भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 3.19

3.19.1

वित्तवेशवयःकर्मविद्याविभवचेष्टितैः ।
वसिष्ठस्येव सदृशो न तु वासिष्ठचेतनः ॥

3.19.2

वसिष्ठ इति नाम्नाभूत् तस्याभूद् इन्दुसुन्दरी ।
नाम्ना त्व् अरुन्धती भार्या भूमिव्योमन्य् अरुन्धती ॥

3.19.3

वित्तवेशवयःकर्मविद्याविभवचेष्टितैः ।
समेव साप्य् अरुन्धत्या न तु चेतनसत्तया ॥

3.19.4

अकृत्रिमप्रेमरसा विलासालसगामिनी ।
सास्य संसारसर्वस्वम् आसीत् कुमुदहासिनी ॥

3.19.5

स विप्रस् तस्य शैलस्य सानौ सरसशाद्वले ।
कदाचिद् उपविष्टस् सन् ददर्शाधो महीपतिम् ॥

3.19.6

समग्रपरिवारेण यान्तम् आखेटकेच्छया ।
महता सैन्यघोषेण मेरोर् इव बिभित्सया ॥

3.19.7

चामरैः कीर्णचन्द्रांशु पताकाभिर् लतावनम् ।
कुर्वाणं खं सितच्छत्रमण्डलै रौप्यकुट्टिमम् ॥

3.19.8

अश्वीयाग्निपृषत्पूरपूर्णरेण्वभ्रवर्णवत् ।
हास्तिकोत्तम्भितकरवाटाट्टालकगोपितम् ॥

3.19.9

महाकलकलावर्तद्रवद्दिग्भूतमण्डलम् ।
कचत्काञ्चनमाणिक्यहारकेयूरकुण्डलम् ॥

3.19.10

तम् आलोक्य महीपालम् इदं चिन्तितवान् असौ ।
अहो नु रम्या नृपता सर्वसौभाग्यभासिता ॥

3.19.11

पदातिरथहस्त्यश्वपताकाच्छत्रचामरैः ।
कदा स्यां दशदिक्कुञ्जपूरको ऽहं महीपतिः ॥

3.19.12

कदा मे वायवः कुन्दमकरन्दसुगन्धयः ।
पास्यन्त्य् अन्तःपुरस्त्रीणां सुरतश्रमशीकरान् ॥

3.19.13

कर्पूरेण पुरन्ध्रीणां कीर्णेन यशसा दिशाम् ।
इन्दूदयावदातानि कदा कुर्यां मुखान्य् अहम् ॥

3.19.14

इत्थं ततःप्रभृत्य् एव विप्रस् सङ्कल्पवान् अभूत् ।
स्वधर्मनिरतो नित्यं यावज्जीवम् अतन्द्रितः ॥

3.19.15

हिमाशनिर् इवाम्भोजं जर्जरीकर्तुम् आदृता ।
जरा हार्दान्वितेवैनं जवाद् द्विजम् उपाययौ ॥

3.19.16

आसन्नमरणस्यात्र भार्या म्लानिम् उपाययौ ।
तस्य शाम्यति पुष्पर्तौ लतेव ग्रीष्मभीतितः ॥

3.19.17

माम् अथाराधितवती सा ततस् त्वम् इवाङ्गना ।
अमरत्वं सुदुष्प्रापं बुद्ध्वेमं सावृणोद् वरम् ॥

3.19.18

देवि स्वमण्डपाद् एव जीवो भर्तुर् मृतस्य मे ।
मा यासीद् इत्य् अतस् तस्यास् स एवाङ्गीकृतो मया ॥

3.19.19

अथ कालवशाद् विप्रस् स पञ्चत्वम् उपाययौ ।
तस्मिन्न् एव गृहाकाशे जीवाकाशतया स्थितः ॥

3.19.20

सम्पन्नः प्राक्तनानल्पसङ्कल्पवशतस् स्वयम् ।
आकाशवपुर् एवोर्वीपतिः परमशक्तिमान् ॥

3.19.21

प्रभावाज् जितभूपीठः प्रतापाक्रान्तविष्टपः ।
कृपापालितपातालस् त्रिलोकविजयी नृपः ॥

3.19.22

कालाग्निर् अरिपक्षाणां स्त्रीणां मकरकेतनः ।
मेरुर् विषयवायूनां साध्वब्जानां दिवाकरः ॥

3.19.23

आदर्शस् सर्वशास्त्राणाम् अर्थिनां कल्पपादपः ।
पादपीठं द्विजाग्र्याणां राका धर्मामृतत्विषः ॥

3.19.24

स्वगृहाभ्यन्तराकाशे चित्ताकाशमयात्मनि ।
तस्मिन् द्विजे शवीभूते भूताकाशशरीरिणि ॥

3.19.25

सा तस्य ब्राह्मणी भार्या शोकेणात्यन्तकर्षिता ।
शुष्केव माषशिमिका हृदयेन द्विधागमत् ॥

3.19.26

भर्त्रा सह शवीभूता देहम् उत्सृज्य दूरतः ।
आतिवाहिकदेहेन भर्तारं समुपाययौ ॥

3.19.27

नदी निखातम् इव तं भर्तारम् अनुसृत्य सा ।
आजगाम विशोकत्वं सवसन्तेव मञ्जरी ॥

3.19.28

तत्रास्य विप्रस्य सुता गृहाणि भूस्थावरादीनि घनानि सन्ति ।
अद्याष्टमं वासरम् आप्तमृत्योर् जीवो गिरिग्रामकमन्दिरस्थः ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc