मोक्षोपाय · अध्याय 3.24
दूराद् दूरं समाप्लुत्य शनैर् उच्चपदं गते ।
हस्ते हस्तं समासज्य यान्त्यौ ददृशतुर् नभः ॥
एकार्णवम् इवोच्छूनं गम्भीरं निर्मलान्तरम् ।
कोमलं कोमलमरुदसङ्गसुखभोगदम् ॥
आह्लादकम् अलं सौम्यं शून्यताम्भोनिमज्जनात् ।
अत्यन्तशुद्धगम्भीरं प्रसन्नम् इव सज्जनम् ॥
शृङ्गस्थनिर्मलाम्भोदपीनोदरसुधालये ।
विशश्रमतुर् आशासु पूर्णचन्द्रोदरामले ॥
सिद्धगन्धर्वमन्दारमालामोदमनोहरे ।
चन्द्रमण्डलनिष्क्रान्ते रेमाते मधुरानिले ॥
सस्नतुर् भूरि घर्मान्ते तडिद्रक्ताब्जसङ्कुले ।
सरसीव जलापूरमन्थरे मेघजालके ॥
भूतलोद्यन्महाशैलमृनालाङ्कुरकोटिषु ।
दिक्षु बभ्रमतुर् भूरि भ्रमर्यौ सरसीष्व् इव ॥
धारागृहधिया धीरगङ्गानिर्झरधारिणि ।
ववतुर् वातविक्षुब्धमेघमण्डलमण्डपे ॥
ततो मधुरकामिन्यौ विश्राम्यन्त्यौ स्वशक्तितः ।
शून्ये ददृशतुर् व्योम महासंरम्भमन्थरम् ॥
अदृष्टपूर्वम् अन्योऽन्यम् अन्यसङ्कटकोटरम् ।
आपूर्यमाणम् आशून्यं जगत्कोटिशतैर् अपि ॥
उपर्य् उपर्य् उपर्य् उच्चैर् अन्यैर् अन्यैर् वृतं पृथक् ।
विचित्रावरणाकारैर् भूताभ्रांशुविमानकैः ॥
परितः पूरितव्योम्नां मेर्वादिकुलभूभृताम् ।
पद्मरागतटोद्द्योतैः कल्पज्वालोदरोपमम् ॥
मुक्ताशिखरभापूरैर् हिमवत्सानुसुन्दरम् ।
काञ्चनाद्रिस्थलार्चिर्भिः काञ्चनस्थलभासुरम् ॥
महामरकताभाभिश् शाद्वलस्थलनीलिम ।
द्रष्टुर् दृष्टिक्षयासत्यजातध्वान्तोत्थकालिम ॥
पारिजातलतालोलविमानगणकेतनम् ।
बोधमञ्जरिताकारम् इव वैडूर्यभूतलम् ॥
मनोवेगमहासिद्धजितवातगमागमम् ।
विमानगृहदेवस्त्रीगीतवाद्यरवाकुलम् ॥
त्रैलोक्यचरभूतौघसञ्चारविरलान्तरम् ।
अन्योऽन्यादृष्टसञ्चारसुरासुरकुलाकुलम् ॥
पर्यन्तस्थितकुम्भाण्डरक्षोगुह्यकमण्डलम् ।
वातस्कन्धमहावेगवहद्वैमानिकव्रजम् ॥
वहद्विमानझाङ्कारमुष्टिग्राह्यघनध्वनि ।
ग्रहर्क्षगणसञ्चारसञ्चलद्वातयन्त्रकम् ॥
निकटातपदग्धाल्पसिद्धिसिद्धोज्झितास्पदम् ।
अर्काश्वमुखवातास्तदग्धमुग्धविमानकम् ॥
लोकपालाप्सरोवृन्दसञ्चाराचारचञ्चलम् ।
देवान्तःपुरिकादग्धधूपधूमाम्बुदावृतम् ॥
विहगाहृतदेवस्त्रीस्वाङ्गविभ्रष्टभूषणम् ।
सामान्यसिद्धासह्योग्रतेजःपुञ्जतमोबलम् ॥
बलवत्सिद्धसङ्घट्टगमागमविघट्टितैः ।
घनैस् सांशुकपार्श्वस्थहिमवन्मेरुमन्दरम् ॥
काकोलूकैस् सगृध्रौघैः पुञ्जीभूतैश् चलैर् वृतम् ।
नृत्यद्भिर् डाकिनीवाहैस् तरङ्गैर् इव वारिधिम् ॥
प्रनृत्यद्योगिनीसङ्घैश् श्वकाकोष्ट्रखराननैः ।
निरर्थं योजनशतं गत्वागच्छद्भिर् आवृतम् ॥
लोकपालपुरोद्वान्तधूपधूमाभ्रमन्दिरम् ।
सिद्धगन्धर्वमिथुनप्रारब्धसुरतोत्सवम् ॥
स्वर्गगीतश्रवोन्मत्तखदिराक्रान्तमार्गगम् ।
अनारतवहद्धिष्ण्यलक्षलक्षितपक्षिकम् ॥
वातस्कन्धनिखातान्तवहत्त्रिपथगाजलम् ।
आश्चर्यालोकनव्यग्रसञ्चरत्त्रिदशार्भकम् ॥
सन्देहसञ्चरद्वज्रचक्रशूलासिशक्तिमत् ।
क्वचिन् निर्भित्तिसदनगायत्तुम्बुरुनारदम् ॥
मेघमार्गमहामेघमहारम्भाकुलं क्वचित् ।
चित्रन्यस्तसमाकारमूककल्पान्तवारिदम् ॥
उत्पक्षकज्जलाद्रीन्द्रसुन्दराम्भोधरं क्वचित् ।
क्वचित् कनकनिष्ष्यन्दकान्ततापादवारिदम् ॥
क्वचिच् चन्द्राभतापाढ्यवृष्टमूकाम्बुदांशुकम् ।
क्वचिन् निष्पवनाम्भोधिसंशान्तं शून्यताजलम् ॥
क्वचिद् वातनदीप्रौढविमानतृणपल्लवम् ।
क्वचिच् चलदलिव्रातपृष्ठत्वक्कान्तिनिर्मलम् ॥
क्वचिन् मेरुदरीकल्पवातधूलिविधूसरम् ।
क्वचिद् विमानगीर्वाणप्रभाभिश् चित्रिताङ्गनम् ॥
क्वचिन् निरम्बरोन्मत्तमातृमण्डलमालितम् ।
क्वचिन् नित्यरवक्षीवक्षुब्धयोगीश्वरीगणम् ॥
क्वचिच् छान्तसमाधिस्थविश्रान्तमुनिमण्डलम् ।
समं दूरास्तसंरम्भं साधुचित्तमनोहरम् ॥
गायत्किन्नरगन्धर्वसुरस्त्रीमण्डलं क्वचित् ।
क्वचित् स्तब्धपुराकीर्णं वहत्सुरवरं क्वचित् ॥
क्वचिद् रुद्धपुरापूरं क्वचिद् बद्धमहापुरम् ।
क्वचिन् मायाकृतपुरं क्वचिद् आगामिपत्तनम् ॥
क्वचिद् भ्रमच्चन्द्रसरः क्वचित् स्तब्धपयस्सरः ।
क्वचित् सरत्सिद्धगणं क्वचिद् इन्दुकृतोदयम् ॥
क्वचित् सूर्योदयमयं क्वचिद् रात्रितमोमयम् ।
क्वचित् सन्ध्यांशुकपिशं क्वचिन् नीहारधूसरम् ॥
क्वचिद् विमानधवलं क्वचिद् वर्षत्पयोधरम् ।
क्वचित् स्थलम् इवाकाशम् एव विश्रान्तलोकपम् ॥
ऊर्ध्वाधोगमनव्यग्रसुरासुरगणं क्वचित् ।
पूर्वापरोत्तरायाम्यदिक्सञ्चाराकुलं क्वचित् ॥
अपि योजनलक्षाणि क्वचिद् दुष्प्रापधूपकम् ।
अविनाशतमःपूर्णदृष्टवद् व्योमवत् क्वचित् ॥
अविनाशिबृहत्तेजः क्वचिद् अर्कानलोपमम् ।
हिमानीजठराशीतं क्वचिच् चन्द्रादिसद्मसु ॥
क्वचिद् बृहत्पुरोन्नृत्यत्कल्पवृक्षलतावनम् ।
क्वचिद् दैत्यहतोत्तुङ्गप्रपतद्देवपत्तनम् ॥
वैमानिकनिपातेन वह्निलेखाङ्कितं क्वचित् ।
क्वचित् केतुशतोत्पातमिथस्सङ्घट्टघट्टितम् ॥
क्वचिच् छुभग्रहगणप्रगृहीताद्यमङ्गलम् ।
क्वचिद् रात्रितमोव्याप्तं क्वचिद् दिवसभासुरम् ॥
क्वचिद् दुर्गर्जदम्भोदं क्वचिन् मूकचलाम्बुदम् ।
वातावकीर्णशुक्लाभ्रखण्डपुष्पोत्करं क्वचित् ॥
क्वचिद् अत्यन्तनिश्शून्यम् अवदातम् अनन्तरम् ।
आनन्दिमृदुशान्ताच्छं ज्ञस्येव हृदयं ततम् ॥
शुकवाहनभेकौघैः क्वचिद् गलकृतारवम् ।
शून्यताराभिवलितं क्षेत्रम् आकाशवासिनाम् ॥
मयूरहेमचूडादिपक्षिभिः क्वचिद् आवृतम् ।
विद्याधरीणां देवीनां वाहनैर् विहितास्पदैः ॥
क्वचिद् अभ्रान्तरोन्नृत्यद्गुहमायूरमण्डलम् ।
क्वचिद् अग्निशुकैश् श्यामं शाद्वलानाम् इव स्थलम् ॥
क्वचित् प्रेतेशमहिषमहिम्ना वाहनाम्बुदम् ।
क्वचिद् अश्वैस् तृणग्रासशङ्काग्रस्तासिताम्बुदम् ॥
क्वचिद् देवपुरव्याप्तं क्वचिद् दैत्यपुरान्वितम् ।
अन्योऽन्याप्राप्यनगरं नगरन्ध्रकरालिनम् ॥
क्वचित् कुलाचलाकारनृत्यद्भैरवभासुरम् ।
क्वचिद् गन्धर्वनगरसुरस्त्रीवृन्दबन्धनम् ॥
क्वचिद् कम्पद्गिरिध्वस्तवृक्षलक्षोक्षिताम्बुधिम् ।
क्वचिन् मायाकृताकाशनलिनीजलशीतलम् ॥
क्वचित् सपक्षशैलेन्द्रसमनृत्यद्विनायकम् ।
क्वचिद् घर्घरवाताढ्यपक्षप्रोड्डीनपर्वतम् ॥
क्वचिद् इन्दुकरावृष्टिशीतलाह्लादिमारुतम् ।
क्वचित् तप्तानलादग्धद्रुमपर्वतवारिदम् ॥
क्वचिद् अत्यन्तसंशान्तवाताद्येकान्तनिर्ध्वनि ।
क्वचित् पर्वततुल्याग्निशिखासदृशतोदयम् ॥
क्वचित् प्रावृड्भरोन्मत्तघनाभ्ररवघर्घरम् ।
क्वचित् सुरासुरगणप्रवृत्तरणदुर्गमम् ॥
क्वचिद् व्योमाब्जिनीहंसीस्वराहूताजवाहनम् ।
क्वचिन् मन्दाकिनीतीरनलिनीलुण्ठकानिलम् ॥
शरीरिणीनां गङ्गादिसरितां सन्निधानतः ।
प्रोड्डीनमत्स्यमकरकुलीरान्तरकोटरम् ॥
पातालगार्कजनितभूच्छायाकाकतोदरम् ।
क्वचित् क्वचिन् मण्डलेषु ग्रस्तचन्द्रार्कमण्डलम् ॥
क्वचित् स्वर्गानिलाधूतमायाकुसुमकाननम् ।
पतत्पुष्पहिमासारत्रस्तवैमानिकाङ्गनम् ॥
उडुम्बरोदरमषकक्रमभ्रमज्जगत्त्रयान्तरगतभूतसञ्चयम् ।
विलङ्घ्य तद् वरललने विमुच्य खं महीतलं पुनर् अपि गन्तुम् उद्यते ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0