मोक्षोपाय · अध्याय 3.17
शवीभूतम् इमं वत्से भर्तारं पुष्पकम्बलैः ।
आच्छाद्य स्थापयेह त्वं पुनर् एनम् अवाप्स्यसि ॥
पुष्पाणि म्लानिम् एष्यन्ति नो न चैष विनङ्क्ष्यति ।
भूयश् च तव भर्तायम् अचिरेण भविष्यति ॥
एतदीयश् च जीवो ऽसाव् आकाशविशदस् तव ।
न निर्गमिष्यति क्षिप्रम् अप्य् अन्तःपुरमण्डपात् ॥
षट्पदश्रेणिनयना समाकर्ण्येति बन्धुभिः ।
सा समाश्वासितागत्य पयोभिर् इव पद्मिनी ॥
पतिं संस्थाप्य तत्रैव पुष्पपूरप्रगोपितम् ।
किञ्चिद् आश्वासितातिष्ठत् कृपणेव निधानिनी ॥
तस्मिन्न् एव दिने सैका तस्मिञ् शुद्धान्तमण्डपे ।
अर्धरात्रं परिजने सर्वस्मिन् निद्रया हृते ॥
ज्ञप्तिं भगवतीं देवीं शुद्धज्ञानमहाधिया ।
दुःखाद् आह्वाययाम् आस सोवच समुपेत्य ताम् ॥
किं स्मृतास्मि त्वया वत्से धत्से किम् इति शोकिताम् ।
संसारे भ्रान्तयो भान्ति मृगतृष्णाम्बुवन् मुधा ॥
क्व ममाम्ब स्थितो भर्ता किं करोत्य् अथ कीदृशः ।
समीपं नय मां तस्य नैका शक्नोमि जीवितुम् ॥
चित्ताकाशं चिदाकाशम् आकाशं च तृतीयकम् ।
तेभ्यश् शून्यतमं विद्धि चिदाकाशं वरानने ॥
शून्यम् एवेदम् अखिलं जगत् तत्र व्यवस्थितम् ।
अहं त्वम् इति दृश्यात्म नानानानैव निर्वपुः ॥
अभित्तिमयम् एवेदं कल्पनारूपितं जगत् ।
ज्ञप्तिभामात्रकं देशतुलापूरणवर्जितम् ॥
तच् चिदाकाशकोशात्मा चिदाकाशैक्यभावनात् ।
अविद्यमानम् अप्य् आशु दृश्यते ऽथानुभूयते ॥
देशाद् देशान्तरप्राप्तौ संविदो मध्यम् एव यत् ।
निमेषेण चिदाकाशं तद् विद्धि वरवर्णिनि ॥
तस्मिन् निरस्तनिश्शेषसङ्कल्पस्थितिम् एषि चेत् ।
सर्वात्मकपदं तत् तद् दृष्ट्वा प्राप्नोष्य् असंशयम् ॥
अत्यन्ताभावसंवित्त्या जगतस् त्व् एतद् आप्यते ।
नान्यथा मद्वरेणाशु त्वं तु प्राप्स्यसि सुन्दरि ॥
इत्य् उक्त्वा सा ययौ देवी दिव्यम् आत्मीयम् आस्पदम् ।
लीला तु लीलयैवासीन् निर्विकल्पसमाधिभाक् ॥
तत् तत्याज निमेषेण सान्तःकरणपञ्जरम् ।
स्वदेहं खम् इवोड्डीना निजनीडं विहङ्गमी ॥
ददर्श च स्वभर्तारं तस्मिन्न् एवालयाम्बरे ।
संस्थितं पृथिवीपालम् आस्थाने बहुराजके ॥
सिंहासनसमारूढं जय जीवेति संस्तुतम् ।
प्रस्तुतं मण्डलानेककार्यम् आहर्तुम् आदृतम् ॥
पताकामञ्जरीकीर्णराजधानीगृहस्थितम् ।
पूर्वद्वारस्थितासङ्ख्यमुनिविप्रर्षिमण्डलम् ॥
दक्षिणद्वारगासङ्ख्यललनालोकमण्डलम् ।
पश्चिमद्वारगासङ्ख्यराजराजेशमण्डलम् ॥
उत्तरद्वारगासङ्ख्यरथहस्त्यश्वसङ्कुलम् ।
एकभृत्यविनिर्णीतदक्षिणापथविग्रहम् ॥
कर्णाटनाथरचितपूर्वदेशक्रियाक्रमम् ।
सुराष्ट्राधिपनिर्णीतसर्वम्लेच्छोत्तरापथम् ॥
मालवेशसमाक्रान्तसर्वपाश्चात्यतङ्गणम् ।
दक्षिणाब्धितटायातलङ्कादूतविनोदितम् ॥
पूर्वाब्धितटमाहेन्द्रसिद्धोक्तगगनापगम् ।
उत्तराब्धितटायातदूतवर्णितगुह्यकम् ॥
पश्चिमाब्धितटीलोकवर्णितास्तमयक्रमम् ।
असङ्ख्यबद्धभूपालकराकीर्णाखिलाजिरम् ॥
यज्ञवाटपठद्विप्रजिततूर्योग्रनिस्स्वनम् ।
वन्दिकोलाहलोल्लासप्रतिश्रुद्घनकन्दरम् ॥
गेयवाद्योद्यतध्वानप्रध्वनद्गगनान्तरम् ।
हयहस्तिरथावारिरजोमेघघनाम्बरम् ॥
पुष्पकर्पूरधूमोत्थगन्धामोदितपर्वतम् ।
सर्वमण्डलसम्भाररचितानेकशासनम् ॥
यशःकर्पूरजलधिसुशुक्लाम्बरपर्षदम् ।
रोदसीस्तम्भभूतैकस्वप्रभावजितार्ककम् ॥
आरम्भमन्थरोदारकार्यसंव्यग्रभूमिपम् ।
नानानगरनिर्माणसोद्योगस्थपतीश्वरम् ॥
पपाताथ महारम्भां सा तां नरपतेस् सभाम् ।
व्योमात्मिका व्योममयीं मिहिकेवाम्बराटवीम् ॥
भ्रमन्तीं तत्र ताम् अग्रे ददृशुस् ते न केचन ।
अन्यसङ्कल्परचितां पुरुषाः कामिनीम् इव ॥
तथा ते तां न ददृशुस् सञ्चरन्तीं पुरोगताम् ।
अन्यसङ्कल्परचितां मध्ये स्वनगरीं यथा ॥
प्राक्तनान् एव तान् सर्वान् सा ददर्श पुरोगतान् ।
भूभृतैव समं प्राप्तान् नगरान् नगरान्तरम् ॥
तद्वेशांस् तन्मयाचारांस् तथा तान् एव बालकान् ।
ता एव बालवनितास् तांस् तान् एव च मन्त्रिणः ॥
तान् एव भुवि भूपालांस् तांस् तान् एव च पण्डितान् ।
तान् एव नर्मसचिवान् भृत्यांस् तान् एव तादृशान् ॥
अथान्यान् अन्यपूर्वांश् च पण्डितान् सुहृदस् तथा ।
व्यवहारांस् तथा चान्यान् पौरान् अन्यांस् तथैव च ॥
मध्याह्नकालं दिवसं घनघर्माकुला दिशः ।
अन्तरिक्षं सचन्द्रार्कं साम्भोदपवनध्वनि ॥
महीं ह्रदनदीशैलपुरपत्तनमण्डिताम् ।
नानानगरविन्यासजङ्गलग्रामसङ्कुलाम् ॥
द्विर् अष्टवर्षं भूपालं प्राक्तन्या जरसोज्झितम् ।
प्राक्तनीं जनतां सर्वां समस्तान् ग्रामवासिनः ॥
सा तान् आलोक्य ललना चिन्तापरवशाभवत् ।
ते ऽस्मिन् नगरवास्तव्याः कष्टं सर्वे मृता इति ॥
पुनःप्रज्ञप्तिबोधेन प्राक्तनान्तःपुरान्तरम् ।
आजगाम ददर्शात्र सार्धरात्रं तथैव तत् ॥
शवरूपं स्वभर्तारं पुष्पसम्भारगोपितम् ।
निद्राकुलं परिजनसन्निवेशं तथैव तम् ॥
अथ सोत्थापयाम् आस निद्राक्रान्तं सखीजनम् ।
आह चातीव मे दुःखम् आस्थानं दीयताम् इति ॥
भर्तुस् सिंहासनस्यास्य पार्श्वे तिष्ठाम्य् अहं यदि ।
पश्यन्ती सभ्यसङ्घातं तत् प्रजीवामि नान्यथा ॥
स राजपरिवारो ऽथ तयेत्य् उक्तो यथाक्रमम् ।
आसीद् अनिद्रस् सुव्यग्रस् सर्वस् सर्वस्वकर्मसु ॥
पौरान् सभ्यान् समानेतुं ययुर् याष्टीकपङ्क्तयः ।
व्यवहारं कलयितुम् उर्वीम् अर्ककरा इव ॥
आस्थानभूमिं भृत्याश् च मार्जयाम् आसुर् आदृताः ।
प्रावृट्पयोदमलिनं खं शरद्वासरा इव ॥
अङ्गनं प्रति दीपौघास् तस्थुः पीततमोऽम्भसः ।
आश्चार्यदर्शनायेव प्राप्ता नक्षत्रपङ्क्तयः ॥
जनताः पूरयाम् आसुः पूरैर् अजिरभूमिकाः ।
अब्धीन् प्रलयसंशुष्कान् पुरासर्गे इवाम्भसा ॥
आजग्मुर् मन्त्रिसामन्तास् स्वं स्वं स्थानम् अनिन्दिताः ।
त्रैलोक्ये पुनर् उत्पन्ने लोकपाला यथा दिशः ॥
ववुर् आकीर्णकर्पूरसान्द्रा मलयशीतलाः ।
उत्फुल्लकुसुमोद्वान्तमांसलामोदिनो ऽनिलाः ॥
पर्यन्तेषु प्रतीहारास् तस्थुर् धवलवाससः ।
वृष्टमूकार्कतापान्तमेघमाला इवाद्रिषु ॥
प्रभापीततमःपुञ्जाः पेतुः पुष्पोत्करा भुवि ।
मेघमारुतविध्वस्तास् तारकानिकरा इव ॥
आस्थानं पूरयाम् आसुर् महीपालानुयायिनः ।
उत्फुल्लकमलाकीर्णं हंसा इव सरोवरम् ॥
सिंहासनसमीपस्थे हैमवेत्रासने शुभे ।
उपाविशद् असौ लीला लीलेव स्मरचेतसि ॥
ददर्श तान् नृपान् भृत्यान् सर्वान् एव यथास्थितान् ।
गुरून् आर्यान् सखीन् भृत्यान् सुहृत्सम्बन्धिबान्धवान् ॥
सकलम् एव हि पूर्ववद् एव सा समवलोक्य मुदं परमां ययौ ।
नृपतिराष्ट्रजनः खलु जीवतीत्य् उदितया च बभौ शशिवच् छ्रिया ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0