भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 3.18

3.18.1

इत्थं विनोदयामीदं दुःखितं चित्तम् इत्य् अलम् ।
बोधयित्वेङ्गितैर् भूपान् आस्थानाद् उत्थिताथ सा ॥

3.18.2

प्रविश्यान्तःपुरं भर्तुः पार्श्वे ऽन्तःपुरमण्डपे ।
विवेश पुष्पगुप्तस्य चिन्तयाम् आस चेति सा ॥

3.18.3

अहो विचित्रा मायेयम् एते ऽस्मत्पुरमानवाः ।
बहिर् अन्तश् चिदादर्शे तत्र चेह च संस्थिताः ॥

3.18.4

तालीतमालहिन्तालमालिता गिरयो ऽप्य् अमी ।
यथा तत्र तथेहापि बत मायेयम् आतता ॥

3.18.5

आदर्शे बहिर् अन्तश् च यथा शैलो ऽनुभूयते ।
बहिर् अन्तश् चिदादर्शे तथा सर्गो ऽनुभूयते ॥

3.18.6

अत्र भ्रान्तिमयस् सर्गः कस् स्यात् कः पारमार्थिकः ।
इति पृच्छामि वागीशीम् अभ्यर्च्योत्तमसंशयम् ॥

3.18.7

इति निश्चित्य तां देवीं पूजयाम् आस सा तदा ।
ददर्श च पुरः प्राप्तां कुमारीरूपधारिणीम् ॥

3.18.8

भद्रासनगतां देवीम् उपविश्य पुरोगता ।
परमार्थमहाशक्तिं लीलापृच्छद् भुवि स्थिता ॥

3.18.9

अनुकम्प्यस्य नो देवि भजन्त्य् उद्वेगम् उत्तमाः ।
त्वयैव किल सर्गादौ स्थापितेति पुरास्थितिः ॥

3.18.10

तद् इयं यत् पुरा प्रह्वा पृच्छामि परमेश्वरि ।
त्वं ब्रूहि त्वत्कृतो नूनं सफलो मे ऽस्त्य् अनुग्रहः ॥

3.18.11

अस्त्य् आदर्शो जगन्नाम्नः खाद् अप्य् अधिकनिर्मलः ।
यस्य योजनकोटीनां कोटयो ऽवयवो मनाक् ॥

3.18.12

निस्सन्धिबन्धो ऽभिघनो मृदुर् मसृणशीतलः ।
अचेत्यचिद् इति ख्यातो नाम्ना निर्भित्तिर् अग्रहः ॥

3.18.13

दिक्कालकलनाकाशप्रकाशनियतिक्रमाः ।
यत्रेमे प्रतिबिम्बन्ति परां परिमितिं गताः ॥

3.18.14

त्रिजगत्प्रतिबिम्बश्रीर् बहिर् अन्तश् च संस्थिता ।
तत्राम्ब कृत्रिमा का स्यात् कासौ वा स्याद् अकृत्रिमा ॥

3.18.15

अकृत्रिमत्वं सर्गस्य कीदृशं वद सुन्दरि ।
कीदृशं कृत्रिमत्वं स्याद् यथावत् कथयेति मे ॥

3.18.16

यथाहम् इह तिष्ठामि त्वं च देवि स्थिताम्बिके ।
असाव् अकृत्रिमस् सर्ग इति देवेशि वेद्म्य् अहम् ॥

3.18.17

यत्राधुना स भर्ता मे स्थितस् सर्गस् स कृत्रिमः ।
अहं मन्ये यतश् शून्यो देशकालाद्यपूरकः ॥

3.18.18

कृत्रिमो ऽकृत्रिमात् सर्गो न कदाचन जायते ।
न हि कारणतः कार्यम् उदेत्य् असदृशं क्वचित् ॥

3.18.19

दृश्यते कारणात् कार्यं सुविलक्षणम् अम्बिके ।
अम्ब्व् आदातुम् अशक्ता मृद् घटस् तज्जस् तदास्पदम् ॥

3.18.20

सम्पद्यते हि यत् कार्यं कारणैस् सहकारिभिः ।
मुख्यकारणवैचित्र्यं किञ्चित् तस्यावलोक्यते ॥

3.18.21

न च त्वद्भर्तृसर्गस्य किञ्चित् पृथ्व्यादि कारणम् ।
न भूमण्डलतो भूमिर् जाता तत्र वरानने ॥

3.18.22

गता चिद् इत उड्डीय कुतस् स्याद् इहभूतलम् ।
सहकारीणि कान्य् एव कारणान्य् अत्र कारणम् ॥

3.18.23

कारणानाम् अभावे ऽपि यद् एति सहकारिणाम् ।
तत् पूर्वकारणान् नान्यत् सर्वेणेत्य् अनुभूयते ॥

3.18.24

स्मृतिस् सा देवि मद्भर्तुस् तथा स्फारत्वम् आगता ।
स्मृतेश् च कारणं वेद्मि सर्गो ऽयम् इति निश्चयः ॥

3.18.25

स्मृतिर् आकाशरूपैव यथा तज्जस् तथैव ते ।
भर्तृसर्गो ऽनुभूतो हि स खम् एव तथाबले ॥

3.18.26

स्मृत्याकाशमयस् सर्गो यथा भर्तुर् ममोदितः ।
तथैवेमम् अहं मन्ये स सर्गो ऽत्र निदर्शनम् ॥

3.18.27

एवम् एतद् असत्सर्गो भर्तुस् ते भाति भासुरः ।
तथैवायम् इहाभाति पश्याम्य् एतद् अहं सुते ॥

3.18.28

यथा पत्युर् अमूर्तो ऽस्मात् सर्गात् सर्गो भ्रमात्मकः ।
जातस् तथायं वद मे जगत्कुड्यनिवृत्तये ॥

3.18.29

प्राक्स्मृतिर् भ्रान्तिमात्रात्मा सर्गो ऽयम् उदितो यथा ।
स्वप्नभ्रमात्मको भाति तथेदं कथ्यते शृणु ॥

3.18.30

अस्ति कश्चिच् चिदाकाशे क्वचित् संसारमण्डपः ।
आकाशकाचदलवच् छादनाच्छादनाकृतिः ॥

3.18.31

मेरुस्तम्भस्थलोकेशपुरश्रीसालभञ्जिकः ।
चतुर्दशापवरकस् त्रिगर्तो भानुदीपकः ॥

3.18.32

कोणस्थभूतवल्मीकव्याप्तपर्वतलोष्टकः ।
अनेकपुत्रजरढप्रजेशब्राह्मणास्पदम् ॥

3.18.33

ऋक्षौघकोशकाराढ्यव्योमोर्ध्वतलकालिमा ।
नभोनिवासिसिद्धौघमषकाहितघुङ्घुमः ॥

3.18.34

पयोदगृहधूमोग्रजालावलितकोणकः ।
वातमार्गमहावंशस्थितवैमानिकक्रिमिः ॥

3.18.35

सुरासुरादिदुर्बाललीलाकलकलाकुलः ।
लोकान्तरपुरग्रामभाण्डोपस्करनिर्भरः ॥

3.18.36

सरित्स्रोतोऽब्धिसरसीजलोक्षितमहीतलः ।
पातालभूतलस्वर्गाभोगभासुरकोटरः ॥

3.18.37

तत्र कस्मिंश्चिद् एकस्मिन् कोणापवरकोदरे ।
शैललोष्टतले ऽस्त्य् एको गिरिग्रामकगर्तकः ॥

3.18.38

अस्मिन् नदीशैलवनोपगूढे साग्निस् सदारस् सुतवान् अरोगः ।
गोक्षीरवान् राजभयाद् विमुक्तः सर्वातिथिर् धर्मपरो द्विजो ऽभूत् ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc