मोक्षोपाय · अध्याय 3.16
भूतलाप्सरसा सार्धम् अनन्यवनितापतिः ।
अकृत्रिमप्रेमरसं स रेमे कान्तया तया ॥
उद्यानवनगुल्मेषु तमालगहनेषु च ।
पुष्पमण्डपतल्पेषु लतावलयसद्मसु ॥
पुष्पान्तःपुरशय्यासु पुष्पसम्भारवीथिषु ।
वसन्तोद्यानदोलासु क्रीडापुष्करिणीषु च ॥
चन्दनद्रुमषण्डेषु सन्तानकतलेषु च ।
कदम्बनिम्बगेहेषु पारिभद्रोदरेषु च ॥
शैलकन्दरकच्छेषु वातायनपुरेषु च ।
सरित्तटकटप्रेषु वारणोपरिसद्मसु ॥
ग्रीष्मे तुषारहर्म्येषु लतामण्डपकेषु च ।
हेममन्दिरवृक्षेषु मुक्तामाणिक्यभित्तिषु ॥
विकसत्कुन्दमन्दारमकरन्दसुगन्धिषु ।
वसन्तवनजालेषु कूजत्कोकिलमालिषु ॥
नानारत्नतृणानां च स्थलेषु मृदुदीप्तिषु ।
निर्झरेषु तरत्तारशीकरासारवर्षिषु ॥
शैलानां हेममाणिक्यशिलाफलहकेषु च ।
देवर्षिमुनिगेहेषु दूरपुण्याश्रमेषु च ॥
कुमुद्वतीषु फुल्लासु स्मेरासु नलिनीषु च ।
वनस्थलीषु फुल्लासु फुल्लासूत्पलिनीषु च ॥
प्रहेलिकाभिर् आख्यानैस् तथैवाक्षरमुष्टिभिः ।
अष्टापदैर् बहूद्द्योतैस् तथा गूढचतुर्थकैः ॥
नाटकाख्यायिकाभिश् च श्लोकैर् बिन्दुमतीभ्रमैः ।
देशभाषाविभागैश् च नगरग्रामचेष्टितैः ॥
स्रग्दाममाल्यवलनैर् नानाभरणयोजनैः ।
लीलाविलोलचलनैर् विचित्ररसभाजनैः ॥
आर्द्रक्रमुककर्पूरताम्बूलीदलचर्वणैः ।
समालम्भनलीलाभिर् दोलारोहणविभ्रमैः ॥
गृहे कुसुमदोलाभिर् अन्योऽन्यान्दोलनक्रमैः ।
फुल्लपुष्पलताकुञ्जदेहगोपनखर्वणैः ॥
नौयानयुग्यहस्त्यश्वदान्तोष्ट्रादिगमागमैः ।
जलकेलिविलासेन परस्परसमुक्षणैः ॥
नृत्तगीतकलालास्यताण्डवोद्भटवृत्तिभिः ।
सङ्गीतकैस् सङ्कथनैर् वीणामुरजवादनैः ॥
उद्यानेषु सरित्तीरवृक्षेषु वनवीथिषु ।
अन्तःपुरेषु हर्म्येषु तेषु तेषु तथा तथा ॥
सा बाला सुखसंवृद्धा तस्य प्रणयिनी प्रिया ।
एकदा चिन्तयाम् आस शुभसङ्कल्पशालिनी ॥
प्राणेभ्यो ऽपि प्रियो भर्ता ममैष जगतीपतिः ।
यौवनोल्लासलक्ष्मीवान् कथं स्याद् अजरामरः ॥
भर्त्रानेन सहोत्तुङ्गस्तनी कुसुमसद्मसु ।
कथं स्वैरं चिरं कान्ता रमेयाब्दशतान्य् अहम् ॥
तथा यतेय क्रमतस् तपोजपयमेहितैः ।
रजनीशरुची राजा यथा स्याद् अजरामरः ॥
ज्ञानवृद्धांस् तपोवृद्धान् विद्यावृद्धान् अहं द्विजान् ।
पृच्छामि तावन् मरणं कथं न स्यान् नृणाम् इति ॥
अथानाय्याशु सम्पूज्य द्विजान् पप्रच्छ सानता ।
अमरत्वं कथं विप्रा भवेद् इति पुनः पुनः ॥
तपोजपयमैर् देवि समस्तास् सिद्धसिद्धयः ।
सम्प्राप्यन्ते ऽमरत्वं तु न कदाचन लभ्यते ॥
इत्य् आकर्ण्य द्विजमुखाच् चिन्तयाम् आस सा पुनः ।
इदं स्वप्रज्ञयैवाशु भीता प्रियवियोगतः ॥
मरणं भर्तुर् अग्रे मे यदि दैवाद् भविष्यति ।
तत् सर्वदुःखनिर्मुक्ता संस्थास्ये सुखम् आत्मनि ॥
अथ वर्षसहस्रेण भर्तादौ चेन् मरिष्यति ।
तत् करिष्ये तथा येन जीवो गेहान् न यास्यति ॥
उद्भ्रमद्भर्तृजीवे ऽस्मिन् निजे शुद्धान्तमण्डपे ।
भर्त्रावलोकिता नित्यं निवत्स्यामि यथासुखम् ॥
अद्यैवारभ्यैतदर्थं देवीं ज्ञप्तिं सरस्वतीम् ।
जपोपवासनियमैर् आतोषं पूजयाम्य् अहम् ॥
इति निश्चित्य सा नाथम् अनुक्त्वैव वराङ्गना ।
यथाशास्त्रं चचारोग्रं तपो नियमम् आस्थिता ॥
त्रिरात्रस्य त्रिरात्रस्य पर्यन्ते कृतपारणा ।
देवद्विजगुरुप्राज्ञविद्वत्पूजापरायणा ॥
स्नानदानतपोध्याननित्योद्युक्तशरीरिका ।
सर्वास्तिक्यसदाचारकारिणी क्लेशभारिणी ॥
यथाकालं यथोद्योगं यथाशास्त्रं यथाक्रमम् ।
तोषयाम् आस भर्तारम् अपरिज्ञाततत्स्थितिम् ॥
त्रिरात्रशतम् एवं सा बाला नियमशालिनी ।
अनारततपोनिष्ठम् अतिष्ठत् कष्टचेष्टया ॥
त्रिरात्राणां शतेनाथ पूजिता प्रतिमाम् इता ।
तुष्टा भगवती गौरी वागीशीदम् उवाच ताम् ॥
निरन्तरेण तपसा भर्तृभक्त्यतिशायिना ।
परितुष्टास्मि ते वत्से गृहाण वरम् ईप्सितम् ॥
जय जन्मजराज्वालादाहदोषशशिप्रभे ।
जय हार्दान्धकारौघनिवारणरविप्रभे ॥
अम्ब मां त्रिजगन्मातस् त्रायस्व कृपणाम् इमाम् ।
इदं वरद्वयं देहि यद् इह प्रार्थये शुभम् ॥
एकं तावद् विदेहस्य भर्तुर् जीवो ममाम्बिके ।
अस्माद् एव हि मा यासीन् निजान्तःपुरमण्डपात् ॥
द्वितीयं त्वां महादेवि प्रार्थये ऽहं यदा यदा ।
दर्शनाय वरार्थेन तदा मे देहि दर्शनम् ॥
इत्य् आकर्ण्य जगन्माता तथास्त्व् एवम् इति क्षणात् ।
उक्त्वान्तर्धानम् अगमद् उत्थायोर्मिर् इवार्णवे ॥
अथ सा राजमहिषी परितुष्टेष्टदेवता ।
श्रुतगीतेव हरिणी बभूवानन्दधारिणी ॥
परावृत्त्युग्रकटके दिनारे वर्षदण्डके ।
क्षणनाभौ स्पन्दमये कालचक्रे वहत्य् अपि ॥
अन्तर्धिम् आजगामास्याः पत्युस् तच् चेतनं तनौ ।
सन्दृश्यमान एवाशु शुष्कपर्णे रसो यथा ॥
रणखण्डितदेहे ऽस्मिन् मृते ऽन्तःपुरमण्डपे ।
निर्जला नलिनीवासौ परां म्लानिम् उपाययौ ॥
विषोष्णश्वसनस्तब्धसकलाधरपल्लवा ।
प्राप सा मरणावस्थां मलयाधित्यकाम् इव ॥
प्राप सा तमसान्धत्वं तस्मिन् मरणम् आगते ।
दीपज्वालालवे क्षीणे सद्मश्रीर् इव भूषिता ॥
कार्श्यम् आप क्षणेनासौ बाला विरसतां गता ।
यथा स्रोतस्विनी स्रोतःक्षये क्षामविधूसरा ॥
क्षिप्रम् आक्रन्दिनी क्षिप्रं मौनासक्ता वियोगिनी ।
बभूव चक्रवाकीव मानिनी मरणोन्मुखी ॥
अथ ताम् अतिमात्रविह्वलां सकृद् आकाशभवा सरस्वती ।
शफरीं ह्रदशोषविह्वलां प्रथमा वृष्टिर् इवान्वकम्पत ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0