भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 3.27

3.27.1

तस्मिन् गिरितटे ग्रामे तस्मिन् मण्डपकोदरे ।
अन्तर्धिम् आश्व् आययतुस् तत्रस्थे एव ते स्त्रियौ ॥

3.27.2

अस्माकं वनदेवीभ्यां प्रसादः कृत इत्य् अथ ।
शान्तदुःखे गृहजने पुण्यपारपरे स्थिते ॥

3.27.3

मण्डपाकाशसंलीना लीलाम् आह सरस्वती ।
व्योमरूपा व्योमरूपां स्मयात् तूष्णीम् अवस्थिताम् ॥

3.27.4

सङ्कल्पस्वप्नयोर् मोघक्रियायाः कथनं मिथः ।
यथेहार्थक्रियां धत्ते तयोस् सा सङ्कथा तथा ॥

3.27.5

पृथ्व्यादिनाडीप्राणादेर् ऋते ऽप्य् अभ्युदिता तयोः ।
सा सङ्कथनसंवित्तिस् स्वप्नसङ्कल्पयोर् इव ॥

3.27.6

ज्ञेयं ज्ञातम् अशेषेण दृष्टा द्रष्टव्यसंविदः ।
ईदृशीयं ब्रह्मसत्ता किम् अन्यद् वद पृच्छसि ॥

3.27.7

मृतस्य भर्तुर् जीवो ऽसौ यत्र राज्यं करोति मे ।
तत्राहं किं न तैर् दृष्टा दृष्टास्मीह सुतेन किम् ॥

3.27.8

अभ्यासेन विना वत्से तदा ते द्वैतनिश्चयः ।
नूनम् अस्तङ्गतो नाभूद् ऋतुसन्धाव् ऋतुर् यथा ॥

3.27.9

अद्वैतं यो न यातो ऽसौ कथम् अद्वैतकर्मभिः ।
युज्यते तापसंस्थस्य च्छायाङ्गानुभवः कुतः ॥

3.27.10

लीलास्मीति विनाभ्यासं तत्र नास्तङ्गतो ऽभवत् ।
यदा भावस् तदा सत्यसङ्कल्पत्वम् अभून् न ते ॥

3.27.11

अद्यापि सत्यानुभवास् सङ्कल्पास् तेन मां ययुः ।
सम्पश्यत्व् इत्य् अभिमतं फलितं तव सुन्दरि ॥

3.27.12

इदानीं तस्य भर्तुस् त्वं समीपं यदि गच्छसि ।
तत् तेन व्यवहारस् ते पूर्ववत् सम्प्रवर्तते ॥

3.27.13

इहैव मन्दिराकाशे पतिर् विप्रो ममाभवत् ।
इहैव स मृतो भूत्वा सम्पन्नो वसुधाधिपः ॥

3.27.14

इहैव तस्य संसारे तस्मिन् भूमण्डलान्तरे ।
राजधानीपुरे तस्मिन् पुरन्ध्र्य् अस्मि व्यवस्थिता ॥

3.27.15

इहैवान्तःपुरे तस्मिन् स मृतो मम भूमिपः ।
इहैवान्तःपुराकाशे तस्मिन्न् एव पुनर् नृपः ॥

3.27.16

सम्पन्नो वसुधापीठे नानाजनपदेश्वरः ।
सर्वो जवञ्जवीभाव इहैवायम् अवस्थितः ॥

3.27.17

अस्मिन्न् एव गृहाकाशे सर्वा ब्रह्माण्डभूतयः ।
स्थितास् समुद्गकोशस्य यथान्तस् सर्षपोत्कराः ॥

3.27.18

तद् अदूरम् अहं मन्ये तद् भर्तुर् मम मण्डलम् ।
क्वचित् पार्श्वस्थितम् इह यथा पश्यामि तत् कुरु ॥

3.27.19

भूतलारुन्धतिसुते भर्तारस् तव सम्प्रति ।
त्रयो नामाथवाभूवन् बहवश् शतसम्मिताः ॥

3.27.20

नेदीयसां त्रयाणां तु द्विजस् ते भस्मसाद्गतः ।
राजा माल्याम्बरवृतस् संस्थितो ऽन्तःपुरे शवः ॥

3.27.21

संसारमण्डपे ऽप्य् अस्मिंस् तृतीयो वसुधाधिपः ।
महासंसारजलधौ पतितो भ्रमम् आगतः ॥

3.27.22

भोगकल्लोलवलनाविकलाकुलचेतनः ।
जाड्यजर्जरचिद्वृत्तिस् संसाराम्भोधिकच्छपः ॥

3.27.23

चित्राणि राजकार्याणि कुर्वन्न् अत्याकुलान्य् अपि ।
सुप्तः तेजस्स्थिततया न जागर्ति भवभ्रमे ॥

3.27.24

ईश्वरो ऽहम् अहं भोगी सिद्धो ऽहं बलवान् सुखी ।
इत्य् अनन्तमहारज्ज्वा वलितो वशतां गतः ॥

3.27.25

तत् कस्य वद भर्तुस् त्वां समीपे वरवर्णिनि ।
वात्या वनान्तरं गन्धलेखाम् इव वनान् नये ॥

3.27.26

अन्य एव स संसारस् सेव्यो ब्रह्माण्डमण्डपः ।
अन्या एव च ता वत्से व्यवहारपरम्पराः ॥

3.27.27

संसारमण्डलानीह तानि पार्श्वे स्थितान्य् अपि ।
नूनं योजनकोटीनां कोटयस् तेष्व् इहान्तरम् ॥

3.27.28

आकाशमात्रम् एतेषाम् इदं पश्य वपुः पुरः ।
मेरुमन्दरकोटीनां कोटयस् तेष्व् इह स्थिताः ॥

3.27.29

परमाणौ परमाणौ सर्गवर्गा निरर्गलम् ।
महाचितस् स्फुरन्त्य् अन्ता रुचीव त्रसरेणवः ॥

3.27.30

महारम्भगुरूण्य् एवम् अपि ब्रह्माण्डकानि च ।
तुलायां धानकामात्रम् अपि तानि भवन्ति नो ॥

3.27.31

नानारत्नाचलोद्द्योतो वनवद् भाति खे यथा ।
पृथ्व्यादिभूतरहिता जगद्वद् भाति चित् तथा ॥

3.27.32

कचति ज्ञप्तिर् एवेयं जगद् इत्यादिनामभिः ।
न तु पृथ्व्यादि सम्पन्नं सर्गादाव् एव किञ्चन ॥

3.27.33

यथा तरङ्गस् सरिति भूत्वा भूत्वा पुनर् भवेत् ।
विचित्राकारकलनादेशा जातास्य् अलं तथा ॥

3.27.34

एवम् एतज् जगन्मातर् मया मृतम् इहाधुना ।
ममेदं राजसं जन्म तामसं नो न सात्त्विकम् ॥

3.27.35

ब्रह्मणस् त्व् अवतीर्णाया अष्टौ जन्मशतानि मे ।
नानायोनीन्य् अतीतानि पश्यामीवाधुना पुरः ॥

3.27.36

संसारमण्डले देवि कस्मिंश्चिद् अभवं पुरा ।
लोकान्तराब्जभ्रमरी विद्याधरवराङ्गना ॥

3.27.37

दुर्वासनाकलुषिता ततो ऽहं मानुषी स्थिता ।
संसारमण्डले ऽन्यस्मिंस् तङ्गणेश्वरकामिनी ॥

3.27.38

करञ्जकुञ्जजम्बीरकदम्बवनवासिनी ।
पत्त्राम्बरधरा श्यामा शबर्य् अहम् अथाभवम् ॥

3.27.39

वनवासनया मुग्धा सम्पन्नाहम् अथो लता ।
गुलुच्छनयना पत्त्रहस्ता वननिवासिनी ॥

3.27.40

पुण्याश्रमलता साहं मुनिसङ्गपवित्रिता ।
वनाग्निदग्धा तस्यैव कन्याभूवं महामुनेः ॥

3.27.41

अस्त्रीत्वफलदातॄणां कर्मणां परिणामतः ।
राजाहं चाभवं श्रीमान् सुराष्ट्रेषु समाश् शतम् ॥

3.27.42

तालीनां तलकच्छेषु राजदुष्कृतदोषतः ।
नकुली नववर्षाणि कुष्ठनष्टाङ्गिकाभवम् ॥

3.27.43

वर्षाण्य् अष्टौ सुराष्ट्रेषु देवि गोत्वं मया कृतम् ।
सोढुं दुर्जनदुष्टाज्ञबालगोपाललीलया ॥

3.27.44

विहङ्ग्या वैरिविन्यस्ता वागुरा विपिनावनौ ।
क्लेशेन महता च्छिन्ना अद्येमा वासना इव ॥

3.27.45

कर्णिकाक्रोडशय्यासु विश्रान्तम् अलिना सह ।
पद्मकुड्मलकोशेषु भुक्तकिञ्जल्कया रहः ॥

3.27.46

भ्रान्तम् उत्तुङ्गशृङ्गासु हरिण्या हारिनेत्रया ।
वनस्थलीषु रम्यासु किरातहतमर्मया ॥

3.27.47

दृष्टम् अष्टासु दिक्ष्व् अब्धिकल्लोलैर् उह्यमानया ।
मत्स्याश्वकच्छपास्फोटरटनाटनताडनम् ॥

3.27.48

पीतं चर्मण्वतीतीरे गायन्त्या मधुरस्वनम् ।
सारतस् सुरते स्वैरं समन्तात् साधुरञ्जितः ॥

3.27.49

तालीतमालकुञ्जेषु तरलानननेत्रया ।
क्षीवयेक्षणविक्षोभैः कृतं कान्तावलोकनम् ॥

3.27.50

कनकस्यन्दसन्दोहसुन्दरैर् अङ्कपङ्कजैः ।
स्वर्गाप्सरोऽम्बुजिन्याशुतोषिता सुरषट्पदा ॥

3.27.51

मणिकाञ्चनमाणिक्यमुक्तानिकरभूतले ।
कल्पद्रुमवने मेरोर् यूना सह रतं कृतम् ॥

3.27.52

कल्लोलाकुलकच्छासु लसद्गुलुगुलासु च ।
वेलावनगुहास्व् अब्धेश् चिरं कूर्मतया स्थितम् ॥

3.27.53

नलिनीनालदोलासु दोलनं सरसानिलम् ।
चलत्पत्त्रसजालासु राजहंसतया कृतम् ॥

3.27.54

शाद्वलीदलदोलानाम् आन्दोलनविनिद्रताम् ।
मषकस्य मयालोक्य दीनं मषिकया स्थितम् ॥

3.27.55

तरत्तारतरङ्गासु चञ्चद्वीच्यग्रचुम्बनैः ।
भ्रान्तं शैलस्रवन्तीषु जलवञ्जुलबालया ॥

3.27.56

गन्धमादनमन्दारमन्दिरे मदनातुरः ।
पतितः पादयोः पूर्वं विद्याधरकुमारकः ॥

3.27.57

कीर्णकर्पूरपूतेषु तल्पेषु व्यसनातुरा ।
चिरं विलुलितास्मीन्दोर् बिम्बेष्व् इव शशिप्रभा ॥

3.27.58

योनिष्व् अनेकविधदुःखशतान्वितासु भ्रान्तं मयोन्नमनसन्नमनाकुलाङ्ग्या ।
संसारदीर्घसरितश् चलया लहर्या दुर्वारवातहरिणीसरणक्रमेण ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc