भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 3.22

3.22.1

यथा स्वप्नपरिज्ञानात् स्वप्नदेहो न वास्तवः ।
अनुभूतो ऽप्य् अयं तद्वज् जाग्रद्देहो न वास्तवः ॥

3.22.2

यथा स्वप्नपरिज्ञानात् स्वप्नदेहो ऽपि शाम्यति ।
वासनातानवात् तद्वज् जाग्रद्देहो ऽपि शाम्यति ॥

3.22.3

स्वप्नसङ्कल्पदेहान्ते देहो ऽयं चेत्यते यथा ।
तथा जाग्रद्भावनान्तर् उदेत्य् एवातिवाहिकः ॥

3.22.4

स्वप्ने निर्वासनाबीजे यथोदेति सुषुप्तता ।
जाग्रत्य् अवासनाबीजे तथोदेति विमुक्तता ॥

3.22.5

येयं तु जीवन्मुक्तानां वासना सा न वासना ।
शुद्धसत्त्वाभिधानं तत् सत्तासामान्यम् उच्यते ॥

3.22.6

या सुप्तवासना निद्रा सा सुषुप्तम् इति स्मृता ।
यत् सुप्तवासनं जाग्रत् स घनो मोह उच्यते ॥

3.22.7

प्रक्षीणवासना निद्रा तुर्यशब्देन कथ्यते ।
जाग्रत्य् अपि भवत्य् एतद् विदिते परमे पदे ॥

3.22.8

प्रक्षीणवासना येह जीवतां जीवितस्थितिः ।
अमुक्तैर् अपरिज्ञाता सा जीवन्मुक्तिर् उच्यते ॥

3.22.9

शुद्धसत्त्वानुपतितं चेतः प्रभिन्नवासनम् ।
आतिवाहिकताम् एति हिमं तापाद् इवाप्लुतम् ॥

3.22.10

आतिवाहिकतां यातं बुद्धं चित्तान्तरैर् मनः ।
सर्गजन्मान्तरगतैस् सिद्धैर् मिलति नेतरत् ॥

3.22.11

यदा ते ऽयम् अहम्भावस् स्वाभ्यासाच् छान्तिम् एष्यति ।
तदोदेष्यति ते स्फारा दृश्यान्ते बोधता स्वयम् ॥

3.22.12

आतिवाहिकता ज्ञाता स्थितिं ते याति शाश्वतीम् ।
यदा तदान्यसङ्कल्पालोकात् प्रकृतिपावनी ॥

3.22.13

वासनातानवे तस्मात् कुरु यत्नम् अनिन्दिते ।
तस्मिन् प्रौढिम् उपायाते जीवन्मुक्ता भविष्यसि ॥

3.22.14

यावन् न पूरितस् त्व् एष निर्मलो बोधचन्द्रमाः ।
तावद् देहम् इह स्थाप्य लोकान्तरम् अवेक्ष्यताम् ॥

3.22.15

मांसदेहो मांसदेहेनैव संश्लेषम् ऋच्छति ।
न तु चित्तशरीरेण व्यवहारेषु कर्मसु ॥

3.22.16

यथानुभवम् एवैतद् यथास्थितम् उदाहृतम् ।
आबालसिद्धं संसिद्धं न नाम वरशापवत् ॥

3.22.17

अवबोधघनाभ्यासाद् देहस्यास्यैव जायते ।
संसारवासनाकार्श्यं नूनं चित्तशरीरता ॥

3.22.18

उदेष्यन्ती च सैषात्र केनचिन् नोपलक्ष्यते ।
केवलं तु जनैर् देहो म्रियमाणो ऽवलोक्यते ॥

3.22.19

देहस् त्व् अयं न म्रियते न च जीवति किञ्चन ।
के किल स्वप्नसङ्कल्पभ्रान्तेर् मरणजीविते ॥

3.22.20

जीवितं मरणं चैतत् सङ्कल्पपुरुषे यथा ।
असत्यम् एव भात्य् एतद् अस्मिन् पुत्रि शरीरके ॥

3.22.21

तद् एतद् उपदिष्टं मे ज्ञानं देवि त्वयामलम् ।
यस्मिञ् श्रुतिं गते शान्तिम् एति विश्वविषूचिका ॥

3.22.22

अत्रोपकुरुते को हि को ऽभ्यासः कीदृशो ऽथवा ।
स कथं पोषम् आयाति पुष्टे तस्मिंश् च किं भवेत् ॥

3.22.23

यद् एव क्रियते किञ्चिद् येन येन यदा यदा ।
विनाभ्यासेन तन् नेह सिद्धिम् एति कदाचन ॥

3.22.24

तच्चिन्तनं तत्कथनम् अन्योऽन्यं तत्प्रबोधनम् ।
तद्गतप्राणमननं ब्रह्माभ्यासं विदुर् बुधाः ॥

3.22.25

येषां त्व् अन्तं गतं पापं जनानां पुण्यकर्मणाम् ।
ते द्वन्द्वमोहनिर्मुक्ता विज्ञेया ब्रह्मसेवकाः ॥

3.22.26

अध्यात्मशास्त्रचिन्ताभिर् येषां गच्छन्ति रात्रयः ।
वासनातानवोत्काभिस् ते ब्रह्माभ्यासिनस् स्थिताः ॥

3.22.27

ये विरक्ता महात्मानो भोगभावनतानवम् ।
भावयन्त्य् अभवायान्तर् भव्या भुवि जयन्ति ते ॥

3.22.28

उदितौदार्यसौन्दर्या वैराग्यरसरञ्जिता ।
आनन्दस्यन्दिनी येषां मतिस् ते ऽभ्यासिनः परे ॥

3.22.29

अत्यन्ताभावसम्पत्तिं ज्ञातुं ज्ञेयस्य वस्तुनः ।
युक्त्या शास्त्रे यतन्ते ये ते ब्रह्माभ्यासिनस् स्थिताः ॥

3.22.30

सर्गादाव् एव नोत्पन्नं दृश्यं नास्त्य् एव तत् सदा ।
इदं जगद् अहं चेति बोधाभ्यासं विदुः परे ॥

3.22.31

दृश्यासम्भवबोधेन रागद्वेषादितानवे ।
रतिर् बलोदिता यासौ ब्रह्माभ्यास उदाहृतः ॥

3.22.32

दृश्यासम्भवबोधेन रागद्वेषादितानवम् ।
तप इत्य् उच्यते लोके दृश्यदोषस् तु दुःखकृत् ॥

3.22.33

दृश्यासम्भवबोधे हि ज्ञानं ज्ञेयस्य कथ्यते ।
तदभ्यासेन निर्वाणम् इत्य् अभ्यासो महोदयः ॥

3.22.34

भवबहुलनिशानितान्तनिद्रा सततविवेकविबोधवारिसेकैः ।
प्रगलति हिमशीतलैर् इवोच्चैः शरदि महामिहिकेव चेतसीति ॥

3.22.35

इत्य् उक्तवत्य् अथ मुनौ दिवसो जगाम सायन्तनाय विधये ऽस्तम् इनो जगाम ।
स्नातुं सभा कृतनमस्करणा जगाम श्यामाक्षये रविकरैश् च सहाजगाम ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc