भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 3.23

3.23.1

इति सङ्कथनं कृत्वा तस्यां निशि वराङ्गने ।
सुप्ते परिजने नूनम् अथान्तःपुरमण्डपे ॥

3.23.2

दृढाखिलार्गलद्वारगवाक्षे दक्षचेतसी ।
पुष्पपूरणसुस्फीतमांसलामोदमन्थरे ॥

3.23.3

अम्लानमालावसनशवपार्श्वासनस्थिते ।
सकलामलपूर्णेन्दुवदनोद्द्योतितास्पदे ॥

3.23.4

समाधिस्थानकं गत्वा तस्थतुर् निश्चलाङ्गके ।
रत्नस्तम्भाद् इवोत्कीर्णे चित्रभित्ताव् इवार्पिते ॥

3.23.5

सर्वास् तत्यजतुश् चिन्तास् सङ्कोचं समुपागते ।
दिवसान्त इवाब्जिन्यौ प्रसृतामोदलेखिके ॥

3.23.6

बभूवतुर् भृशं शान्ते शुद्धे स्पन्दविवर्जिते ।
गिरौ शरदि निर्वात इव वृष्ट्याभ्रमालिके ॥

3.23.7

निर्विकल्पसमाधानाज् जहतुर् व्योम्नि संविदम् ।
यथा कल्पलते कान्ते पूर्णम् ऋत्वन्तरे रसम् ॥

3.23.8

अहं जगद् इति भ्रान्तेर् दृश्यस्यादाव् अनुद्भवः ।
यदा ताभ्याम् अवगतस् स्वात्यन्ताभावनात्मकः ॥

3.23.9

तदा दृश्यपिशाचो ऽयम् अलम् अस्तङ्गतस् तयोः ।
असत्त्वाद् एव चास्माकं शशशृङ्गम् इवानघ ॥

3.23.10

आदाव् एव हि यन् नास्ति वर्तमाने ऽपि तत् तथा ।
भातं चाभातम् एवातो मृगतृष्णाम्बुवज् जगत् ॥

3.23.11

स्वभावः केवलश् शान्तस् स्त्रीद्वयं तद् बभूव ह ।
चन्द्रार्कादिपदार्थौघदूरमुक्तम् इवाम्बरम् ॥

3.23.12

तेनैव ज्ञानदेहेन ततार ज्ञप्तिदेवता ।
मानुषी त्व् इतरेणाशु ज्ञानाज्ञानानुरूपिणा ॥

3.23.13

गेहान्तर् एव प्रादेशमात्रम् आरुह्य वै दिवः ।
बभूवतुश् चिदाकाशरूपिण्यौ व्योमगाकृती ॥

3.23.14

अथ ते ललने लीलालाने ललितलोचने ।
स्वभावाच् चेत्यसंवित्तेर् नभो दूरम् इवागते ॥

3.23.15

तत्रस्थे एकचिद्वृत्त्या पुप्लुवाते नभस्तलम् ।
कोटियोजनविस्तीर्णं दूराद् दूरतरान्तरम् ॥

3.23.16

दृश्यानुसन्धाननिजस्वभावाद् आकाशदेहे अपि ते मिथो ऽत्र ।
परस्पराकारविलोकनेन बभूवतुस् स्नेहपरे वयस्ये ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc