मोक्षोपाय · अध्याय 3.138
अथाक्षिप्य वचस् तस्य तनयस्य तदा भृगोः ।
उवाच भगवान् कालो वचो गम्भीरनिस्स्वनम् ॥
समङ्गातापसीम् एतां तनुं सन्त्यज्य भार्गव ।
प्रविशेमां तनुं साधो नगरीम् इव पार्थिवः ॥
काले पूर्वजया तन्वा तपः कृत्वानया पुनः ।
गुरुत्वम् असुरेन्द्राणां कर्तव्यं भवतानघ ॥
महाकल्पान्त आयाते भवता भार्गवी तनुः ।
अपुनर्ग्रहणायैषा त्याज्या प्रम्लानपुष्पवत् ॥
जीवन्मुक्तपदं प्राप्तस् तन्वा प्राक्तनरूपया ।
महासुरेन्द्रगुरुतां कुर्वंस् तिष्ठ महामते ॥
कल्याणम् अस्तु वां यामो वयं त्व् अभिमतां दिशम् ।
न किञ्चिद् अपि तच् चित्तं यस्य नाभिमतं भवेत् ॥
इत्य् उक्त्वा मुञ्चतोः पुष्पं तयोस् सो ऽन्तरधीयत ।
तप्तांशुर् इव रोदस्योस् समम् अंशुभिर् अंशुमान् ॥
गते तस्मिन् भगवति ताम् उक्त्वा भवितव्यताम् ।
विचार्य भार्गवो ऽभेद्यां नियतां नियतेर् गतिम् ॥
कालकारणसंशुष्कां भाविपुष्पफलोदयाम् ।
विवेश तां तनुं बालां सुलताम् इव माधवः ॥
सा ब्राह्मणतनुर् भूमौ विवर्णवदनाङ्गिका ।
पपात कम्पिता तूर्णं छिन्नमूला लता यथा ॥
तस्यां प्रविष्टजीवायां पुत्रतन्वां महामुनिः ।
चकाराप्यायनं मन्त्रैस् सकमण्डलुवारिभिः ॥
सर्वनाड्यस् ततस् तन्व्यास् तस्याः पूर्णा विरेजिरे ।
सरितः प्रावृषीवाम्बुपूरपूरितकोटराः ॥
नलिनी प्रावृषीवासौ मधाव् इव नवा लता ।
यदा पूर्णा तदा तस्याः प्राणाः पल्लविता बभुः ॥
अथ शुक्रस् समुत्तस्थौ वहत्प्राणसमीरणः ।
रसमारुतसंयोगाद् आपूर्ण इव वारिदः ॥
पुरो ऽभिवादयाम् आस पितरं पावनाकृतिः ।
प्रथमोल्लासितो मेघस् स्तनितेनेव पर्वतम् ॥
पिताथ प्राक्तनीं तस्याप्य् आलिलिङ्ग तनुं ततः ।
स्नेहार्द्रवृत्तिर् जलदश् चिराद् गिरितटीम् इव ॥
भृगुर् ददर्श सस्नेहं प्राक्तनीं तानयीं तनुम् ।
मत्तो जातो ऽयम् इत्य् आस्था हरत्य् अपि महामतिम् ॥
मत्पुत्रो ऽयम् इति स्नेहो भृगुम् अप्य् अहरत् तदा ।
परतात्मीयता चेयं यावदाकृति भाविनी ॥
बभूवतुः पितापुत्रौ ताव् अथान्योऽन्यशोभितौ ।
निशावसानमुदिताव् अर्कपद्माकराव् इव ॥
चिरसङ्गमसम्बद्धाव् इव चक्राह्वदम्पती ।
घनागमघनस्नेहौ मयूरजलदाव् इव ॥
चिरकालदृढोत्कण्ठयोग्यया कथया तया ।
स्थित्वा तत्र मुहूर्तं ताव् अथोत्थाय महामती ॥
समङ्गाद्विजदेहं तं भस्मसात् तत्र चक्रतुः ।
को हि नाम जगज्जात आचारं नानुतिष्ठति ॥
एवं तौ कानने तस्मिन् पावने भृगुभार्गवौ ।
संस्थितौ तपसा दीप्तौ दिवीव शशिभास्करौ ॥
चेरतुर् ज्ञातविज्ञेयौ जीवन्मुक्तौ जगद्गुरू ।
देशकालदशौघेषु सुगमं सुस्थिरं तपः ॥
अथासुरगुरुत्वं स शुक्रः कालेन लब्धवान् ।
भृगुर् अप्य् आत्मनो योग्ये पदे ऽतिष्ठद् अनामये ॥
शुक्रो ऽसौ प्रथमम् इति क्रमेण जात एतस्मात् परमपदाद् उदारकीर्तिः ।
स्वेनाशु स्मृतिपदविभ्रमेण पश्चाद् एवं च प्रविलुलितो दशान्तरेषु ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0