भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 3.28

3.28.1

वज्राङ्गसाराद् ब्रह्माण्डकुड्यान् निबिडमण्डलात् ।
कोटियोजनसंविष्टात् कथं ते निर्गते उभे ॥

3.28.2

क्व ब्रह्माण्डं क्व तद्भित्तिः क्वात्रासौ वज्रसारता ।
किलावश्यं स्थिते देव्याव् अन्तःपुरवराम्बरे ॥

3.28.3

तस्मिन्न् एव गिरिग्रामे तस्मिन्न् एवालयाम्बरे ।
ब्राह्मणस् स वसिष्ठाख्य आस्वादयति राजताम् ॥

3.28.4

तम् एव मण्डपाकाशकोणकं शून्यमात्रकम् ।
चतुस्समुद्रपर्यन्तं भूतलं सो ऽनुभूतवान् ॥

3.28.5

आकाशात्मनि भूपीठे तस्मिंस् तद् राजपत्तनम् ।
राजसद्मानुभवति स च सा चाप्य् अरुन्धती ॥

3.28.6

लीलाभिधाना सञ्जाता तया च ज्ञप्तिर् अर्चिता ।
ज्ञप्त्या सह समुल्लङ्घ्य खम् आश्चर्यमनोरमम् ॥

3.28.7

प्रादेशमात्रे नभसि सा तत्रैव गृहोदरे ।
ब्रह्माण्डान्तरम् आसाद्य गिरिं वासवमन्दिरम् ॥

3.28.8

ब्रह्माण्डात् परिनिर्गत्य स्वगृहे स्थितिम् आययौ ।
स्वप्नात् स्वप्नान्तरं प्राप्य यथा तल्पगतः पुमान् ॥

3.28.9

प्रतिभामात्रम् एवैतत् सर्वम् आकाशमात्रकम् ।
न ब्रह्माण्डं न संसारो न कुड्यादि न दूरता ॥

3.28.10

स्वचित्तम् एव कचति तयोस् तादृङ् मनोहरम् ।
वासनामात्रसोल्लेखं क्व ब्रह्माण्डं क्व संसृतिः ॥

3.28.11

निरावरणम् एवेदं ज्ञप्त्याकाशम् अनन्तकम् ।
किञ्चित् स्वचित्तेनोन्नीतं स्पन्दयुक्त्येव मारुतः ॥

3.28.12

चिदाकाशम् अजं शान्तं सर्वत्रैव हि सर्वदा ।
चित्त्वाज् जगद् इवाभाति स्वयम् एवात्मनात्मनि ॥

3.28.13

येन बुद्धं तु तस्यैतद् आकाशाद् अपि शून्यकम् ।
न बुद्धं येन तस्यैतद् वज्रसाराचलोपमम् ॥

3.28.14

गृह एव यथा स्वप्ने नगरं भाति भास्वरम् ।
तथैतद् असद् एवान्तश् चिद्धातौ भाति भास्वरम् ॥

3.28.15

यथा मरुजले ऽम्बुत्वं कटकत्वं च हेमनि ।
असत् सद् इव भातीदं तथा दृश्यत्वम् आत्मनि ॥

3.28.16

एवम् आकलयन्त्यौ ते ललने ललनाकृती ।
गृहान् निर्ययतुर् बाह्यं चारुचङ्क्रमणक्रमैः ॥

3.28.17

अदृश्ये ग्रामलोकेन प्रेक्षमाणे पुरो गिरिम् ।
चुम्बिताकाशकुहरं संस्प्र्ष्टादित्यमण्डलम् ॥

3.28.18

नानावर्णाखिलोत्फुल्लविचित्रवनकम्बलम् ।
नानानिर्झरनिर्धूतकूजद्वनविहङ्गमम् ॥

3.28.19

विचित्रमञ्जरीपुञ्जपिञ्जराम्बुदमण्डलम् ।
अभ्रकच्छगुलुच्छाग्रविश्रान्तखगसारवम् ॥

3.28.20

सारवञ्जुलविस्तारगुप्ताखिलसरित्तटम् ।
असमाप्तशिलाश्वभ्रलतानर्तनमारुतम् ॥

3.28.21

पुष्पाभ्रपिहिताकाशकोशकुट्टकवारिदम् ।
पतद्दीर्घसरित्स्रोतस्सितमुक्ताकलापकम् ॥

3.28.22

चलद्वृक्षवनव्यूहवातघट्टितदिक्तटम् ।
नानावनाकुलोपान्तच्छायासततशीतलम् ॥

3.28.23

अथ ते ललने तत्र तदा ददृशतुस् स्वयम् ।
तं गिरिग्रामकं व्योम्नस् स्वर्गखण्डम् इव च्युतम् ॥

3.28.24

वहत्प्रणालीपटलं पूर्णपुष्करिणीजलम् ।
द्विजैः कुरुकुचैः कूजत् सुषिरश्वभ्रकच्छलम् ॥

3.28.25

गर्जद्गोवृन्दहुङ्कारकरालाखिलकुञ्जकम् ।
गुञ्जागुल्मकषण्डाढ्यं सच्छायघनमारुतम् ॥

3.28.26

दुष्प्रवेशार्ककिरणं पृथङ् नीहारधूसरम् ।
उदञ्चन्मञ्जरीपुञ्जजटालविशिखान्तरम् ॥

3.28.27

शिलाफलहकस्फारप्रोच्छलच्छुक्लनिर्झरैः ।
स्मारिताचलनिर्धूतक्षीरोदधिजलश्रियम् ॥

3.28.28

फलमालामहाभारभासुरैर् अजिरद्रुमैः ।
आनीय पुष्पसम्भारं तिष्ठद्भिर् इव सङ्कुलम् ॥

3.28.29

तरत्तरलझाङ्कारकारिमारुतकम्पितैः ।
कीर्णपुष्पमहावृष्टिं द्रुमैर् इव रसाकुलैः ॥

3.28.30

अशङ्कितशिलाकूटस्रवदब्बिन्दुझाङ्कृतैः ।
किञ्चित्कृतरवं गुप्तैर् अशङ्कैश् शङ्कितैः खगैः ॥

3.28.31

उत्फाललहरीप्रान्तशीकरास्वादनाकुलैः ।
नद्याम् उड्डयनावर्तवृत्तिभिर् विहगैर् वृतम् ॥

3.28.32

उत्तालतालविश्रान्तकाकालोकनशङ्कितैः ।
बालैः प्रगोपितामिक्षाखण्डं जीर्णस्वभूप्तकैः ॥

3.28.33

पुष्पशेखरसम्भारवसनग्रामबालकम् ।
कदम्बनिम्बजम्बीरगहनोपान्तशीतलम् ॥

3.28.34

क्षौमानुतस्तास्वरया मञ्जरीपूर्णकर्णया ।
क्षुत्क्षान्तया भ्रान्तरथ्यं ग्रामखेटककान्तया ॥

3.28.35

सरित्तरङ्गसङ्घट्टसंरावाश्रुतसङ्कथम् ।
कर्णजाड्यघनत्रासवाञ्छितैकान्तसंस्थितिम् ॥

3.28.36

दधिलिप्तास्यहस्तांसैर् बद्धपुष्पलताधरैः ।
नग्नैर् गोमयपङ्काङ्कैर् बालैर् आकुलचत्वरम् ॥

3.28.37

तीरशाद्वलवल्लीनां दोलान्दोलनहारिभिः ।
तरङ्गैर् वाह्यमानाम्बुलेखिकाङ्कितसैकतम् ॥

3.28.38

दधिक्षीरघनामोदमत्तमन्थरमक्षिकम् ।
काल्यभक्तार्थनोद्बाष्पजर्जराम्बरबालकम् ॥

3.28.39

गोमयासिक्तवलयकरवारीकृतक्रुधम् ।
धम्मिल्लवलनाव्यग्रभूतस्त्रीविहसज्जनम् ॥

3.28.40

दान्तपुच्छच्छटच्छन्नपतत्ककुदवायसम् ।
गृहरथ्याङ्गनद्वारकीर्णकुन्दकरण्डकम् ॥

3.28.41

गृहपार्श्वस्थितश्वभ्रजातैः कुसुमितद्रुमैः ।
प्रत्यहं प्रातर् आगुल्फम् आकीर्णकुसुमाजिरम् ॥

3.28.42

सरच्चामरसारङ्गचलजङ्गलषण्डकम् ।
गुञ्जानिकुञ्जसञ्जातशष्पसुप्तमृगार्भकम् ॥

3.28.43

एकान्तरास्तवत्सैककर्णस्पन्दास्तमक्षिकम् ।
गोपोच्छिष्टीकृतदधिसम्पर्कास्पन्दमक्षिकम् ॥

3.28.44

समस्तसद्मसु क्षीणमाक्षिकाक्षिप्तमक्षिकम् ।
फुल्लाशोकद्रुमोद्द्योतकृतलाक्षिकमन्दिरम् ॥

3.28.45

शीकरासारमरुता नित्यार्द्रविकचद्द्रुमम् ।
कदम्बमुकुलप्रोतसप्तच्छदच्छदोत्करम् ॥

3.28.46

वृतिव्रातलताफुल्लकेतकोत्करमालिनम् ।
बृहत्प्रणालीपटलीरणद्रुटरुटारवम् ॥

3.28.47

वातायनगुहानिर्यत्सौधविश्रान्तवारिदम् ।
पूर्णपुष्करिणीपङ्क्तिपूतराजपथान्तरम् ॥

3.28.48

नीरन्ध्रविटपच्छायाशीतलामलशाद्वलम् ।
सर्वपुष्पास्रवद्बिन्दुप्रतिबिम्बिततारकम् ॥

3.28.49

अनारतपतत्पुष्पहिमवर्षसितालयम् ।
विचित्रमञ्जरीपुष्पपत्त्रपल्वलपादपम् ॥

3.28.50

गृहकक्ष्यान्तरालीनमेघगुप्तचिरण्टिकम् ।
सौधस्थमेघविद्युद्भिर् अनादेयप्रदीपकम् ॥

3.28.51

कन्दरानिलझाङ्कारघनघुङ्घुममण्डपम् ।
चरच्चकोरहारीतहरिणीहारिमन्दिरम् ॥

3.28.52

उन्निद्रकन्दलोद्वान्तमांसलामोदमन्थरैः ।
मरुद्भिर् मन्दम् आदातुम् आरब्धैर् लोलपल्लवम् ॥

3.28.53

लावकालापलीलायाम् आलीनललनाकुलम् ।
कोककोकिलकाकोलकोलाहलसमाकुलम् ॥

3.28.54

सालतालीतमालाढ्यनीलपल्वलमालितम् ।
वलीवलयविन्यासविलासवलितध्रुवम् ॥

3.28.55

आलोलपल्लवलतावलितालयानाम् उत्फुल्लकन्दलसिलिन्ध्रसुगन्धितानाम् ।
साराववारिवलनाकुलगोकुलानाम् आनीलषष्पकुसुमस्थलशोभितानाम् ॥

3.28.56

तीरद्रुमप्रकरगुप्तसरिद्रयाणाम् नीरन्ध्रपुष्पितलतोग्रवितानकानाम् ।
उद्यानकुन्दमकरन्दसुगन्धितानाम् गन्धान्धषट्पदकुलान्तरिताम्बुदानाम् ॥

3.28.57

सौन्दर्यतर्जितपुरन्दरमन्दिराणाम् राजीवराजिरजसारुणिताम्बराणाम् ।
रंहोवहद्गिरिनदीरवघर्घराणाम् कुन्दावदातजलदद्युतिभासुराणाम् ॥

3.28.58

सौधस्थलोल्लसितपुष्पलतालयानां लीलाविलोलकलकण्ठविहङ्गमानाम् ।
उल्लासिकौसुमदलास्तरणस्थयूनाम् आपादम् आवलितमाल्यविलासिनीनाम् ॥

3.28.59

सर्वं तु सुन्दरनवाङ्कुरदन्तुराणाम् हेलोल्लसद्वनलताकुलमार्गगाणाम् ।
सञ्जातकोमललतोपलसङ्कुलानाम् वर्षत्पयोदपटसंवलितालयाणाम् ॥

3.28.60

नीहारहारिहरितस्थलविस्तृतानाम् सौधस्थमेघतडिदाकुलिताङ्गनानाम् ।
नीलोत्पलोल्लसितसौरभसुन्दराणाम् हुङ्कारहारिहरितोन्मुखगोकुलानाम् ॥

3.28.61

विध्वस्तमुग्धमृगशावगृहाङ्गनानाम् उन्मत्तबर्हिगणशीकरनिर्झराणाम् ।
सौगन्ध्यमत्तपवनाहृतसौरभानाम् वप्रौषधिज्वलनविस्मृतदीपकानाम् ॥

3.28.62

कोलाहलाकुलकुलायकुलाकुलानाम् कुल्याकुलाकलकलाश्रुतसङ्कथानाम् ।
मुक्ताफलप्रकरसुन्दरबिन्दुपातशीताखिलद्रुमलतातृणपल्लवानाम् ॥

3.28.63

लक्ष्मीम् अनस्तमितपुष्पविकासभाजाम् ।
शक्नोति कः कलयितुं गिरिमन्दिराणाम् ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc