मोक्षोपाय · अध्याय 3.25
नभस्तलाद् गिरिग्रामं गच्छन्त्यौ किञ्चिद् एव हि ।
ज्ञप्तिचित्तस्थिते भूमितलं ददृशतुस् स्त्रियौ ॥
ब्रह्माण्डनरहृत्पद्मं दिगष्टकदलं बृहत् ।
गिरिकेसरसम्बाधं स्वामोदभरसुन्दरम् ॥
सरित्केसरिकानालम् अवश्यायाम्बुबिन्दुकम् ।
शर्वरीभ्रमरीभ्रान्तं भूतौघमषकाकुलम् ॥
अन्तर्घुणगणाकीर्णं सुरन्ध्रैस् सुषिरैर् वृतम् ।
उह्यमानं पयःपूरैर् दिवसालोककान्तिमत् ॥
रसार्द्रं खे भ्रमद्धंसं रात्रिसङ्कोचभाजनम् ।
पातालपङ्कनिर्मग्ननागनाथमृणालकम् ॥
कदाचिद् आस्पदाम्भोधिकम्पकम्पितदिग्दलम् ।
अधो नागगतानन्तदैत्यदानवकण्टकम् ॥
असुरव्रणवल्लर्या सम्भोगसुकुमारया ।
व्याप्तभूभृन्महाबीजहृदयं बीजभूतया ॥
जम्बुद्वीप इति ख्यातां विपुलां तत्र कर्णिकाम् ।
सरित्केसरिकानालां नगरग्रामकेसराम् ॥
कुलशैलोद्धुरोत्तुङ्गबीजसप्तकसुन्दरीम् ।
मध्यस्थोच्चमहामेरुबीजाक्रान्तनभस्तलाम् ॥
सरःप्रालेयकणिकावनजङ्गलयूथिकाम् ।
स्वलेखामण्डलान्तस्स्थजनजालाभ्रमण्डलाम् ॥
तां योजनशताकारैः प्रतिराकां प्रबोधिभिः ।
सागरैर् भ्रमरैर् व्याप्तां दिक्चतुष्टयशायिभिः ॥
दिग्दलाष्टकविश्रान्तसस्वनाम्भोजषट्पदाम् ।
भ्रातृभिर् नवभिर् भूपैर् नवधा परिकल्पिताम् ॥
लक्षयोजनविस्तीर्णाम् आकीर्णां च रजोलवैः ।
नानाजनपदव्यूहस्थिरावश्यायशीकराम् ॥
द्वीपात् तु द्विगुणं सालं लवणार्णवलेखया ।
दधत्या वलितां बाह्ये प्रकोष्ठम् इव कम्बुना ॥
ततो ऽपि द्विगुणं देहं दधत्या वलयाकृतिम् ।
जगद्भुजलताव्याप्तां शाकाख्यद्वीपलेखया ॥
ततो ऽपि द्विगुणाकारधारिण्या परिवेष्टिताम् ।
प्रत्यग्रक्षीरपूर्णाब्धिलेखया स्वादुशीतया ॥
ततो ऽपि द्विगुणाकारधारिण्या परिवेष्टिताम् ।
नानाजनालङ्कृतया कुशाख्यद्वीपलेखया ॥
ततो ऽपि द्विगुणाकारं धारयन्त्या विवेष्टिताम् ।
दध्यब्धिलेखया नित्यं सन्तर्पितसुरौघया ॥
ततः क्रौञ्चाभिधद्वीपलेखयैवम्प्रमाणया ।
वेष्टितां खातखदया नवां नृपपुरीम् इव ॥
ततो ऽपि च घृताम्भोधिलेखयैवम्प्रमाणया ।
ततो ऽपि शल्मलिद्वीपलेखयामरपूर्णया ॥
ततस् सुरामहाम्भोधिलेखया पुष्पशुभ्रया ।
शेषस्य देहलतया हरिमूर्तिम् इवाश्रिताम् ॥
ततो गोमेदकद्वीपलेखयैवम्प्रमाणया ।
इक्षूदलेखयाप्य् एवं हिमवत्सानुशुद्धया ॥
ततो ऽपि पुष्करद्वीपलेखया द्विगुणस्थया ।
अन्ते स्वादूदकाम्भोधिलेखयैवम्प्रमाणया ॥
सप्तस्व् अर्णवलेखासु नैरृते ककुबन्तरे ।
जलेन्धनज्वलज्ज्वालवडवाग्निकणाङ्किताम् ॥
ततो ऽपि कोटिदशकं तप्तकाञ्चनकान्तया ।
वलितां कान्तिशालिन्या भुवा गीर्वाणभोग्यया ॥
अथ सप्तार्णवद्वीपहेमोर्वीणां प्रमाणतः ।
ततो दशगुणेनाधः पातालतलगामिना ॥
निखातवलयेनोच्चैश् श्वभ्रसम्भाररूपिणा ।
पातालगममार्गेण वलितां भयदात्मना ॥
एतस्मात् खलु सर्वस्मात् ततो दशगुणोच्चया ।
आव्योम सचतुर्दिक्कं श्वभ्रसम्भारभीमया ॥
अर्धे म्लानतमोरूपलग्ननीलोत्पलस्रजा ।
नानामाणिक्यशिखरकल्हारकुमुदाब्जया ॥
लोकालोकाचलोत्तालविपुलाट्टालमालया ।
वलितां त्रिजगल्लक्ष्मीधम्मिल्लवलनाम् इव ॥
एतस्माद् अथ सर्वस्मात् ततो दशगुणात्मना ।
अज्ञातभूतसञ्चारनाम्नारण्येन पालिताम् ॥
एतस्माद् अथ सर्वस्मात् ततो दशगुणात्मना ।
नभसेव चतुर्दिक्कं व्याप्तां निर्मलवारिणा ॥
एतस्माद् अथ सर्वस्मात् ततो दशगुणात्मना ।
मेर्वादिद्रावणोत्केन ज्वालाजालेन मालिताम् ॥
एतस्माद् अथ सर्वस्मात् ततो दशगुणात्मना ।
मेर्वाद्य् अप्य् अचलनीकं नयता तृणपांसुवत् ॥
वहताद्रीन्द्रविस्फोटकारिदार्वाग्निहारिणा ।
निश्शून्यत्वाद् अशब्देन मरुता परितो वृताम् ॥
एतस्माद् अथ सर्वस्मात् ततो दशगुणात्मना ।
परितो वलितां व्योम्ना निश्शून्येनैकरूपिणा ॥
अथ योजनलक्षाणां शतेन घनरूपिणा ।
व्याप्तां ब्रह्माण्डखण्डेन हैमेन रविपर्वणा ॥
इति जलधिमहाद्रिलोकपाल त्रिदशपुराम्बरभूतलप्रणीतम् ।
जगदुदरम् अवेक्ष्य मानुषी प्राग् भुवि निजमन्दिरकोटरं ददर्श ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0