भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 3.1

3.1.1

वाग्भाभिर् ब्रह्मविद् ब्रह्म भाति स्वप्न इवात्मनि ।
यद् इदं तत् स्वशब्दार्थैर् यो यद् वेत्ति स वेत्तु तत् ॥

3.1.2

न्यायेनानेन सर्वस्मिन् सर्गे ब्रह्माम्बरे सति ।
किम् इदं कस्य वक्षीति चोद्यचञ्चुर् निराकृतः ॥

3.1.3

अहं तावद् यथाज्ञानं यथावस्तु यथाक्रमम् ।
यथास्वभावं वच्मीदं तत् सर्वं श्रूयतां बुधाः ॥

3.1.4

स्वप्नवत् पश्यति जगच् चिन्नभो देहविन्मयम् ।
स्वप्नसंसारदृष्टान्ता इहैवान्तस् समन्विताः ॥

3.1.5

मुमुक्षुव्यवहारोक्तिमयात् प्रकरणाद् अनु ।
अथोत्पत्तिप्रकरणं मयेदं परिकथ्यते ॥

3.1.6

बन्धो ऽयं दृश्यसद्भावो दृश्याभावे न बन्धनम् ।
न सम्भवति दृश्यं तु यथेदं तच् छृणु क्रमात् ॥

3.1.7

उत्पद्यते यो जगति स एव किल वर्धते ।
स एव मोक्षम् आप्नोति स्वर्गं वा नरकं च वा ॥

3.1.8

अतस् ते स्ववबोधार्थं तत् तावत् कथयाम्य् अहम् ।
उत्पत्तिं संसृताव् एति पूर्वम् एव हि यो यथा ॥

3.1.9

इदं प्रकरणार्थं त्वं सङ्क्षेपाच् छृणु राघव ।
ततः प्रकथयिष्यामि विस्तरं ते यथेप्सितम् ॥

3.1.10

यद् इदं दृश्यते सर्वं जगत् स्थावरजङ्गमम् ।
तत् सुषुप्त इव स्वप्नः कल्पान्ते प्रविनश्यति ॥

3.1.11

ततस् स्तिमितगम्भीरं न तेजो न तमस् ततम् ।
अनाख्यम् अनभिव्यक्तं यत् किञ्चिद् अवशिष्यते ॥

3.1.12

ऋतम् आत्मा परं ब्रह्म सत्यम् इत्यादिका बुधैः ।
कल्पिता व्यवहारार्थं यस्य सञ्ज्ञा महात्मनः ॥

3.1.13

स तथाभूत एवात्मा स्वयम् अन्य इवोल्लसन् ।
जीवताम् उपयातीव भाविनामकदर्थनाम् ॥

3.1.14

ततस् स जीवशब्दार्थकलनाकुलतां गतः ।
मनो भवति मौनात्मा मननान् मन्थरीभवत् ॥

3.1.15

मनस् सम्पद्यते तेन महतः परमात्मनः ।
सुस्थिराद् अस्थिराकारस् तरङ्ग इव वारिधेः ॥

3.1.16

तत् स्वयं स्वैरम् एवाशु सङ्कल्पयति नित्यशः ।
तेनेयम् इन्द्रजालश्रीर् विततेव वितन्यते ॥

3.1.17

यथा कटकशब्दार्थः पृथक्त्वार्हो ऽस्ति कानके ।
न नाम कटके तद्वज् जगच्छब्दार्थता परे ॥

3.1.18

ब्रह्मण्य् एवास्त्य् अनन्यात्म यथास्थितम् इदं जगत् ।
न जगच्छब्दकार्थो ऽस्ति हेम्नीव कटकादिता ॥

3.1.19

असतैवासती तापनद्येव लहरी चला ।
मनसैवेन्द्रजालश्रीर् जागती प्रवितन्यते ॥

3.1.20

अविद्या संसृतिर् बन्धो माया मोहो महत् तमः ।
कल्पितानीति नामानि यस्यास् सकलवेदिभिः ॥

3.1.21

बन्धस्य तावद् रूपं त्वं कथ्यमानम् इदं शृणु ।
ततस् स्वरूपं मोक्षस्य ज्ञास्यसीन्दुसमानन ॥

3.1.22

द्रष्टुर् दृश्यत्वसत्ताङ्ग बन्ध इत्य् अभिधीयते ।
द्रष्टा दृश्यवशाद् बद्धो दृश्याभावाद् विमुच्यते ॥

3.1.23

जगत् त्वम् अहम् इत्यादिसर्गात्मा दृश्यम् उच्यते ।
यावद् एतत् सम्भवति तावन् मोक्षो न विद्यते ॥

3.1.24

नेदं नेदम् इति व्यर्थैः प्रलापैर् नोपशाम्यति ।
सङ्कल्पजनकैर् दृश्यव्याधिः प्रत्युत वर्धते ॥

3.1.25

न च तर्कभरक्षोदैर् न तीर्थनियमादिभिः ।
सतो दृश्यस्य जगतो यस्माद् एते विचारकाः ॥

3.1.26

जगद् दृश्यं तु यद्य् अस्ति न शाम्यत्य् एव तत् क्वचित् ।
नासतो विद्यते भावो नाभावो विद्यते सतः ॥

3.1.27

अचेत्यचित्स्वरूपात्मा यत्र यत्रैष तिष्ठति ।
तत्र तत्रास्य दृश्यश्रीस् समुदेत्य् अप्य् अणूदरे ॥

3.1.28

तस्माद् अस्ति जगद् दृश्यं तत् प्रमृष्टम् इदं मया ।
त्यक्तं तपोध्यानजपैर् इति काञ्चिकतृप्तिवत् ॥

3.1.29

यदि नाम जगद् दृश्यम् अस्ति तत् प्रतिबिम्बति ।
परमाणूदरे ऽप्य् अस्मिंश् चिदादर्शे न संशयः ॥

3.1.30

यत्र तत्र स्थितं राम यथादर्शे प्रबिम्बति ।
अद्रिद्यूर्वीनदीशादि चिदादर्शे तथैव हि ॥

3.1.31

ततस् तत्र पुनर् दुःखं जरा मरणजन्मनी ।
भावाभावग्रहोत्सर्गास् स्थूलसूक्ष्मचलाचलाः ॥

3.1.32

इदं प्रमार्जितं दृश्यं मया नात्राहम् आस्थितः ।
एतद् एवाक्षयं बीजं समाधौ संसृतिस्मृतेः ॥

3.1.33

सति त्व् अस्मिञ् जगद्दृश्ये निर्विकल्पसमाधिना ।
न चाक्षयसुषुप्तत्वं तुर्यं वाप्य् उपपद्यते ॥

3.1.34

व्युत्थाने हि समाधीनां सुषुप्तान्त इवाखिलम् ।
जगद्दुःखम् इदं भाति यथास्थितम् अखण्डितम् ॥

3.1.35

प्राप्तं भवति हे राम तत् किं नाम समाधिभिः ।
भूयो ऽनर्थनिपाते हि क्षणसाम्ये ऽपि किं सुखम् ॥

3.1.36

यदि वापि समाधाने निर्विकल्पे स्थितिं व्रजेत् ।
तद् अक्षयसुषुप्ताभं तन् मन्ये नामलं पदम् ॥

3.1.37

प्राप्यते सति दृश्ये ऽस्मिन् न च तन् नाम केनचित् ।
यत्र तत्र किलायाति चित्तभ्रान्त्या जगद्भ्रमः ॥

3.1.38

द्रष्टाथ यदि पाषाणरूपतां भावयन् बलात् ।
किलास्ते तत् तदन्ते ऽपि भूयो ऽस्योदेति दृश्यता ॥

3.1.39

न च पाषाणतातुल्या निर्विकल्पसमाधयः ।
केषाञ्चित् स्थितिम् आयान्ति सर्वैर् इत्य् अनुभूयते ॥

3.1.40

न च पाषाणतातुल्या रूढिं यातास् समाधयः ।
भवन्त्य् अग्र्यं पदं शान्तं चिद्रूपम् अजम् अव्ययम् ॥

3.1.41

तस्माद् यदीदं सद् दृश्यं तन् न शाम्येत् कदाचन ।
शाम्येत् तपोजपध्यानैर् दृढम् इत्य् अज्ञकल्पना ॥

3.1.42

आलीनवल्लरीरूपं यथा पद्माक्षकोटरे ।
आस्ते कमलिनीबीजं तथा द्रष्टरि दृश्यधीः ॥

3.1.43

यथा रसः पदार्थेषु यथा तैलं तिलादिषु ।
कुसुमेषु यथामोदस् तथा द्रष्टरि दृश्यधीः ॥

3.1.44

यत्र यत्र स्थितस्यापि कर्पूरादेस् सुगन्धता ।
यथोदेति तथा दृश्यं चिद्धातोर् उदरे जगत् ॥

3.1.45

यथा चात्र तव स्वप्नसङ्कल्पश् चित्तराज्यधीः ।
स्वानुभूत्यैव दृष्टान्तस् तस्माद् धृद्य् अस्ति दृश्यभूः ॥

3.1.46

तस्माच् चित्तविकल्पस्थः पिशाचो बालकं यथा ।
विनिहन्त्य् एवम् एषान्तर् द्रष्टारं दृश्यरूपिका ॥

3.1.47

यथाङ्कुरो ऽन्तर् बीजस्य संस्थितो देशकालतः ।
करोति भासुरं देहं तनोत्य् एवं हि दृश्यधीः ॥

3.1.48

द्रव्यस्य हृद्य् एव चमत्कृतिर् यथा सदोदितास्त्य् अस्तमयोज्झितोदरे ।
द्रव्यस्य चिन्मात्रशरीरिणस् तथा स्वभावभूतास्त्य् उदरे जगत्स्थितिः ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc