातेषु छिन्नेषु व्योमचन्द्रिकाम् ।
इन्दुनैत्य यशोमूर्त्या कृता शुभ्रातपत्रता ॥

3.34.30

भटो मरणमूर्छान्ते निमेषेणामरं वपुः ।
स्वकल्पशिल्पिरचितं प्राप्तस् स्वप्नपुरं यथा ॥

3.34.31

शूलशक्त्यृष्टिचक्राणां वृष्टयो मुक्तमुष्टयः ।
व्योमाब्धौ मत्स्यमकरकुलीराश् शूरवत् स्थिताः ॥

3.34.32

शरोत्कृत्तपतच्छत्त्रकलहंसैर् नभस्तलम् ।
भाति सञ्चितपूर्णेन्दुबिम्बलक्षैर् इवावृतम् ॥

3.34.33

क्रियते गगनोड्डीनैश् चामरैश् चारुघर्घरैः ।
वातावधूतसारावतरङ्गनिकरद्युतिः ॥

3.34.34

दृश्यन्ते ते ऽतिदलिताश् छत्त्रचामरकेतवः ।
आकाशक्षेत्रनिक्षिप्ता यशश् शालिलवा इव ॥

3.34.35

वहद्भिर् व्योम्न्य् असङ्ख्येयैः पश्य नीता शरैः क्षयं ।
शक्तिवृष्टिर् उपायान्ती सस्यश्रीश् शलभैर् इव ॥

3.34.36

एषा प्रसृतदोर्दण्डभटखड्गच्छनत्कृतिः ।
कठिनात् कङ्कटाज् जाता मृत्योर् एवोग्रहुङ्कृतिः ॥

3.34.37

हेतिकल्पानिलक्षुण्णा दन्तनिर्झरवारयः ।
जनताक्षयकाले ऽस्मिन् भग्ननागा नगा इव ॥

3.34.38

सचक्रनाथसूताश्वं व्यूहरक्तमहाह्रदे ।
हा हा धिग् ब्रुडितं भ्रष्टं विनष्टं रथपत्तनम् ॥

3.34.39

कटुकङ्कटकुट्टाकखड्गसङ्घट्टटाङ्कृतैः ।
कालरात्र्या प्रनृत्यन्त्या रणे वीणेव वाद्यते ॥

3.34.40

नरेभाश्वशवाद्रिभ्यो ये च्युता रक्तनिर्झराः ।
पश्य तद्बिन्दुसिक्तेन वायुनारुणिता दिशः ॥

3.34.41

शस्त्रांशुजलधेर् व्योम्नि कालीचिकुरमेचकी ।
शरकोरकभारस्रग् घेमविद्युद् इवोम्भिता ॥

3.34.42

अनन्तरक्तसंरक्तसेनावनिभिर् आयुधैः ।
भुवनं भात्य् अतिज्वालम् अग्निलोकम् इवाकुलम् ॥

3.34.43

भुसुण्डीशक्तिशूलासिमुसुलप्रासवृष्टयः ।
अन्योऽन्यच्छेदभेदाभ्यां कणप्रकरताम् इताः ॥

3.34.44

अक्षोभैकप्रहरणाद् अबुद्धान्योऽन्यचेष्टितम् ।
संरम्भाण्वेषणप्रज्ञं रणं सुप्तम् इव स्थितम् ॥

3.34.45

अनन्यशब्दाविरतहतहेतिझणझणैः ।
गायतीव क्षयक्षोभमुदितो रणभैरवः ॥

3.34.46

अन्योऽन्यहतहेत्यग्रचूर्णपूर्णो रणार्णवः ।
वालुकामय एवाभूच् छिन्नच्छत्त्रतरङ्गकः ॥

3.34.47

अतिरभसरसद्विदारितूर्य प्रतिरवपूरितलोकपाललोकः ।
रणगिरिर् अयम् उग्रपक्षदक्षः प्रविसृतनृत्त इवाम्बरे युगान्ते ॥

3.34.48

हा हा धिक् प्रविकटकङ्कटाटनोद्यत्प्रोड्डीनप्रकटतडिच्छटाः प्रदीप्ताः ।
क्रेङ्कारस्फुरितगुणेरिता रणन्तो नाराचाश् शिखरिशिलाभिदो वहन्ति ॥

3.34.49

छिन्नेच्छा च्छम् इति न यावद् अङ्गभङ्गं कुर्वन्ति ज्वलदनलोज्ज्वलाः पृषत्काः ।
तावद् द्राग् द्रुतम् इत एहि मित्र यामो यामो ऽयं प्रवहति वासरश् चतुर्थः ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc