मोक्षोपाय · अध्याय 3.33
भगवन् युद्धम् एतन् मे समासेन मनाग् वद ।
श्रुतिर् आह्लाद्यते श्रोतुर् यस्माद् एताभिर् उक्तिभिः ॥
अथ खे तत्र ते देव्यौ सङ्ग्रामं तद् अवेक्षितुम् ।
विमाने कल्पिते कान्ते रुद्धे रुरुहतुस् स्थिरे ॥
एतस्मिन्न् अन्तरे तत्र लीलेशप्रतिपक्षतः ।
ताम्यन् सोढुम् अशक्तस् सन् दुःखव्यतिकरं रणे ॥
प्रलयार्णवकल्लोल इवोत्पत्योद्भटो भटः ।
जहौ सानाव् इव शिलां भटस्योरसि मुद्गरम् ॥
अथ प्रवृत्तः प्रसभं प्रलयार्णवरंहसा ।
सेनयोश् शस्त्रसम्पातः किरन्न् अनलविद्युतः ॥
तरत्तरलधाराग्ररेखाङ्कितनभस्तलः ।
ध्वनज्झणझणाशब्दमध्यलक्षितझाङ्कृतिः ॥
वीरहुङ्कारमिश्रज्याघर्घरारावघस्मरः ।
प्रवृत्तशरधाराभ्रभास्करार्चिर्वितानकः ॥
रणत्कङ्कटटाङ्कारप्रोड्डीनकणपावकः ।
परस्पराहतिच्छिन्नहेतिखण्डखगाम्बरः ॥
वीरदोर्द्रुमसञ्चारवहद्वननभस्तलः ।
कोदण्डचक्रक्रेङ्कारद्रवद्वैमानिकाङ्गनः ॥
महाहलहलारावभृङ्गीकृतघनध्वनिः ।
निर्विकल्पसमाधिस्थ इवैकघनतावशात् ॥
नाराचासारधाराग्रलूनशूरशिरःकणः ।
परस्परांससङ्घट्टरणत्कङ्कटसङ्कटः ॥
हुङ्कारहतहेत्यग्रसङ्घट्टकटुटाङ्कृतः ।
तरद्धारातरङ्गोग्रदन्तुराशेषदिङ्मुखः ॥
हेतिसङ्घट्टविक्षोभमुष्टिग्राह्यझणज्झणः ।
विकचत्स्फोटकस्फोटरटच्चटचटारवः ॥
प्रवहत्खड्गटाङ्कारज्वलच्छणशणध्वनिः ।
सरच्छरभरोद्वान्तलसच्छवशवस्वनः ॥
धग् धग् धग् इति विच्छिन्नकण्ठोत्थव्रणलोहितः ।
छिन्नबाहुशिरःखड्गखण्डनिर्विवराम्बरः ॥
कङ्कटोत्थस्फुरद्वह्निच्छटाप्लुष्टशिरोरुहः ।
रणत्पतदसिव्रातदत्तपीनझणज्झणः ॥
कुन्तकुण्ठितमातङ्गतरङ्गोद्गतलोहितः ।
दन्तिदन्तविनिष्पेषतारक्रेङ्कारकर्कशः ॥
महामुसुलसम्पातपिष्टवृन्दोद्धुरस्वरः ।
तरच्छूरशिरःपद्मप्रकराच्छादिताम्बरः ॥
व्योमव्यस्तभुजाहीन्द्रपूर्णधूलिमयाम्बुदः ।
छिन्नहेतिनरारब्धकेशाकेशिप्रतिक्रियः ॥
नखानखिनिकृष्टाक्षिकर्णनासोमहाभयः ।
पतत्समदमातङ्गकम्पितोर्वीलुठद्रथः ॥
रणप्रासरयोत्पन्नव्रणरक्तपरिच्छदः ।
रजोरचितनीहारकचत्प्रवहदायुधः ॥
एकीकृतघनक्षोभसैन्यसागरगर्वितः ।
मत्तहासविलासेन मृत्युना परिचर्वितः ॥
गर्विताद्रीन्द्रनागेन्द्रखर्विताम्भोदगर्जितः ।
वृक्षपार्श्वतटीसन्नचक्रशक्त्यृष्टिमुद्गरः ॥
शरोर्णातन्तुनीरन्ध्रवृक्षयोधादिमेषकः ।
मेघविभ्रान्तिविच्छिन्नपताकापट्टचामरः ॥
यन्त्रपाषाणचक्रौघद्रुतविद्रुतखेचरः ।
मरणव्यग्रकृत्ताङ्गयोधाक्रन्दातिघर्घरः ॥
कुधाराघातसङ्घातविदलन्मस्तकव्रणः ।
दूरोड्डीनकचत्खड्गखण्डतारकिताम्बरः ॥
शङ्कुनिर्मुक्तशक्त्योघविषक्तेभावृतावनिः ।
सैन्यव्याकुलवेतालवल्गनोन्मुक्तमुद्गरः ॥
गगनोत्तम्भितोत्तुङ्गशूरतोमरतोरणः ।
भुसुण्डीभग्नखड्गौघखण्डालीव्योमकुण्डलः ॥
कुन्तवेणुवनव्यस्ततापाम्बरकचच्छिखी ।
खड्गर्ष्टिवृष्टिसन्तुष्टराजपूजितसैनिकः ॥
शूरोत्तम्भितसच्छूरग्रहणोद्यमिताप्सराः ।
गदानुसारविगलत्स्फुरिताङ्गददिङ्मुखः ॥
प्रासप्रसभनिष्पिष्टकष्टचेष्टभटोत्कटः ।
चक्रिचक्रखसञ्चारच्छिन्नाचतुरवारणः ॥
परशुव्रातसम्पातपतत्समदवारणः ।
लगुडालोडनोड्डीनप्रोड्डामररणद्भटः ॥
यन्त्रपाषाणसम्पातपिष्टकेतुरथद्रुमः ।
करवालविलूनोग्रच्छत्त्रपङ्कजपाण्डुरः ॥
क्षेपणक्षोभसङ्क्षीणसैन्यक्षोण्योपलक्षितः ।
कबन्धबन्धमत्तेभपातसम्पिष्टपार्श्वगः ॥
शङ्कुशङ्कितशङ्खस्थवीरवारितवारणः ।
पाशावेशविशेषज्ञवीरातिपरिदेवनः ॥
क्षुरिकाकुक्षिनिर्भेदगलत्पद्मपतज्जनः ।
त्रिशूलवदनोदात्तशूलशङ्करनर्तनः ॥
धावद्धानुष्कसम्पूर्णतूणकूजनकाकलिः ।
भिण्डिपालभटाटोपपत्रातारभटीनटः ॥
वज्रमुष्टिविनिष्पिष्टपृष्ठसद्भटसङ्कटः ।
श्येनवद् व्योमपदवीं प्रोत्पतत्सूतपट्टिशः ॥
अङ्कुशाक्रान्तशूरेन्द्रमहेभहयकेतनः ।
हालाहलहलालूनहेलाकुलबलाचलः ॥
सुतालोत्तालकुद्दालनिखातबलभूतलः ।
धनुर्द्विगुणदत्तास्त्रलूनलोकशिलावलिः ॥
क्रकचोभयपार्श्वेहाच्छिन्नमत्तमतङ्गजः ।
सङ्ग्रामोलूखलापूर्णलोकतण्डुलमौसुली ।
अभ्राभशृङ्खलाजालबद्धसेनाविहङ्गमः ॥
नाराचवर्षवरवारिदवीरपूर मत्ताभ्रसम्भ्रमसनृत्तकबन्धबर्ही ।
कल्पान्तकाल इव वेगविवर्तमानमातङ्गशैलवलितो रणसम्भ्रमो ऽभूत् ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0