भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 3.2

3.2.1

इदम् आकाशजाख्यानं शृणु श्रवणभूषणम् ।
उत्पत्त्याख्यं प्रकरणं येन राघव बुध्यसे ॥

3.2.2

अस्तीहाकाशजो नाम द्विजः परमधार्मिकः ।
ध्यानैकनिष्ठस् सततं प्रजानां च हिते रतः ॥

3.2.3

स चिरं जीवति यदा तदा मृत्युर् अचिन्तयत् ।
सर्वाण्य् एव क्रमेणाहं भूतान्य् अद्मि किलाक्षयः ॥

3.2.4

एवम् आकाशजं विप्रं न कस्माद् भक्षयाम्य् अहम् ।
अत्र मे कुण्ठिता शक्तिः खड्गधारा यथोपले ॥

3.2.5

इति सञ्चिन्त्य तं हन्तुम् अगच्छत् तत्पुरं तदा ।
त्यजन्त्य् उद्यमम् उद्युक्ता न कदाचन केचन ॥

3.2.6

ततस् तत्सदनं यावन् मृत्युः प्रविशति स्वयम् ।
तावद् एनं दहत्य् अग्निः कल्पान्तज्वलनोपमः ॥

3.2.7

अग्निज्वालामहाजालं विदार्यान्तर्गतो ऽप्य् असौ ।
द्विजं दृष्ट्वा समादातुं हस्तेनैच्छत् प्रयत्नतः ॥

3.2.8

न चाशकत् पुरो दृष्टम् अपि हस्तशतैर् द्विजम् ।
बलवान् अप्य् अवष्टब्धुं सङ्कल्पपुरुषं यथा ॥

3.2.9

अथागत्य यमं मृत्युर् अपृच्छत् संशयच्छिदम् ।
किम् इत्य् अहं न शक्नोमि भोक्तुम् आकाशजं प्रभो ॥

3.2.10

मृत्यो न किञ्चिच् छक्तस् त्वम् एको मारयितुं बलात् ।
मारणीयस्य कर्माणि तत्कर्तॄणीह नेतरत् ॥

3.2.11

तस्माद् एतस्य विप्रस्य मारणीयस्य यत्नतः ।
कर्माण्य् अन्विच्छ तेषां त्वं साहाय्येनैनम् अत्स्यसि ॥

3.2.12

ततस् स मृत्युर् बभ्राम तत्कर्मान्वेषणादृतः ।
मण्डलानि दिगन्तांश् च सरांसि सरितो दिशः ॥

3.2.13

वनजङ्गलजालानि शैलाम्भोधितटान्य् अपि ।
द्वीपान्तराण्य् अरण्यानि नगराणि पुराणि च ॥

3.2.14

ग्रामान् अखिलराष्ट्राणि देशान्तगहनानि च ।
एवं भूमण्डलं भ्रान्त्वा स कुतश्चिन् न कानिचित् ॥

3.2.15

तान्य् आकाशजकर्माणि लब्धवान् मृत्युर् उद्यतः ।
वन्ध्यापुत्रम् इव प्राज्ञस् सङ्कल्पाद्रिम् इवापरः ॥

3.2.16

समपृच्छद् अथागत्य यमं सर्वार्थकोविदम् ।
परायणं हि प्रभवस् सन्देहेष्व् अनुजीविनाम् ॥

3.2.17

आकाशजस्य कर्माणि क्व स्थितानि वद प्रभो ।
धर्मराजो ऽथ सञ्चिन्त्य सुचिरं प्रोक्तवान् इदम् ॥

3.2.18

आकाशजस्य कर्माणि मृत्यो सन्ति न कानिचित् ।
एष ह्य् आकाशजो विप्रो जातः खाद् एव केवलात् ॥

3.2.19

आकाशाद् एव यो जातस् स व्योमैवामलं भवेत् ।
सहकारीणि नो सन्ति कारणाण्य् अस्य कानिचित् ॥

3.2.20

सम्बन्धः प्राक्तनेनास्य न मनाग् अपि कर्मणा ।
अस्ति वन्ध्यासुतस्येव तथाजाताकृतेर् इव ॥

3.2.21

तस्माद् अजात एवैष स्वयम्भूर् अज एव च ।
नैतस्य पूर्वकर्मास्ति नभसीव महाद्रुमः ॥

3.2.22

नैतद् अस्यावशं चित्तम् अभावात् पूर्वकर्मणः ।
अद्य तावद् अनेनान्यन् न किञ्चित् कर्म सञ्चितम् ॥

3.2.23

एष आकाशकोशात्मा विशदाकाशरूपिणि ।
समाधौ संस्थितो नित्यं कर्माण्य् अस्य न कानिचित् ॥

3.2.24

प्राक्तनानि न सन्त्य् अस्य कर्माण्य् अद्य करोति नो ।
किञ्चिद् अप्य् एवम् एषो ऽत्र विज्ञानाकाशमात्रकम् ॥

3.2.25

प्राणस्पन्दो ऽस्य यत् कर्म लक्ष्यते चास्मदादिभिः ।
दृश्यते ऽस्माभिर् एवैतन् न त्व् अस्यास्त्य् अत्र कर्मधीः ॥

3.2.26

देहो ऽस्य दृश्यते ऽस्माभिर् नैष वेत्ति परात् पदात् ।
भिन्नम् आकाशम् आत्मीयं चित्स्तम्भे सालभञ्जिकाम् ॥

3.2.27

अनुत्कीर्णा यथा स्तम्भे संस्थिता सालभञ्जिका ।
तथैष परमात्मान्तस् स्वात्मभूतस् स्थितो द्विजः ॥

3.2.28

यथा द्रवत्वं पयसि शून्यत्वं च यथाम्बरे ।
मारुते च यथा स्पन्दस् तथैष परमे पदे ॥

3.2.29

कर्माण्य् अद्यतनान्य् अस्य सञ्चितानि न सन्ति हि ।
न पूर्वाण्य् एव तेनेह न संसारवशं गतः ॥

3.2.30

सहकारिकारणानाम् अभावे यः प्रजायते ।
नासौ स्वकारणाद् भिन्नो भवतीत्य् अनुभूयते ॥

3.2.31

निर्मलाकाशकोशात्मा द्विज एष स्वयम्भवः ।
कर्ता न पूर्वं नाप्य् अद्य कथम् आक्रम्यते वद ॥

3.2.32

यदैष कलनां बुद्ध्या मृत्युनाम्नीं करिष्यति ।
तदैव रहितो बुद्ध्या स्वयम् एव मरिष्यति ॥

3.2.33

पृथ्व्यादिमान् अहम् अयम् इति यस्य स्वनिश्चयः ।
स पार्थिवो भवत्य् आशु ग्रहीतुं स च शक्यते ॥

3.2.34

एष त्व् अपार्थिवाकारश् शुद्धविज्ञानरूपवान् ।
दृढरज्ज्वेव गगनं ग्रहीतुं नैव युज्यते ॥

3.2.35

भगवञ् जायते शून्यः कथं नाम वदेति मे ।
पृथ्व्यादयः कथं सन्ति न सन्ति वद वा कथम् ॥

3.2.36

न कदाचन जातो ऽसौ न च नास्ति कदाचन ।
द्विजः केवलविज्ञानभामात्रं तत् तथा स्थितम् ॥

3.2.37

महाप्रलयसम्पत्तौ न किञ्चिद् अवशिष्यते ।
ब्रह्मास्ते शान्तम् अजरम् अनन्तात्मैव केवलम् ॥

3.2.38

चेत्यनिर्मुक्तचिन्मात्रम् अणूनाम् अणु विद्धि तत् ।
तथा तद् अणु येनास्य निकटे ऽद्रिनिभं नभः ॥

3.2.39

स चिन्मात्रस्वभावत्वाद् देहो ऽहम् इति चेतसि ।
काकतालीयवद् भातम् आकारं तेन पश्यति ॥

3.2.40

स एष ब्राह्मणस् तस्मिन् सर्गादाव् अम्बरोदरे ।
स्वयं भातस् स्वयम्भूत्वं गतो भात्य् अजरामरः ॥

3.2.41

नास्य देहो न कर्माणि न कर्तृत्वं न वासना ।
एष शुद्धचिदाकाशो विज्ञानघनम् आततम् ॥

3.2.42

प्राक्तनं वासनाजालं किञ्चिद् अस्य न विद्यते ।
केवलं व्योमरूपस्य भारूपस्येव तेजसः ॥

3.2.43

केवलं वेदनामात्राद् एवम् एषो ऽवलोक्यते ।
वेदनामात्रसंशान्ताव् ईदृशो ऽपि न दृश्यते ॥

3.2.44

तस्माद् यथा चिदाकाशस् तथा तत्प्रतिपत्तयः ।
कुतः किलात्र पृथ्व्यादेः कीदृशस् सम्भवः कथम् ॥

3.2.45

एतदाक्रमणे मृत्यो तस्मान् मा यत्नवान् भव ।
ग्रहीतुं युज्यते व्योम न कदाचन केनचित् ॥

3.2.46

ब्रह्मैव कथितो ब्रह्मंस् त्वया मे प्रपितामहः ।
स्वयम्भूर् अज एकात्मा विज्ञानात्मेति मे मतिः ॥

3.2.47

एवम् एतन् मया राम ब्रह्मैष कथितस् तव ।
विवादम् अकरोन् मृत्युर् यमेनैतत्कृते पुरा ॥

3.2.48

मन्वन्तरे सर्वभक्षो यदा मृत्युर् हरन् प्रजाः ।
बलम् एत्य् अब्जजाक्रान्ताव् आरम्भम् अकरोत् स्वयम् ॥

3.2.49

तद् एवं धर्मराजेन यमेनाश्व् अनुशासितः ।
यद् एव क्रियते नित्यं रतिस् तत्रैव जायते ॥

3.2.50

ब्रह्मा किल पराकाशवपुर् आक्रम्यते कथम् ।
मनोमात्रम् असङ्कल्पः पृथ्व्यादिरहिताकृतिः ॥

3.2.51

यश् चिद्व्योमचमत्कारः किलाकाशानुभूतिमान् ।
स चिद्व्योमैव नो तस्य कारणत्वं न कार्यता ॥

3.2.52

आकाशस्फुरदाकारस् सङ्कल्पपुरुषो यथा ।
पृथ्व्यादिरहितो भाति स्वयम्भूर् भासते तथा ॥

3.2.53

न दृश्यम् अस्ति नो द्रष्टा परमात्मनि केवले ।
स्वयं चित्त्वात् तथाप्य् एष स्वयम्भूर् इति भासते ॥

3.2.54

सङ्कल्पमात्रम् एवैतन् मनो ब्रह्मेति कथ्यते ।
सङ्कल्पाकाशपुरुषो नास्य पृथ्व्यादि विद्यते ॥

3.2.55

यथा चित्रकृदन्तस्स्था निर्देहा भाति पुत्रिका ।
तथैव भासते ब्रह्मा चिदाकाशाच्छरञ्जनम् ॥

3.2.56

चिद्व्योम केवलम् अनन्तम् अनादिमध्यं ब्रह्मेति भाति निजचित्तवशात् स्वयम्भूः ।
आकारवान् इव रसाद् इह वस्तुतस् तु वन्ध्यातनूज इव नास्ति तु तस्य देहः ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc