मोक्षोपाय · अध्याय 3.32
अथ वीरवरोत्कण्ठनृत्यदप्सरसि स्थिता ।
लीला विलोकयाम् आस व्योम्नि विद्यान्वितावनौ ॥
सुराष्ट्रमण्डले भर्तृपालिते वनमालिते ।
कस्मिंश्चिद् विततारण्ये द्वितीयाकाशभीषणे ॥
सेनाद्वितयम् अक्षुब्धं सौम्याब्धिद्वितयोपमम् ।
महारम्भघनं मत्तं स्थिरं राजद्वयान्वितम् ॥
युद्धसज्जं सुसन्नद्धसिद्धम् अग्निम् इवाहुतम् ।
पूर्वप्रहारसम्पातप्रेक्षाक्षुब्धाक्षिलक्षकम् ॥
उद्यतामलनिस्त्रिंशधारासारब्रुडज्जनम् ।
कचत्परश्वधप्रासभिण्डिपालर्द्धिसङ्कुलम् ॥
गरुत्मत्पक्षविक्षुब्धवनसम्पातकम्पितम् ।
उद्यद्दिनकरालोककचत्कनककङ्कटम् ॥
परस्परमुखालोककोपप्रोद्धासितायुधम् ।
अन्योऽन्यबद्धदृष्टित्वाच् चित्रभित्ताव् इवार्पितम् ॥
लेखामर्यादया दीर्घबद्धया स्थापितस्थिति ।
अनिवार्यमहाहार्यझाङ्काराश्रुतसङ्कथम् ॥
पूर्वप्रहारस्मयतश् चिरसंशान्तदुन्दुभि ।
निबद्धयोधसंस्थाननिश्चलानीकमन्थरम् ॥
धनुर्द्वितयमात्रात्मशून्यमध्यैकसेतुना ।
विभक्तं कल्पवातेन मत्तम् एकार्णवं यथा ॥
कार्यसङ्कटसंरम्भचिन्तापरवशेश्वरम् ।
रववद्भेककण्ठत्वग्भङ्गुरातुरहृद्गुहम् ॥
प्राणसर्वस्वसन्न्याससोद्योगासङ्ख्यसैनिकम् ।
कर्णस्थसशरज्यौघत्यागोन्मुखधनुर्धरम् ॥
प्रहारपातसम्प्रेक्षानिस्स्पन्दासङ्ख्यसैनिकम् ।
अन्योऽन्योत्कटकाठिन्यभटभ्रूकुटिसङ्कटम् ॥
परस्परांससङ्घट्टकटुटाङ्कारकङ्कटम् ।
वीरयोधदुराधर्षभीरुप्रोज्झितकोटरम् ॥
मिथस्संस्थानकालोकमात्रसन्दिग्धजीवितम् ।
समस्ताङ्गरुहासक्तपांसुवृद्धाभमानवम् ॥
पूर्वप्रहारसम्प्रेक्षाव्यग्रप्राणितया तया ।
संशान्तकल्लोलरवं निद्रामुद्रपुरोपमम् ॥
संशान्तशङ्खसङ्घाततूर्यनिर्ह्राददुन्दुभि ।
भूतलावशसंलीनसर्वपांसुपयोधरम् ॥
पलायनपरैः पश्चात् त्यक्तम् अङ्गुलम् अङ्गुलम् ।
विसारिमकरव्यूहमत्स्यसंस्थाब्धिभासुरम् ॥
पताकामञ्जरीपुञ्जवीजितद्रुमनायकम् ।
हास्तिकोत्तम्भितकरकाननीकृतखान्तरम् ॥
तरत्तरलभापूरसपक्षसकलायुधम् ।
धमद् धम् इति शब्दैश् च श्वासोत्थैर् व्याप्तखान्तरम् ॥
चक्रव्यूहकराक्रान्तदुर्वृत्तसुभटासुरम् ।
गरुडव्यूहसंरम्भविवलन्नागसञ्चयम् ॥
श्येनव्यूहाविभिन्नोग्रसन्निवेशोन्नमद्ध्वनि ।
अन्योऽन्यस्फोटनिष्पेषप्रपतच्छूरवृन्दकम् ॥
विविधव्यूहविन्यासम् आन्तरारावभैरवम् ।
करप्रतोलनोल्लासमत्तमुद्गरमन्दिरम् ॥
कृष्णायुधांशुजालेन श्यामीकृतदिवाकरम् ।
अनिलाधूतशल्मीलशूत्कराभशरध्वनि ॥
अनेककल्पकल्पान्तसधर्मम् इव संस्थितम् ।
प्रलयानिलसङ्क्षुब्धम् एकार्णवम् इवोत्थितम् ॥
पातालकुहराक्षुब्धम् अन्धकारम् इवोत्थितम् ।
लोकालोकम् इवोन्मत्तनृत्तलोललसत्तटम् ।
महानरकसङ्घातं भित्त्वावनिम् इवोत्थितम् ॥
आलोलकुन्तमुसुलासिपरश्वधांशुश्यामायमानम् इव सातपवारिपूरैः ।
एकार्णवं भुवनकोशम् इवाचिरेण कर्तुं समुद्यतम् अगाधम् अनन्तपूरैः ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0