भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 3.29

3.29.1

तत्र ते पेततुर् देव्यौ ग्रामे ऽन्तश्शीतलात्मनि ।
भोगमोक्षश्रियौ शान्ते पुंसीव विदितात्मनि ॥

3.29.2

कालेनैतावता लीला तेनाभ्यासेन साभवत् ।
शुद्धज्ञानैकदेहत्वात् त्रिकालामलदर्शिनी ॥

3.29.3

अथ सस्मार सर्वास् ताः प्राक्तनीस् संसृतेर् गतीः ।
स्वास् स्वयं स्वरसेनैव प्राग्जन्ममरणादिकाः ॥

3.29.4

देवि देशम् इमं दृष्ट्वा त्वत्प्रसादात् स्मराम्य् अहम् ।
इह तत् प्राक्तनं सर्वं चेष्टितं वेष्टितान्तरम् ॥

3.29.5

इहाभूवम् अहं जीर्णा सिरालाङ्गी कृशासिता ।
ब्राह्मणी शुष्कदर्भाग्रभेदरूक्षकरोदरा ॥

3.29.6

भर्तुः कुलकरी भार्या दोहमन्थानशोभिनी ।
माता सकलपुत्राणाम् अतिथीनां प्रियङ्करी ॥

3.29.7

देवद्विजसतां भक्ता सिक्ताङ्गी घृतगोरसैः ।
गर्गरीचरुकुम्भादिभाण्डोपस्करशोधिनी ॥

3.29.8

नित्यम् अन्नलवाक्तैककाचकम्बुप्रकोष्ठका ।
जामातृदुहितृभ्रातृपितृमातृप्रपूजिनी ॥

3.29.9

आदेहं सद्मवृत्त्यैव प्रक्षीणदिनयामिनी ।
वाचं चिरं चिरम् इति वदन्त्य् अनिशम् आकुला ॥

3.29.10

काहं क इव संसार इति स्वप्ने ऽप्य् असङ्कथा ।
जाया श्रोत्रियमूढस्य तादृशस्यैव दुर्धियः ॥

3.29.11

एकनिष्ठा समिच्छाकगोमयेन्धनसञ्चये ।
म्लानकम्बलसंवीतसिरालक्षा सगात्रिका ॥

3.29.12

तर्णकीकर्णजाहस्थक्रिमिनिष्कासतत्परा ।
गृहशाकवनासेकसत्वरा गृहकर्मणां ॥

3.29.13

नीलतीरतरङ्गाक्ततृणतर्पिततर्णका ।
प्रतिक्षणं गृहद्वारकृतचन्दनवर्णका ॥

3.29.14

नीत्यर्थं गृहभृत्यानां सादिनां कृतवाच्यता ।
मर्यादानियमाद् अब्धिवेलेवानिशम् अच्युता ॥

3.29.15

जीर्णपर्णसवर्णैककर्णदोलाधिरूढया ।
कष्टतापजराभीतजीवभृत्येव चिह्निता ॥

3.29.16

इत्य् उक्त्वा सञ्चरन्ती सा शिखरिग्रामकोटरे ।
सञ्चरन्त्यास् सरस्वत्या दर्शयाम् आस सा स्वयम् ॥

3.29.17

इयं मे पाटलाषण्डमण्डिता पुष्पवाटिका ।
इयं मे पुष्पितोद्यानमण्डपाकारवाटिका ॥

3.29.18

इयं पुष्करिणीतीरद्रुमग्रथिततर्णका ।
इयं सा कर्णिकानाम्नी तर्णिका भुक्तपर्णिका ॥

3.29.19

इयं सा मेदसा क्षीणा वराकी जलहारिका ।
अद्याष्टमं दिनं बाष्पपूर्णाक्षी परिरोदिति ॥

3.29.20

इह देवि मया प्रोक्तम् इहोषितम् इह स्थितम् ।
इह सुप्तम् इहातीतम् इदं दत्तम् इहाहृतम् ॥

3.29.21

एष मे ज्येष्ठशर्माख्यः पुत्रो रोदिति मन्दिरे ।
एषा मे जङ्गले धेनुर् दोघ्द्री चरति शाद्वलम् ॥

3.29.22

गृहे ऽवसन्नं दाहाय रूक्षं क्षारविधूसरम् ।
स्वं देहम् इह पञ्चाख्यं पश्येमं प्रघनं मम ॥

3.29.23

तुम्बीलताभिर् उग्राभिस् तृष्णाभिर् इव वेष्टितम् ।
महानसस्थानम् इदं मम देहम् इवापरम् ॥

3.29.24

एते रोदनताम्राक्षा बन्धवो भुवि बन्धनम् ।
अङ्गदार्पितरुद्राक्षा आहरन्त्य् अनलेन्धनम् ॥

3.29.25

अनारतं शिलाकच्छगुच्छाच्छोटनकारिभिः ।
तरङ्गैस् तुङ्गिताकारस्पृष्टतीरलतादलैः ॥

3.29.26

शीकराकीर्णपर्यन्तशाद्वलस्थलवेल्लितैः ।
शिलाफलहकास्फालफेनिलोत्फालशीकरैः ॥

3.29.27

तुषारीकृतमध्याह्नदिवाकरकरोत्करैः ।
फुल्लपुष्पोत्करासारप्रदानोत्कतटद्रुमैः ॥

3.29.28

विद्रुमैर् इव सङ्क्रान्तफुल्लकिंशुककान्तिभिः ।
व्याप्तया पुष्पराशीनां समुल्लासनकारिभिः ॥

3.29.29

उह्यमानफलापूरसुव्यग्रग्रामबालया ।
महाकलकलावर्तसक्तया ग्राम्यकुल्यया ॥

3.29.30

वेष्टितस् तरलास्फालजलधौततलोपमः ।
घनपत्त्रतरुच्छत्त्रच्छायासततशीतलः ॥

3.29.31

अयम् आलक्ष्यते पुष्पलतावलनसुन्दरः ।
ललद्गुलुच्छकच्छन्नगवाक्षो गृहमण्डपः ॥

3.29.32

अत्र मे संस्थितो भर्ता जीवाकाशलवाकृतिः ।
चतुस्समुद्रपर्यन्तमेखलाया भुवः पतिः ॥

3.29.33

आस्मृतं पूर्वम् एतेन किलासीद् अभिवाञ्छितम् ।
शीघ्रं स्याम् इव राजेति तीव्रसंवेगधर्मिणा ॥

3.29.34

दिनैर् अष्टभिर् एवासौ तेन राज्यं समृद्धिमत् ।
चिरकालप्रत्ययदं प्राप्तवान् परमेश्वरि ॥

3.29.35

अत्रासौ भर्तृजीवो मे गृहे व्योम्नि स्थितो नृपः ।
अदृश्यः खे यथा वायुर् आमोदो वा यथानिले ॥

3.29.36

इहैवाङ्गुष्ठमात्रान्ते तद् व्योम्नीव पदं स्थितम् ।
मद्भर्तृराज्यं मम तु गतं योजनकोटिताम् ॥

3.29.37

आवां खम् एव तत् खं च भर्तृराज्यं ममेश्वरि ।
पूर्णं सहस्रैश् शैलानाम् अहो मायेयम् आतता ॥

3.29.38

तद् देवि भर्तुर् निकटं पुनर् गन्तुं ममेप्सितम् ।
तद् एहि तत्र गच्छावः किं दूरं व्यवसायिनाम् ॥

3.29.39

इत्य् उक्त्वा प्रणता देवीं सा प्रविश्याशु मण्डपम् ।
विहङ्गीव तया सार्धं पुप्लुवे ऽसिनिभं नभः ॥

3.29.40

भिन्नाञ्जनचयप्रख्यं सौम्यैकार्णवसुन्दरम् ।
नारायणाङ्गसदृशं भृङ्गपृष्ठामलछविम् ॥

3.29.41

मेघमार्गम् अतिक्रम्य वातस्कन्धावनिं तथा ।
सौरं मार्गम् अथाक्रम्य चान्द्रं मार्गम् अतीत्य च ॥

3.29.42

ध्रुवमार्गोत्तरं गत्वा साध्यानां मार्गम् एव च ।
सिद्धानां समतीत्योर्वीम् उल्लङ्घ्य स्वर्गमण्डलम् ॥

3.29.43

ब्रह्मलोकान्तरे गत्वा तुषितानां च मण्डलम् ।
गोलोकं शिवलोकं च पितृलोकम् अतीत्य च ॥

3.29.44

विदेहानां च देवानां दूरम् उत्तीर्य दूरगम् ।
दूराद् दूरतरं गत्वा किञ्चिद् रुद्धा बभूव सा ॥

3.29.45

पश्चाद् आलोकयाम् आस समतीतं नभस्तलम् ।
यावन् न किञ्चिच् चन्द्रार्कताराद्य् आलक्ष्यते ह्य् अधः ॥

3.29.46

तमस् स्तिमितगम्भीरम् आशाकुहरपूरकम् ।
एकार्णवोदरप्रख्यं शिलोदरघनं स्थितम् ॥

3.29.47

तद् देवि भास्करादीनां क्वाधस् तेजो गतं वद ।
शिलाजठरनिस्स्पन्दं मुष्टिग्राह्यं तमः कुतः ॥

3.29.48

एतावतीम् इमां व्योम्नः पदवीम् आगतासि भोः ।
अर्कादीन्य् अपि तेजांसि यतो दृश्यन्त एव नो ॥

3.29.49

यथा महान्धकूपाधः खद्योतो नावलोक्यते ।
पृष्ठगेन तथेहातो नाधस् सूर्यो ऽवलोक्यते ॥

3.29.50

अहो नु पदवीम् एतां दूराम् आवाम् उपागते ।
सूर्यो ऽप्य् अधो ऽणुकणवन् न मनाग् अपि लक्ष्यते ॥

3.29.51

इत उत्तरम् अन्या स्यात् पदवी का नु कीदृशी ।
कथं च पातनी भव्या कथ्यताम् इति देवि मे ॥

3.29.52

इत उत्तरम् अग्रे ते ब्रह्माण्डपुटकर्परम् ।
यस्य वज्रादयो नाम धूलिलेशास् समुत्थिताः ॥

3.29.53

इति प्रकथयन्त्यौ ते प्राप्ते ब्रह्माण्डकर्परम् ।
भ्रमर्याव् इव शैलस्य कुड्यं निबिडमण्डलम् ॥

3.29.54

अक्लेषेनैव ते तस्मान् निर्गते गगनाद् इव ।
निश्चयत्वं हि यद् वस्तु तद् वज्रगति नेतरत् ॥

3.29.55

निरावरणविज्ञाना सा ददर्श ततस् ततः ।
जलाद्यावरणान् पारे ब्रह्माण्डस्यातिभासुरान् ॥

3.29.56

ब्राह्माद् अण्डाद् दशगुणं तोयतत्त्वं व्यवस्थितम् ।
आस्थितं वेष्टयित्वा तत् त्वग् इवाक्षोटपृष्ठगा ॥

3.29.57

तस्माद् दशगुणो वह्निस् तस्माद् दशगुणो ऽनिलः ।
ततो दशगुणं व्योम ततः परमम् अम्बरम् ॥

3.29.58

तस्मिन् परमके व्योम्नि मध्याद्यन्तविकल्पनाः ।
न काश्चन समुद्यन्ति वन्ध्यापुत्रकथा इव ॥

3.29.59

केवलं विमलं शान्तं तद् अनादि गतभ्रमम् ।
आद्यन्तमध्यरहितं महत्य् आत्मनि तिष्ठति ॥

3.29.60

आकल्पम् उत्तमबलेन शिवापतिश् चेत् तस्मिन् बलाद् गरुडकेतुरथोत्पतेश् चेत् ।
तद्ध्यानतो ऽवलभते विमले ऽम्बरे ऽन्तम् आकल्पम् एकजवगाम्य् अथ मारुतो ऽपि ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc