भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 3.26

3.26.1

ततो ददृशतुस् सद्म स्वम् एव सिद्धयोषितौ ।
अदृश्ये एव लोकस्य मण्डपं ब्राह्मणास्पदम् ॥

3.26.2

चिन्ताविधुरदासीकं बाष्पक्लिन्नाङ्गनामुखम् ।
विध्वस्तप्रायरचनं शीर्णपत्त्राम्बुजोपमम् ॥

3.26.3

नष्टोत्सवपुरप्रायम् अगस्त्यान्तम् इवार्णवम् ।
ग्रीष्मदग्धम् इवोद्यानं विद्युद्दग्धम् इव द्रुमम् ॥

3.26.4

वातच्छिन्नम् इवाम्भोदं हिमदग्धम् इवाम्बुजम् ।
स्वल्पस्नेहदशं दीपम् इवालोकनखेददम् ॥

3.26.5

आसन्नमृत्युतरुणान्तरवक्त्रकान्तिसंशीर्णजीर्णतरुपर्णवनोपमानम् ।
वृष्टिव्यपायपरिधूसरदेशरूक्षं जातं गृहेश्वरवियोगहतं गृहं तत् ॥

3.26.6

अथ सा निर्मलज्ञानचिराभ्यासेन सुन्दरी ।
सम्पन्ना सत्यसङ्कल्पा सत्यकामा च देववत् ॥

3.26.7

चिन्तयाम् आस माम् एते देवीं चेमां स्वबान्धवाः ।
पश्यन्तु तावत् सामान्यललनारूपधारिणीम् ॥

3.26.8

ततो गृहजनस् तत्र स ददर्शाङ्गनाद्वयम् ।
लक्ष्मीगौर्योर् युगम् इव समुद्भासितमन्दिरम् ॥

3.26.9

आपादं विविधाम्लानमालावलनसुन्दरम् ।
वसन्तलक्ष्म्योर् युगलम् इवामोदितकाननम् ॥

3.26.10

सर्वौषधिवनग्रामं पूरयत् तं रसायनैः ।
शीतलाह्लादसुखदं चन्द्रद्वयम् इवोदितम् ॥

3.26.11

लम्बालकलतालोललोचनालिविलोकितैः ।
किरत् कुवलयोन्मिश्रमालतीकुसुमोत्करान् ॥

3.26.12

द्रुतहेमरसापूर्णसरित्सरणहारिणा ।
देहप्रभाप्रभावेन कनकीकृतकाननम् ॥

3.26.13

सहजाया वपुर् लक्ष्म्या लीलादोलाविलासिना ।
तरतेव तरङ्गाढ्यनिजलावण्यवारिधेः ॥

3.26.14

विलोलबाहुलतिकायुगेनारुणपाणिना ।
प्रकिरद् वा नवं हैमकल्पवृक्षलतावनम् ॥

3.26.15

पादैर् अमृदिताम्लानपुष्पपल्लवकोमलैः ।
फुल्लाब्जदलमालाभैर् अस्पृशद्भूतलं पुनः ॥

3.26.16

तालीतमालषण्डानां शुष्कानां शशिरोचिषाम् ।
आलोकनामृतासेकैर् जनयद् बालपल्लवान् ॥

3.26.17

नमो ऽस्तु वनदेवीभ्याम् इत्य् उक्त्वा कुसुमाञ्जलिम् ।
तत्याज ज्येष्ठशर्माथ सार्धं गृहजनेन सः ॥

3.26.18

पपात पादयोर् देव्योस् तयोस् सकुसुमाञ्जलिः ।
प्रालेयशीकरासारः पद्मिन्या इव पद्मयोः ॥

3.26.19

जयतं वनदेव्यौ नो दुःखनाशार्थम् आगते ।
प्रायः परपरित्राणम् एव कर्म निजं सताम् ॥

3.26.20

देव्याव् अभवतां स्निग्धाव् इह ब्राह्मणदम्पती ।
सर्वातिथी कुलकरौ स्तम्भभूतौ द्विजस्थितेः ॥

3.26.21

ताव् अद्य गृहम् उत्सृज्य सपुत्रपशुबान्धवम् ।
स्वर्गं गतौ नः पितरौ तेन शून्यं जगत्त्रयम् ॥

3.26.22

पक्षिणो वृक्षम् आरुह्य विक्षिपन्तः प्रतिक्षणम् ।
गृहे शून्ये मृताव् उत्काश् शोचन्ति मधुरस्वनैः ॥

3.26.23

गुहा घुरघुरारावप्रलापकलनाकुला ।
सरित्स्थूलाश्रुधाराभिः परिरोदिति पर्वतः ॥

3.26.24

निर्झराक्रन्दहारिण्यो मुक्ताम्बरपयोधराः ।
तप्तनिश्श्वासविध्वस्ताः परं कार्श्यम् इता दिशः ॥

3.26.25

क्षतविक्षतसर्वाङ्गः करुणाक्रन्दकर्कशः ।
उपवासपरो ग्रामो दीनो मृतिपरस् स्थितः ॥

3.26.26

दिवसं प्रति वृक्षाणाम् अवश्यायास्रुबिन्दवः ।
गुच्छलोचनकोशेभ्यस् तापोष्णा निपतन्त्य् अधः ॥

3.26.27

प्रशान्तजनसञ्चारा रथ्याः क्षारविधूसराः ।
विधवा विगतानन्दास् संशून्यहृदयं गताः ॥

3.26.28

कोकिलालिप्रलापिन्यो वृष्टिबाष्पहता लताः ।
उष्णोष्णश्वसना देहं घ्नन्ति पल्लवपाणिभिः ॥

3.26.29

आत्मानं शतधा कर्तुं बृहच्छ्वभ्राच् छिलातले ।
निर्झरा निपतन्त्य् एते तापतप्तशरीरकाः ॥

3.26.30

निस्सङ्कथा गतश्रीका मूका विलुलिताशयाः ।
अन्धेन तमसा पूर्णा गृहा गहनतां गताः ॥

3.26.31

उद्यानपुष्पषण्डेभ्यो रुदद्भ्यो भ्रमरारवैः ।
पूतिगन्धो विनिर्याति स्वामोदापरनामकः ॥

3.26.32

चूतद्रुमविलासिन्यो विरसाः प्रतिवासरम् ।
लताः कृशा विलीयन्ते सङ्कुचद्गुच्छलोचनाः ॥

3.26.33

प्रक्षेप्तुम् अम्बुधौ देहं प्रवृत्ता गन्तुम् आकुलाः ।
कुल्याः कलकलालोला लोलयन्त्यस् तनुं भुवि ॥

3.26.34

अशङ्कमषकापातस्पन्दम् अप्य् अतिचापलम् ।
कलयन्त्यस् स्थिता वाप्यो निस्स्पन्दानन्दम् आत्मनि ॥

3.26.35

गायत्किन्नरगन्धर्वविद्याधरसुराङ्गनम् ।
नूनम् अद्य नभो जातम् अस्मत्ताताभ्यलङ्कृतम् ॥

3.26.36

तद् देव्यौ क्रियतां तावद् अस्माकं शोकनाशनम् ।
महतां दर्शनं नाम न कदाचन निष्फलम् ॥

3.26.37

इत्य् उक्तवन्तं सा पुत्रं मूर्ध्नि पस्पर्श पाणिना ।
पल्लवेनानता नम्रं मूलग्रन्थिम् इवाब्जिनी ॥

3.26.38

तस्यास् स्पर्शेन तेनासौ दुःखदौर्भाग्यसङ्कटम् ।
जहौ प्रावृड्घनासङ्गाद् ग्रीष्मतापम् इवाचलः ॥

3.26.39

सर्वो गृहजनस् सो ऽथ तयोर् देव्योर् विलोकनात् ।
लक्ष्मीवान् दुःखनिर्मुक्तो बभूवामृतपो यथा ॥

3.26.40

तयास्य लीलया मात्रा पुत्रस्य ज्येष्ठशर्मणः ।
कस्मान् न दर्शनं दत्तं नो दत्तः कथितो ऽथवा ॥

3.26.41

बुद्धः पृथ्व्यादिबोधेन येन पृथ्व्यादिसङ्घकः ।
तस्य पिण्डात्मतां धत्ते व्योमैवान्यस्य केवलम् ॥

3.26.42

असद् एवाङ्ग सद् इव भाति पृथ्व्यादिवेदनात् ।
यथा बालस्य वेतालो न भाति तदवेदनात् ॥

3.26.43

यथा पृथ्व्यादिता भाता न पृथ्व्यादि भवेत् क्षणात् ।
स्वप्ने स्वप्नपरिज्ञानात् तथा जाग्रत्य् अपि स्फुटम् ॥

3.26.44

पृथ्व्यादि खतया बुद्धं खम् इत्य् एवानुभूयते ।
तथा हि क्षुब्धधातूनां कुड्ये ऽपि ख इवोद्यमः ॥

3.26.45

स्वप्ने नगरम् उर्वी वा शून्यं खातं च बुध्यते ।
स्वप्नाङ्गना च कुरुते शून्याप्य् अर्थक्रिया नृणाम् ॥

3.26.46

खं पृथ्व्यादितया बुद्धं पृथ्व्यादि भवति क्षणात् ।
मूर्छया परलोको ऽपि प्रत्यक्षम् अनुभूयते ॥

3.26.47

बालो व्योमैव वेतालं म्रियमानो ऽम्बरं वनम् ।
केशोण्डुकं खम् अन्यस् तु खम् अन्यो वेत्ति मौक्तिकम् ॥

3.26.48

त्रस्तक्षीवार्धनिद्राश् च नौयानाश् च सदैव खे ।
वेतालवच् च वृक्षादि पश्यन्त्य् अनुभवत्य् अपि ॥

3.26.49

प्रथाभावितम् एतेषां पदार्थानाम् अदो वपुः ।
अभ्यासजनितं भावि नास्त्य् एकं परमार्थतः ॥

3.26.50

लीलया तु यथावस्तु बुद्धं पृथ्व्यादि नास्ति तत् ।
आकाशम् एव संवित्त्या भावित्वादितयोदितम् ॥

3.26.51

ब्रह्मात्मैकचिदाकाशमात्रबोधवतो मुनेः ।
पुत्रमित्रकलत्राणि कथं कानि कदा कुतः ॥

3.26.52

हस्तश् शिरसि यद् दत्तो लीलया ज्येष्ठशर्मणः ।
तत् प्रवाहस्थितारम्भसम्बोधायाश् चितेः फलम् ॥

3.26.53

बोधो हि चेतति यथैव तथा विभाति सूक्ष्मस् तु खाद् अतितरां च तथा विशुद्धः ।
सर्वत्र राघव स एव पदार्थजालं स्वप्नेषु कल्पितपुरेष्व् अनुभूतम् एव ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc