मोक्षोपाय · अध्याय 3.31
एवम् आकलयन्त्यौ ते निर्गत्य जगतो निजम् ।
अन्तःपुरं ददृशतुर् झगितीव विनिद्रिते ॥
स्थितपुष्पभरापूर्णमहाराजमहाशवम् ।
शवपार्श्वोपविष्टान्तश्चित्तलीलाशरीरकम् ॥
घनरात्रितयाल्पाल्पमहानिद्रजनाकुलम् ।
धूपचन्दनकर्पूरकुङ्कुमामोदमन्थरम् ॥
तम् आलोक्य पुनर् भर्तुस् संसारं गन्तुम् आदृता ।
पपात लीला सङ्कल्पदेहेनात्रैव तन्नभः ॥
विवेश भर्तृसङ्कल्पसंसारं कञ्चिद् आततम् ।
संसारावरणं भित्त्वा भित्त्वा ब्रह्माण्डकर्परम् ॥
प्राप सार्धं तया देव्या पुनर् आवरणान्वितम् ।
ब्रह्माण्डमण्डपं स्फारं तं प्रविश्य तथा जवात् ॥
ददर्श भर्तृसङ्कल्पजगज् जम्बालपल्वलम् ।
सा हंसी शैलकमलं तमोजलदपङ्किलम् ॥
देव्यौ विविशतुस् तत् ते व्योम व्योमात्मके जगत् ।
ब्रह्माण्डे ऽन्तर् यथा पक्वमृदुबिल्वं पिपीलिके ॥
तत्र लोकान्तराण्य् अद्रीन् अन्तरिक्षम् अतीत्य ते ।
प्रापतुर् भूतलं शैलमण्डलाम्भोधिसङ्कुलम् ॥
मेरुणालङ्कृतं जम्बुद्वीपं नवदलोदरम् ।
तत्राथ भारते वर्षे लीलानाथस्य मण्डलम् ॥
एतस्मिन्न् अन्तरे तस्मिन् मण्डले मण्डितावनौ ।
चक्रे ऽवस्कन्दनं कश्चित् सीमान्तोद्रिक्तभूमिपः ॥
तेन सङ्ग्रामसंरम्भप्रेक्षार्थं समुपागतैः ।
त्रैलोक्यभूतैस् तद् व्योम बभूवात्यन्तसङ्कटम् ॥
अशङ्कितागते ते तु देव्यौ ददृशतुर् नभः ।
नभश्चरगणाक्रान्तम् अम्बुदैर् इव मालितम् ॥
सिद्धचारणगन्धर्वगणविद्याधरान्वितम् ।
शूरग्रहणसंरब्धस्वर्गलोकाप्सरोवृतम् ॥
रक्तमांसमुखोन्नृत्यद्भूतरक्षःपिशाचकम् ।
वृष्टिपुष्पभरापूर्णहस्तविद्याधराङ्गनम् ॥
वेतालयक्षकुम्भाण्डैर् द्वन्द्वालोकनसादरैः ।
आयुधापातरक्षार्थगृहीताद्रितटैर् वृतम् ॥
अस्त्रमार्गनभोभागविद्रवद्भूतमण्डलम् ।
स्वर्गार्हशूरानयनव्यग्रेन्द्रभटभासुरम् ॥
शूरार्थालङ्कृतोत्तुङ्गलोकपालाग्र्यवारणम् ।
आगच्छच्छूरसङ्घातगन्धर्वोन्मुखचारणम् ॥
शूरोत्सुकामरस्त्रैणकटाक्षेक्षितसद्भटम् ।
आहोपुरुषिकाक्षुब्धप्रेक्षकामोटनोद्भटम् ॥
आसन्नभीमसङ्ग्रामकिंवदन्तीपरम्परम् ।
लीलाहासविलासोत्कसुन्दरीधूतचामरम् ॥
धर्म्यपक्षप्रयुक्ताग्र्यमुनिस्वस्त्ययनस्तवम् ।
सम्पन्नानेकलोकेशवनितानवसंस्तवम् ॥
वीरदोर्मण्डलाश्लेषलम्पटस्त्रीगणाकरम् ।
शुक्लेन शूरयशसा चन्द्रीकृतदिवाकरम् ॥
भगवञ् शूरशब्देन कीदृशः प्रोच्यते भटः ।
स्वर्गे ऽलङ्करणं कस् स्यात् को वा डिम्बाहतो भवेत् ॥
शास्त्रोक्ताचारयुक्तस्य प्रभोर् अर्थेन यो रणे ।
मृतो ऽथवा जयी वा स्यात् स शूरश् शूरलोकभाक् ॥
अन्यथा तु निकृत्ताङ्गो रणे यो मृतिम् आप्नुयात् ।
डिम्बाहवहतः प्रोक्तस् स नरो नरकास्पदम् ॥
अयथाशास्त्रसञ्चारवृत्तेनार्थेन युध्यते ।
यो नरस् तस्य सङ्ग्रामे मृतस्य निरयो ऽक्षयः ॥
यथासम्भवशास्त्रार्थलोकाचारानुवृत्तिमान् ।
युध्यते तादृशस्यैव भक्त्या शूरस् स उच्यते ॥
गोर् अर्थे ब्राह्मणस्यार्थे मित्रस्यार्थे च सन्मतिः ।
शरणागतयत्नेन मृतस् स्वर्गे विभूषणम् ॥
परिपाल्य स्वदेशैकपालनीयस्थितिं सदा ।
राजा मृतस् तदर्थं यस् स वीरो वीरलोकभाक् ॥
प्रजोपद्रवनिष्ठस्य यस्य राज्ञो ऽथवा प्रभोः ।
अर्थेन ये मृता युद्धे ते वै निरयगामिनः ॥
धर्म्यं यथा तथा युद्धं यदि स्यात् तद् इमां स्थितिम् ।
नाशयेयुर् अलं मत्ता येन लोकभयोज्झिताः ॥
यत्र यत्र हतश् शूरस् स्वर्ग्य इत्य् अधमोक्तयः ।
धर्म्यो योद्धा भवेच् छूर इत्य् एवं शास्त्रनिश्चयः ॥
सदाचारवताम् अर्थे खड्गधारां सहन्ति ये ।
ते शूरा इति कथ्यन्ते शेषा डिम्बाहवाहताः ॥
तेषाम् अर्थे रणव्योम्नि तिष्ठन्त्य् उत्कण्ठिताशयाः ।
सुरीभूतमहासत्त्वदयितोत्कास् सुराङ्गनाः ॥
विद्याधरीमधुरमन्थरगीतगर्भं मन्दारमाल्यवलनाकुलमानिनीकम् ।
विश्रान्तकान्तसुरसिद्धविमानपङ्क्ति व्योमोत्सवे रचितशोभम् इवोल्ललास ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0