मोक्षोपाय · अध्याय 3.21
प्रतिभान्ति जगन्त्य् आशु मृतिमोहाद् अनन्तरम् ।
जीवस्योन्मीलनाद् अक्ष्णो रूपाणीवाखिलान्य् अलम् ॥
दिक्कालकलनाकाशधर्मकर्ममयानि च ।
परिस्फाराण्य् अनन्तानि कल्पान्तस्थैर्यवन्ति च ॥
नानुभूतं न यद् दृष्टं तन् मया कृतम् इत्य् अपि ।
तत् क्षणात् स्मृतिताम् एति स्वप्ने स्वमरणं यथा ॥
भ्रान्तिर् एवम् अनन्तेयं चिद्व्योमव्योम्नि भासुरा ।
अपकुड्या जगन्नाम्नी नगरीकल्पनात्मिका ॥
अहं जगद् इयं सर्गस्मृतिर् एवेति जृम्भति ।
दूरकल्पक्षणाभ्यासविपर्यासैककारिणी ॥
नानुभूतानुभूता च ज्ञप्तिर् इत्थं द्विरूपिणी ।
पूर्वं कारणरिक्तेव चिद्रूपैव प्रवर्तते ॥
नानुभूते ऽनुभूतत्वं संविदो ऽन्तर् उदेत्य् अपि ।
स्वप्नभ्रमाद् अनन्यस्मिन् पितरीव पितृस्मृतिः ॥
कदाचित् स्मृतिताम् त्यक्त्वा प्रतिभामात्रम् एव सत् ।
भाति प्रथमसर्गेशरूपेण तदनु क्रमात् ॥
दृश्यं त्रिभुवनादीदम् अनुभूतस्मृतौ स्थितम् ।
केषाञ्चित् तन्वि केषाञ्चिन् नानुभूतस्मृतौ स्थितम् ॥
प्रतिभासत एवेदं केषाञ्चित् स्मरणं विना ।
चिदणूनां प्रजेशत्वं काकतालीयवद् यतः ॥
अत्यन्तविस्मृतं दृश्यं मोक्ष इत्य् अभिधीयते ।
ईप्सितानीप्सिते तत्र न स्तः केचन कस्यचित् ॥
अत्यन्ताभावसम्पत्तिं विनाहन्त्वजगत्स्थितेः ।
अनुत्पादमयीम् एव नोदेत्य् एव विमुक्तता ॥
रज्ज्वां सर्पभ्रमस् सर्पशब्दार्थासम्भवं विना ।
अनुत्पादमयो नित्यं शान्तो ऽपि न हि शाम्यति ॥
अर्धशान्तो न शान्तो ऽसौ समेत्य् अन्यतया पुनः ।
उदेत्य् एकपिशाचान्ते पिशाचो ऽन्यो ऽप्य् अधीमतः ॥
संसारश् चायम् आभोगी परम् एवेति निश्चयः ।
कारणाभावतो भाति यद् इहाभावम् एति तत् ॥
ब्राह्मणब्राह्मणीरूपे सर्गे या कारणं स्मृतिः ।
कथम् अभ्युदिता सा स्यात् स्मरणीयम् इदं विना ॥
पितामहस्मृतिस् तत्र कारणं तस्य च स्मृतिः ।
पूर्वं न सम्भवत्य् एव मुक्तत्वात् पूर्वजन्मनः ॥
पूर्वं न सम्भवत्य् एव स्मरणीया चितिस् स्वयम् ।
पद्मजादित्वम् आयाति चेतनस्य यथास्थितेः ॥
अभूवम् अहम् इत्य् अन्यः प्रजानाथः प्रजायते ।
काकतालीयवत् कश्चिद् भवति प्रतिभामयः ॥
एवम् अभ्युदिते लोके न किञ्चिन् न कदाचन ।
क्वचिद् अभ्युदितं नाम केवलं चिन्नभस् स्थितम् ॥
द्विविधायास् स्मृतेर् अस्याः कारणं परमं पदम् ।
कार्यकारणभावो ऽसाव् एकम् एव चिदम्बरम् ॥
कार्यकारणयोस् सत्ता कारणैस् सहकारिभिः ।
कार्यकारणयोर् ऐक्यं तदभावान् न शाम्यति ॥
महाचिद्रूपम् एवेदं स्मरणाद् विद्धि वेदनम् ।
कार्यकारणभावो ऽत्र तेन शब्दो न वास्तवः ॥
एवं न किञ्चिद् उत्पन्नं दृश्यं त्रिजगदाद्य् अपि ।
चिदाकाशं चिदाकाशे केवलं स्वात्मनि स्थितम् ॥
अहो नु परमा दृष्टिर् दर्शिता देवि मे त्वया ।
रूपश्रीर् जागती प्रातःप्रभयेवेक्षणद्युतेः ॥
इदानीम् अहम् एतस्यां यावत् परिणता दृशि ।
नाभ्यासेन विना तावद् भिन्द्धीमं देवि कौतुकम् ॥
यत्रासौ ब्राह्मणो गेहे ब्राह्मण्या सहितो ऽभवत् ।
तं सर्गं तं गिरिग्रामं नय मां समवेक्षितुम् ॥
अचेत्यचिद्रूपमयीं परमां पावनीं दृशम् ।
अवलम्ब्येमम् आकारम् अवमुच्य भवामला ॥
ततः प्राप्स्यस्य् असन्देहं व्योमात्मानं नभस्स्थितम् ।
भूमिष्ठनरसङ्कल्पो गगनान्तः पुरं यथा ॥
एवंस्थितं तं पश्यावस् सह सर्गम् अनन्तरम् ।
एवं तद्दर्शनद्वारे देहो हि परमार्गला ॥
अमुना देवि देहेन जगद् अन्यद् अवाप्यते ।
न वा कस्माद् अत्र युक्तिं कथयानुग्रहग्रहात् ॥
जगन्तीमान्य् अमूर्तानि मूर्तिमन्ति मुधाग्रहात् ।
भवद्भिर् अवबुद्धानि हेमनीवोर्मिकाधिया ॥
हेम्न्य् ऊर्मिकारूपवने ऽप्य् ऊर्मिकात्वं न विद्यते ।
यथा तथा जगद्रूपे जगत्त्वं नास्ति चित्पदे ॥
जगद् आकाशम् एवेदं ब्रह्मैव न तु दृश्यता ।
दृश्यते काचिद् अप्य् अत्र धूलिर् अम्बुनिधाव् इव ॥
ब्रह्मैव पश्यति ब्रह्म नाब्रह्म ब्रह्म पश्यति ।
सर्गादिनाम्ना प्रथितस् स्वभावो ऽस्यैवम् ईदृशः ॥
न ब्रह्मजगतोर् अस्ति कार्यकारणतोदयः ।
कारणानाम् अभावेन सर्वेषां सहकारिणाम् ॥
यावद् अभ्यासयोगेन न शान्ता भेदधीस् तव ।
नूनं तावद् अतद्रूपा न ब्रह्म परिपश्यसि ॥
तत्र रूढिम् उपायाता इमे ये त्व् अस्मदादयः ।
अभ्यासाद् ब्रह्मसंवित्तेः पश्यामस् ते हि तत् पदम् ॥
सङ्कल्पनगरस्येव ममाकशमयं वपुः ।
ब्रह्मैव वातः पश्यामि देहेनानेन तत् पदम् ॥
विशुद्धज्ञानदेहाहं यथैते पद्मजादयः ।
ब्रह्मात्मजगदादीदम् अङ्गम् अस्माकम् अङ्गने ॥
तवाभ्यासं विना बालो नाकारो ब्रह्मतां गतः ।
स्थितः कलनरूपात्मा तेन तन् नानुपश्यसि ॥
यत्र स्वसङ्कल्पपुरं स्वदेहे नानुलभ्यते ।
तत्रान्यसङ्कल्पपुरं स्वदेहे नानुलभ्यते ॥
तस्माद् एनं परित्यज्य देहं चिद्व्योमरूपिणी ।
तत् पश्यस्य् एतद् एवाशु कुरु कार्यविदां वरे ॥
सङ्कल्पनगरं सत्यं यथा सङ्कल्पिनं प्रति ।
सदेहं वा विदेहं वा नेतरं प्रति किञ्चन ॥
आदिसर्गे जगद्भ्रान्तिर् यथेयं स्थितिम् आगता ।
तथा तदाप्रभृत्य् एव नियतिः प्रौढिम् आगता ॥
त्वयोक्तं देवि गच्छावो ब्राह्मणब्राह्मणीगृहम् ।
सहेतीदम् अहं वच्मि कथं गन्तव्यम् अम्ब हे ॥
इह देहं इमं न्यस्य शुद्धसत्त्वानुपातिना ।
चेतसा तत् परं यामि लोकं त्वं कथयेति तु ॥
सङ्कल्पव्योमवृक्षस् ते यथा सन्न् अपि खात्मकः ।
न कुड्यात्मा न कुड्येन रोध्यते नापि कुड्यहा ॥
शुद्धैकसत्त्वनिर्माणचित्तरूपस्य तत् किल ।
प्रतिभानम् अतस् तस्माद् परमाद् भिद्यते मनाक् ॥
सो ऽयम् एतादृशो देहो नैनं सन्त्यज्य याम्य् अहम् ।
अनेनैव तम् आप्नोमि देशं गन्धम् इवानिलः ॥
यथा जलं जलैर् वाग्निर् अग्निना वायुनानिलः ।
मिलत्य् एवं मनोदेहो देहैर् अन्यैर् मनोमयैः ॥
न हि पार्थिवतां संविद् एत्य् अपार्थिवसंविदा ।
एकत्वं कल्पनाशैलशैलयोः क्वाहतिर् मिथः ॥
आतिवाहिक एवायं त्वादृशश् चित्तदेहकः ।
आधिभौतिकबुद्ध्या तु गृहीतश् चिरभावनात् ॥
यथा स्वप्ने यथा दीर्घकालध्याने यथा भ्रमैः ।
यथा व्यसनिसङ्कल्पे यथा गन्धर्वपत्तने ॥
वासनातानवं नूनं यदा ते स्थितिम् एष्यति ।
तदाधिभौतिकीभावं पुनर् एति न देहकः ॥
आतिवाहिकदेहत्वप्रत्यये घनतां गते ।
तम् अवाप्नोत्य् अयं देहो दशामोहे विनश्यति ॥
यद् अस्ति नाम तत्रैष नाशानाशक्रमो भवेत् ।
वस्तुतो नास्ति यत् त्व् एव नाशस् स्यात् तत्र कीदृशः ॥
रज्ज्वां सर्पभ्रमे नष्टे सत्यबोधवशात् सुते ।
सर्पो न नष्टस् तन् नष्टो वेत्य् एवं केव सङ्कथा ॥
यथा सत्यपरिज्ञानाद् दृश्यते नाधिभौतिकः ।
तथातिवाहिकज्ञानाद् दृश्यते नाधिभौतिकः ॥
कल्पना विनिवर्तेत कल्पिता यदि केनचित् ।
सा शिला समपास्तैव या नेहास्ति कदाचन ॥
परस्परं परापूर्णम् इदं देहादिकं स्थितम् ।
इति सत्यं वयं भद्रे पश्यामो नासि पश्यसि ॥
आदिसर्गे भवेच् चित्त्वं कल्पनाकलितं यदा ।
तदा ततःप्रभृत्य् एकं स्वत्वं दृश्यम् इवेक्ष्यते ॥
एकस्मिन्न् एव संशान्ते दिक्कालाद्यविभागिनि ।
विद्यमाने परे तत्त्वे कल्पनावसरः कुतः ॥
कटकत्वं यथा हेम्नि तरङ्गत्वं यथाम्भसि ।
सत्यत्वं च यथा स्वप्नसङ्कल्पनगरादिषु ॥
नास्त्य् एव सत्यानुभवे तथा नास्त्य् एव चित्पदे ।
कल्पनं व्यतिरिक्तात्म तत्स्वभावाद् अनामयात् ॥
यथा नास्त्य् अम्बरे पांसुः परे नास्ति तथा कला ।
अकलाकलनं शान्तम् इदम् एकम् अजं ततः ॥
यद् वेदं भासते किञ्चित् तत् तस्यैव निरामयम् ।
कचनं काञ्चनाख्यानकान्तस्यातिमणेर् इव ॥
एतावन्तं चिरं कालम् एवं देवि वयं वद ।
भ्रामिताः के च नामेमे द्वैताद्वैतविकल्पनैः ॥
अविचारेण तरले भ्रान्तासि चिरम् आकुला ।
अविचारस् स्वभावोत्थस् स विचाराद् विनश्यति ॥
अविचारो विचारेण निमेषाद् एव नश्यति ।
एषो ऽसन्न् एव तेनान्तर् अविद्यैषा न विद्यते ॥
तस्मान् नैवाविचारो ऽस्ति नाविद्या नैव बन्धनम् ।
न मोक्षो ऽस्ति निराबाधं शुद्धबोधस् त्व् इदं जगत् ॥
एतावन्तं यदा कालं त्वयैतन् न विचारितम् ।
तदा न सम्प्रबुद्धा त्वं भ्रान्तैवार्णव आकुला ॥
अद्यप्रभृति बुद्धासि विमुक्तासि विवेकिनी ।
वासनातानवे बीजं पतितं तव चेतसि ॥
आदाव् एव हि नोत्पन्नं दृश्यं संसारनाटकम् ।
यदा तदा कथं केन वास्यते वासनापि का ॥
अत्यन्ताभावसम्पत्तौ द्रष्टृदृश्यदृशाम् अतः ।
एकध्याने परं रूढे निर्विकल्पसमाधिनि ॥
वासनाक्षयबीजे ऽस्मिन् किञ्चिद् अङ्कुरिते हृदि ।
क्रमान् नोदयम् एष्यन्ति रागद्वेषादिका दृशः ॥
संसारसम्भवश् चायं निर्मूलत्वम् उपैष्यति ।
निर्विकल्पसमाधानं प्रतिष्ठाम् अलम् एष्यति ॥
विगतकलनकालिमाकलङ्का गगनकलान्तरनिर्मला बलेन ।
सकलकरणकार्यकारणान्तः कतिपयकार्यवशाद् भविष्यसीति ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0