मोक्षोपाय · अध्याय 3.139
भगवन् भृगुपुत्रस्य प्रतिभा सानुभूतितः ।
यथास्य सफला जाता तथान्यस्य न किं भवेत् ॥
इदम्प्रथमम् उत्पन्ना सा तदा ब्रह्मणः पदात् ।
शुद्धा मतिर् भार्गवस्य नान्यजन्मकलङ्किता ॥
सर्वैषणानां संशान्तौ शुद्धा चित्तस्य या स्थितिः ।
तत् सत्त्वम् उच्यते सैषा विमला चिद् उदाहृता ॥
मनो निर्मलसत्त्वात्म यद् भावयति यादृशम् ।
तत् तथाशु भवत्य् एव यथावर्तो ऽर्णवे ऽम्भसः ॥
यथा भृगुसुतस्यैष विभ्रमः प्रोदितस् स्वयम् ।
प्रत्येकम् अप्य् एवम् एव दृष्टान्तो ऽत्र भृगोस् सुतः ॥
बीजस्याङ्कुरपत्त्रादि स्वं चमत्कुरुते यथा ।
सर्वेषां भूतसङ्घानां भ्रमषण्डस् तथैव हि ॥
यद् इदं दृश्यते विश्वम् एवम् एवाखिलं हि तत् ।
प्रत्येकम् उदितं मिथ्या मिथ्यैवास्तम् उपैति च ॥
नास्तम् एति न चोदेति जगत् किञ्चन कस्यचित् ।
भ्रान्तिमात्रम् इदं माया मुधैव परिजृम्भते ॥
यथास्मत्प्रतिभासस्थस् सो ऽयं संसारषण्डकः ।
तथा तेषां सहस्राणि मिथो ऽदृष्टानि सन्ति हि ॥
स्वप्नसङ्कल्पनगरव्यवहाराः परस्परम् ।
पृथग् यथा न दृश्यन्ते तथैते संसृतिभ्रमाः ॥
एवं नगरवृन्दानि नभस्सङ्कल्परूपिणाम् ।
सन्ति तानि न दृश्यन्ते मिथो ज्ञानदृशं विना ॥
पिशाचयक्षरक्षांसि सन्त्य् एवंरूपकाणि हि ।
सङ्कल्पमात्रदेहानि सुखदुःखमयानि च ॥
एवम् एव वयं चेमे सम्पन्ना रघुनन्दन ।
स्वसङ्कल्पात्मकाकारा मिथ्यासत्यत्वभाविताः ॥
एवंरूपैव हि परे वर्तते सर्गसंसृतिः ।
न वास्तवी वस्तुतस् तु संस्थितेयम् अवस्तुनि ॥
प्रत्येकम् उदितं विश्वम् एवम् एव मुधैव हि ।
नवगुल्मकरूपेण वासन्तिकरसो यथा ॥
प्रथमो ऽयं स्वसङ्कल्पस् सुप्रथाम् आगतस् तथा ।
यथातिपारमार्थ्येन दृढेनेत्थं विभाव्यते ॥
प्रत्येकम् उदितं चित्तं स्वस्वभावोदरस्थितम् ।
इदम् इत्थंसमारम्भं जगत् पश्यद् विनश्यति ॥
प्रतिभासवशाद् अस्ति नास्ति वस्त्ववलोकनात् ।
दीर्घस् स्वप्नो जगज्जालम् आलानं चित्तदन्तिनः ॥
चित्तसत्तैव हि जगज् जगत्सत्तैव चित्तकम् ।
एकाभावे द्वयोर् नाशस् तच् च सत्यविचारणात् ॥
शुद्धस्य प्रतिभासो हि सत्यो भवति चेतसः ।
निष्कलङ्के हि लगति पटे कुङ्कुमरञ्जना ॥
अन्येनानाहृतस्यान्यो गुणो ऽवश्यं विवर्धते ।
अनाक्रान्तस्य सङ्कल्पैः प्रतिभोदेति चेतसः ॥
सुवर्णो न स्थितिं याति मलवत्य् अंशुके यथा ।
एका दृष्टिस् स्थितिं याति न म्लाने चित्तके तथा ॥
प्रमार्जनाद् इव मणेस् ताम्रस्येव च युक्तितः ।
चिरम् एकदृढाभ्यासाच् छुद्धिर् भवति चेतसः ॥
प्रतिभासात्मनि जगत्य् एते कालक्रियाक्रमाः ।
सोदयास्तमया जाताः कथं शुक्रस्य चेतसः ॥
यादृग् जगद् इदं दृष्टं शुक्रेण पितृमातृतः ।
तादृक् तस्य स्थितं चित्ते मयूराण्डे मयूरवत् ॥
स्वभावकोशात् स्वदितं तद् अनेन क्रमोदितम् ।
बीजेनाङ्कुरपत्त्रादिलतापुष्पफलं यथा ॥
जीवो यद्वासनासारस् तद् एवान्तः प्रपश्यति ।
स्वप्न एवात्र दृष्टान्तो दीर्घस्वप्नस् त्व् इदं जगत् ॥
प्रत्येकम् उदितो राम ननु संसारषण्डकः ।
रात्रौ सैन्यनरस्वप्नजालवत् स्वात्मनि स्फुटः ॥
एष संसृतिषण्डौघो मिथस् सम्मिलति स्वयम् ।
नो वापि यदि तन् मे त्वं यथावद् वक्तुम् अर्हसि ॥
मलिनं हि मनो ऽवीर्यं न मिथश् श्लेषम् अर्हति ।
अयो ऽयसीवासन्तप्ते शुद्धे तप्ते तु लीयते ॥
चित्ततत्त्वानि शुद्धानि सम्मिलन्ति परस्परम् ।
एकरूपाणि तोयानि यान्त्य् ऐक्यं नाबिलानि हि ॥
शुद्धिर् हि चित्तस्य विवासनत्वम् अभूतसंवेदनरूपम् एकम् ।
तस्यास् सुषुप्तात्मपदात् प्रबुध्य तन्मात्रयुक्त्या परसङ्गम् एति ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0