मोक्षोपाय · अध्याय 3.20
स ते भर्ताद्य सम्पन्नो द्विजो भूपत्वम् आगतः ।
यासाव् अरुन्धती नाम ब्राह्मणी सा त्वम् अङ्गने ॥
इहेमौ कुरुतो राज्यं तौ भवन्तौ सुदम्पती ।
चक्रवाकाव् इव नवौ भुवि जातौ शिवाव् इव ॥
एष ते कथितस् सर्वः प्राक्तनस् संसृतिभ्रमः ।
भ्रान्तिमात्रकम् आकाशम् एव जीवस्वरूपधृत् ॥
भ्रमाद् अस्माच् चिदादर्शे भ्रमो ऽयं प्रतिबिम्बितः ।
असत्य एव चासत्याद् भवतोर् भवभङ्गदः ॥
तस्माद् भ्रान्तिमयः कस् स्यात् को वा भ्रान्त्युज्झितो भवेत् ।
सर्गो निरर्गलानल्पबोधान् नान्यद् विजृम्भते ॥
इत्य् आकर्ण्य चिरं चारुविस्मयोत्फुल्ललोचना ।
भूत्वोवाच वचो लीला लीलालसपदाक्षरम् ॥
देवि त्वद्वचनं मिथ्या कथं सम्पन्नम् ईदृशम् ।
क्व विप्रजीवस् स्वगृहे क्वेमे वयम् इह स्थिताः ॥
तादृग् लोकान्तरं सा भूस् ते शैलास् ता दिशो दश ।
कथं मान्ति गृहस्यान्तर् मद्भर्ता येष्व् अवस्थितः ॥
मत्त ऐरावणो बद्धस् सिद्धार्थकणकोदरे ।
मषकेन कृतं युद्धं सिंहौघैर् अणुकोटरे ॥
पद्माक्षे स्थापितो मेरुर् निगीर्णो मधुपायिना ।
स्वप्नाभ्रगर्जितं श्रुत्वा चित्रे नृत्यन्ति वर्हिणः ॥
असमञ्जसम् एवैतद् यथा सर्वेश्वरेश्वरि ।
तथा गृहान्तः पृथिवी शैलाश् चेत्य् असमञ्जसम् ॥
यथावद् एतद् देवेशि कथयामलया धिया ।
प्रसादसुगृहीते हि नोद्विजन्ते महौजसः ॥
नाहं मिथ्या वदामीदं यथावच् छृणु सुन्दरि ।
भेदनं नियतीनां हि क्रियते नास्मदादिभिः ॥
विभिद्यमानाम् अन्येन स्थापयाम्य् अहम् एव याम् ।
मर्यादां तां मया भिन्नां को ऽपरः पालयिष्यति ॥
सग्रामं द्विजजीवात्मा तस्मिन्न् एव स्वसद्मनि ।
व्योम्न्य् एवेदं महीराष्ट्रं व्योमात्मैव प्रपश्यति ॥
प्राक्तनी सा स्मृतिर् लुप्ता युवयोर् उदितान्यथा ।
स्वप्ने जाग्रत्स्मृतिर् यद्वद् एतन्मरणम् अङ्गने ॥
यथा स्वप्ने त्रिभुवनं सङ्कल्पात् त्रिजगद् यथा ।
यथा कथार्थसङ्ग्रामो मरुभूमौ यथा जलं ॥
तस्य ब्राह्मणगेहस्य सशैलवनपत्तना ।
इयम् अन्तस्स्थिता भूमिस् सङ्कल्पादर्शयोर् इव ॥
असत्यैवेयम् आभाति सत्येव घनसर्गता ।
तस्यासत्यावभासस्य चिद्व्योम्नः कोशकोटरे ॥
असत्याद् यत् समुत्पन्नं स्मृत्या नाम तद् अप्य् असत् ।
मृगतृष्णातरङ्गिण्यास् तरङ्गो ऽपि न सत्यतः ॥
इदं त्वदीयं सदनं तद्गेहाकाशकोशगम् ।
विद्धि मां त्वां च सर्वं वा तच् च व्योमैव केवलम् ॥
स्वप्नसङ्गमसङ्कल्पस्वानुभूतिपरम्पराः ।
प्रमाणान्य् अत्र मुख्यानि सम्बोधाय प्रदीपवत् ॥
स्थितो ब्राह्मणगेहे ऽन्तर् द्विजजीवस् तदन्तरे ।
ससमुद्रवना पृथ्वी स्थिताब्ज इव षट्पदी ॥
तस्याः कस्मिंश्चिद् एकस्मिन् पेलवे कोटरोदरे ।
इदं पत्तनम् आभाति केशोण्डुक इवाम्बरे ॥
तस्मिन्न् अस्मिन् पुरे तन्वि तवेदं सदनं स्थितम् ।
तस्मात् किम् अणुमात्रे ऽन्तर् गजवृन्दम् इव स्थितम् ॥
परमाणौ परमाणौ सन्ति वत्से चिदात्मनि ।
अन्तर् अन्तर् जगन्तीति केनैतन् नाम सङ्ख्यते ॥
अष्टमं दिवसं विप्रस् स मृतः परमेश्वरि ।
गतो वर्षगणो ऽस्माकम् अतः कथम् इदं भवेत् ॥
देशदैर्घ्यं यथा नास्ति कालदैर्घ्यं तथैव च ।
नास्त्य् एवेति यथान्यायं कथ्यमानं मया शृणु ॥
यथैतत् प्रतिभामात्रं जगत्सर्गावभासनम् ।
तथैतत् प्रतिभामात्रं क्षणकल्पावभासनं ॥
क्षणकल्पजगत्सर्गत्वत्तामत्तात्मजन्मनाम् ।
यथावत् प्रतिभासस्य वत्से क्रमम् इमं शृणु ॥
अनुभूय क्षणं जीवो मिथ्यामरणमूर्छनाम् ।
तदैवोन्मेषमात्रेण व्योम्न्य् एव व्योमरूप्य् अपि ॥
आधेयो ऽहम् इहाधारे स्थितो ऽहम् इति चेतति ।
हस्तपादादिमान् देहो ममायम् इति पश्यति ॥
यदैव चेतति वपुस् तदैवेदं स चेतति ।
एतस्याहं पितुः पुत्रो वर्षाणीमानि सन्ति मे ॥
इमे मे बान्धवा रम्या ममेदं रम्यम् आस्पदम् ।
जातो ऽहम् अभवं बालो वृद्धिं यातो ऽहम् ईदृशः ॥
बान्धवाश् चास्य ते सर्वे तथैव विहरन्त्य् अपि ।
चिदाकाशघनैक्यत्वात् स्वात्मन्य् अपि भवन्ति ते ॥
एवं नामोदिते ऽप्य् अस्याश् चितेस् संसारषण्डके ।
न किञ्चिद् अप्य् अभ्युदितं स्थितं व्योमैव निर्मलम् ॥
स्वप्ने द्रष्टरि यद्वच् चित् तद्वद् दृश्ये चिद् एव सा ।
सर्वदैकतया तस्मात् सा स्वप्ने द्रष्टृदर्शनम् ॥
यथा स्वप्ने तथोदेति परलोकदृशा चितिः ।
परलोके यथोदेति तथैवेहाप्य् उदेति सा ॥
तत् स्वप्नपरलोकेहलोकानाम् असतां सतां ।
न मनाग् अपि भेदो ऽस्ति वीचीनाम् इव वारिणि ॥
अतो ऽजातम् इदं विश्वम् अजातत्वाद् अनाशि च ।
खरूपत्वाच् च नास्त्य् एव यच् च भाति चिद् एव सा ॥
यथैषा चेत्यनिर्हीना परमव्योमरूपिणी ।
सचेत्यापि तथैवैषा परमव्योमरूपिणी ॥
यस्माच् चेत्यम् अतो नान्यद् वीचित्वाद् इव वारिता ।
वीचित्वं च न चैवास्ति शशशृङ्गवद् एव हि ॥
सैव चेत्यम् इवापन्ना स्वभावाद् अच्युताप्य् अलम् ।
तस्मान् नास्त्य् एव दृश्यो ऽर्थः कुतो ऽतो द्रष्टृदृश्यधीः ॥
निमेषेणैव जीवस्य मृतिमोहाद् अनन्तरम् ।
त्रिजगत्सर्गदृश्यश्रीः प्रतिभाम् उपगच्छति ॥
यथादेशं यथाकालं यथारम्भं यथाक्रमम् ।
यथोत्पादं यथामातृ यथापितृ यथौरसम् ॥
यथावयो यथासंविद् यथास्थानं यथेहितम् ।
यथाबन्धु यथाभृत्यं यथेहास्तमयोदयम् ॥
अजातम् एव जातो ऽहम् इति पश्यति चिद्वपुः ।
देशकालक्रियाद्रव्यमनोबुद्धीन्द्रियाणि च ॥
झगित्य् एव मृतेर् अन्ते वपुः पश्यति यौवनम् ।
एषा माता पिता त्व् एष बालो ऽभूवम् अहं त्व् इति ॥
नानुभूतो ऽनुभूतो वा यस् स्यात् स्मृतिमयः क्रमः ।
पश्चाद् उदेत्य् असौ तस्य पुष्पस्येव फलोदयः ॥
निमेषेणैव सकलो गत इत्य् अनुभूयते ।
रात्रिर् द्वादशवर्षाणि हरिश्चन्द्रे तथाप्य् अभूत् ॥
कान्ताविरहिणाम् एकं वासरं वत्सरायते ।
मृतो जातो ऽहम् अन्यो मे पितेति स्वप्नधाम्नि च ॥
अभुक्तस्यैव भोग्यस्य भुक्तधीर् उपजायते ।
भुक्ते चाभुक्तधीर् दृष्टम् इत्य् अलं कितवादिषु ॥
शून्यम् आकीर्णताम् एति तुल्यं व्यसनम् उत्सवैः ।
विप्रलम्भो ऽपि लाभश् च मदस्वप्नादिसंविदि ॥
तैक्ष्ण्यं यथा मरिचबीजकणे स्थितं स्वं स्तम्भे ऽथवा रचितपुत्रकजालम् अन्तः ।
दृश्यं त्व् अनन्यद् इदम् एवम् अजे ऽस्ति शान्तं कस्यास्ति बन्धनविमोक्षदृशः कुतः काः ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0