भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 3.30

3.30.1

पृथिव्यप्तेजसाम् अत्र नभस्वन्नभसोर् अपि ।
यथोत्तरं दशगुणान् अतीत्यावरकान् क्षणात् ॥

3.30.2

ददर्श परमाकाशं तत् प्रमाणविवर्जितम् ।
तथा ततं जगद् इदं यथा तत्राणुमात्रकम् ॥

3.30.3

तादृक्षावरणान् सर्गान् ब्रह्माण्डेषु ददर्श सा ।
कोटिशस् स्फुरिता व्योम्नि त्रसरेणुर् इवातपे ॥

3.30.4

महाकाशमहाम्भोधौ महाशून्यत्ववारिणि ।
महाचिद्द्रवभावोत्थान् बुद्बुदान् अर्बुदक्रमान् ॥

3.30.5

कांश्चिद् आपततो ऽधस्तात् कांश्चिच् चोपरि गच्छतः ।
कांश्चित् तिर्यग्गतीन् अन्यान् स्थितान् स्तब्धान् स्वसंविदा ॥

3.30.6

यत्र यत्रोदिता संविद् येषां येषां यथा यथा ।
तत्र तत्रोदितं रूपं तेषां तेषां तथा तथा ॥

3.30.7

न चैव तत्र नामोर्ध्वं नाधो न च गमागमाः ।
अन्यद् एव पदं किञ्चिद् अस्मद्देहागमं हि तत् ॥

3.30.8

उत्पद्योत्पद्यते तत्र स्वयं संवित् स्वभावतः ।
स्वसङ्कल्पैश् शमं याति बालसङ्कल्पजालवत् ॥

3.30.9

किम् अधस् स्यात् किम् ऊर्ध्वं स्यात् किं तिर्यक् तत्र भासुरे ।
इति ब्रूहि मम ब्रह्मन्न् इहैव यदि न स्थितिः ॥

3.30.10

ससर्वावरणान्य् अत्र महत्य् अन्तविवर्जिते ।
ब्रह्मणो ऽण्डानि भासन्ते व्योम्नि केशोण्डुको यथा ॥

3.30.11

अस्वतन्त्राः प्रधावन्ति पदार्थास् सर्व एव यत् ।
ब्रह्माण्डं पार्थिवं भागं तद् अधश् शून्यम् अन्यथा ॥

3.30.12

पिपीलिकानाम् भ्रमतां व्योम्नि वर्तुललोष्टके ।
दशदिक्कम् अधःपादाः पृष्ठम् ऊर्ध्वम् उदाहृतम् ॥

3.30.13

वृक्षवल्मीकजालेन केषाञ्चिद् धृदि भूतलम् ।
सेन्द्वर्कामरदैत्येन वेष्टितं व्योम निर्मलम् ॥

3.30.14

सम्भूतं मरुभूतेन सग्रामपुरपर्वतम् ।
इदङ्कल्पम् अलूनेन पक्वाक्षोटम् इव त्वचा ॥

3.30.15

यथा विन्ध्यवनाभोगे प्रस्फुरन्ति करेणवः ।
तथा तस्मिन् पराभोगे ब्रह्माण्डत्रसरेणवः ॥

3.30.16

तस्मिन् सर्वं ततस् सर्वं तत् सर्वं सर्वतश् च तत् ।
तच् च सर्वमयं नित्यं तथा तद् अणुकं प्रति ॥

3.30.17

शुद्धबोधमये तस्मिन् परमालोकवारिधौ ।
अजस्रम् एत्य गच्छन्ति ब्रह्माण्डाख्यास् तरङ्गकाः ॥

3.30.18

अन्तश्शून्यास् स्थिताः केचित् सकल्पक्षयरात्रयः ।
तरङ्गा इव तोयाब्धौ प्रोह्यन्ते शून्यतार्णवे ॥

3.30.19

केषाञ्चिद् अन्तः कल्पान्तः प्रवृत्तो घर्घरारवः ।
न श्रुतो ऽन्यैर् न च ज्ञातस् स्वभावरसनाकुलैः ॥

3.30.20

अन्येषां प्रथमारम्भेषूद्बुभूषा विजृम्भते ।
सर्गसंसिक्तबीजानां कोशे ऽङ्कुरलता यथा ॥

3.30.21

महाप्रलयसम्पत्तौ सूर्यार्चिर्विद्रुताश्रयाः ।
प्रवृत्ता गलितुं केचित् तापे हिमकणा यथा ॥

3.30.22

आकल्पं निपतन्त्य् एव केचिद् अप्राप्तभूमयः ।
यावद् विशीर्य जायन्ते तथासंविन्मयाः किल ॥

3.30.23

स्तब्धा एव स्थिताः केचित् केषोण्डुकम् इवाम्बरे ।
वायोस् स्पन्दा इवाभान्ति तथाप्रोदितसम्पदः ॥

3.30.24

आचाराद् वेदशास्त्राणाम् अन्य एवान्यथोदितः ।
आरम्भो विततो ऽन्येषाम् अनित्थं संस्थितक्रमः ॥

3.30.25

केचिद् ब्रह्मादिपुरुषाः केचिद् विष्ण्वादिसर्गपाः ।
केचिच् चान्ये प्रजानाथाः केचिन् निर्नाथजन्तवः ॥

3.30.26

केचिद् विचित्रसर्गेशाः केचित् तिर्यङ्मयान्तराः ।
केचिद् एकार्णवापूर्णा जलेतरविवर्जिताः ॥

3.30.27

केचिच् छिलाङ्गनिष्पिण्डाः केचित् क्रिमिपथान्तराः ।
केचिद् देवमया एव केचिन् नरमयान्तराः ॥

3.30.28

केचिन् नित्यान्धकाराढ्यास् तथाशीलितजन्तवः ।
केचिन् मषकसम्पूर्णा उडुम्बरफलश्रियः ॥

3.30.29

नित्यं शून्यान्तराः केचिच् छून्यस्पन्दात्मजन्तवः ।
सर्गेण तादृशेनान्ये पूर्णा ये ऽस्मद्धियाम् इह ।
कल्पनाम् अपि नायान्ति व्योममूकाचला इव ॥

3.30.30

तादृगन्तरम् एतेषां महाकाशं ततस् स्थितम् ।
आजीवितं प्रयच्छद्भिर् विष्ण्वाद्यैर् यन् न दीयते ॥

3.30.31

प्रत्येकम् अण्डगोलस्य स्थितः कड्ढकरत्नवत् ।
भूताकृष्टिकरो भागः पार्थिवस् स स्वभावतः ॥

3.30.32

यस् सर्गविभवो ऽस्माकं धियाम् अविषयस् ततः ।
तज्जगत्कथने शक्तिर् न ममास्ति महामते ॥

3.30.33

भीमान्धकारगहने सुमहत्य् अरण्ये नृत्यन्त्य् अदर्शितपरस्परम् एव मत्ताः ।
यक्षा यथा प्रवितते परमाम्बरे ऽन्तर् एवं स्फुरन्ति सुबहूनि महाजगन्ति ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc