भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 3.130

3.130.1

इति चित्तविलासेन चिरम् उत्प्रेक्षितैः प्रियैः ।
प्रणयैर् भार्गवस्यासीत् तुष्टये ससमागमः ॥

3.130.2

मन्दारदामाकुलया वैबुधासवमत्तया ।
तदा तेन तया सार्धं द्वितीयेनामलेन्दुना ॥

3.130.3

विहृतं मत्तहंसासु हेमपङ्कजिनीषु च ।
तटेष्व् अमरवाहिन्यास् सह किन्नरचारणैः ॥

3.130.4

पीतम् इन्दुदलस्यन्दि देवैस् सह रसायनम् ।
पारिजातलताजालनिलयेषु विलासिना ॥

3.130.5

चारुचैत्ररथोद्यानलतादोलासु लीलया ।
चिरं विलसितं व्यग्रैस् सह विद्याधरीगणैः ॥

3.130.6

नन्दनोपवनाभोगो मन्दरेणेव वारिधिः ।
भृशम् उल्लोलतां नीतः प्रमथैस् सह शाम्भवैः ॥

3.130.7

बालहेमलताजालजटिलासु दरीषु च ।
भ्रान्तम् उन्मत्तरागेण मैरवीष्व् अब्जिनीष्व् इव ॥

3.130.8

कैलासवनकुञ्जेषु तया सह विलासिना ।
हारेन्दुधवला रात्रिः क्षपिता गणगीतिभिः ॥

3.130.9

गन्धमादनशैलस्य विश्रम्योपरि सानुषु ।
सा तेन कनकाम्भोजैर् आपादम् अभिमण्डिता ॥

3.130.10

लोकालोकतटान्तेषु विचित्राश्चर्यहारिषु ।
क्रीडितं कृतहासेन राम तेन तया सह ॥

3.130.11

मन्दरान्तरकच्छेषु सार्धं हरिणशावकैः ।
अवसत् स समाष् षष्टिं कल्पितामरमन्दिरः ॥

3.130.12

क्षीरार्णवतटेष्व् अस्य वनितासहचारिणः ।
क्षीणं कृतयुगाद् अर्धं श्वेतद्वीपजनैस् सह ॥

3.130.13

गन्धर्वनगरोद्यानलीलाविरचनैर् असौ ।
सृष्टानन्तजगत्सृष्टेः कालस्यानुकृतिं गतः ॥

3.130.14

अथावसद् असौ शुक्रः पुरन्दरपुरे पुनः ।
सुखं चतुर्युगान्य् अष्टौ हरिणेक्षणया सह ॥

3.130.15

पुण्यक्षयानुसन्धानात् ततश् चावनिमण्डले ।
तयैव सह मानिन्या पपातापहृताकृतिः ॥

3.130.16

परालूनसमस्ताङ्गो हृतस्यन्दननन्दनः ।
चिन्तापरवशो ध्वस्तस् समितीवाहतो भटः ॥

3.130.17

पतितस्यावनौ तस्य चिन्तया सह दीर्घया ।
शरीरं शतधा यातं शिलापातीव निर्झरः ॥

3.130.18

संशीर्णयोर् देहकयोश् चित्ते ते वासनावृते ।
विचेरतुस् तयोर् व्योम्नि निर्नीडौ विहगौ यथा ॥

3.130.19

तत्राविविशतुश् चान्द्रं ते चित्ते रश्मिजालकम् ।
प्रालेयताम् उपेत्याशु शालिताम् अथ जग्मतुः ॥

3.130.20

शालींस् तान् भुक्तवान् पक्वान् दशार्णेषु द्विजोत्तमः ।
शौक्राञ् शुक्राङ्गनागर्भान् मालवेषु च भूपतिः ॥

3.130.21

अजायतोशनाः पूर्वं दशार्णेषु द्विजोत्तमात् ।
नृपाद् उत्तमसौभाग्यान् मालवेषु तदङ्गना ॥

3.130.22

स तत्र ववृधे बालस् सा तत्र ववृधे ऽङ्गना ।
तौ पूर्वदम्पती जातौ स्वर्भ्रष्टाव् इव भूतले ॥

3.130.23

अथ षोडशवर्षो ऽभूच् छुक्रस् सारङ्गनामभृत् ।
पितुर् गृहे यौवनवाञ् श्रीमान् विप्रकुमारकः ॥

3.130.24

मालानामसुरस्त्री सा कुमारी राजसद्मनि ।
भृङ्गेक्षणा गता वृद्धिं लता वरवने यथा ॥

3.130.25

राजपुत्री ततो माला पूजयाम् आस शङ्करम् ।
लभेयं प्राक्तनं सिद्धं पतिम् इत्य् अनिशं शुभा ॥

3.130.26

अथ मालवभूपस्य यज्ञे द्विजसभागतम् ।
माला ददर्श सारङ्गं पित्रा सह समागतम् ॥

3.130.27

तं दृष्ट्वा सानवद्याङ्गी प्राक्तनस्नेहभाविता ।
दृष्टचन्द्रेन्दुमणिवत् स्नेहस्विन्नाङ्गिका बभौ ॥

3.130.28

ततो यज्ञसभामध्ये दाशार्णद्विजदारकम् ।
भर्तृत्वे वरयाम् आस सा माला मालवात्मजा ॥

3.130.29

क्रमात् कृतविवाहाय तस्मै वार्धकजर्जरः ।
मालवेशो ऽखिलं राज्यं प्रतिपाद्य वनं ययौ ॥

3.130.30

स सारङ्गस् तया सार्धं तस्मिन् मालवमण्डले ।
चकारातिसुखी राज्यं शक्रवच् छरदां शतम् ॥

3.130.31

अथ कालेन महता चञ्चलत्वाच् च चेतसः ।
अप्रियत्वं मिथो यातौ दम्पती तौ विधेर् वशात् ॥

3.130.32

सारङ्गस् तु जराजीर्णः पातसज्जकलेवरः ।
दध्रे श्वसनशैथिल्याज् जीर्णपर्णसवर्णताम् ॥

3.130.33

जायाजनविरागेण वार्धकातिशयेन च ।
मरणं मन्दमन्देहो निरीहो ऽभिननन्द सः ॥

3.130.34

अथ नीरसराज्यस्य दुःखातिशयशंसिनः ।
अरण्य इव वेतालो मोहो ऽतिघनतां गतः ॥

3.130.35

मोहान्धकूपपतितं भोगासङ्गाद् अनारतम् ।
अविवेकिनम् अज्ञानम् असज्जनपरायणम् ॥

3.130.36

जहारैनं ततो मृत्युस् तृष्णाकवलिताशयम् ।
पतङ्गम् इव मण्डूकः कृताक्रन्दम् अकिञ्चनम् ॥

3.130.37

ततः कर्मफलं भुक्त्वा स्वं परत्र शुभाशुभम् ।
अङ्गेषु धीवरो जातस् स दुर्भाववशात् तदा ॥

3.130.38

तत्र धीवरकर्माणि कुर्वन् स शरदां शतम् ।
दुःखजर्जरचेतस्त्वाद् वैराग्यं समुपाययौ ॥

3.130.39

दुःखं संसार इत्य् एवं चिन्तयन् भास्करं ततः ।
सम्पतंस् तेन सञ्जातस् सूर्यवंशे महानृपः ॥

3.130.40

शुभभाववशात् सो ऽथ किञ्चिज् ज्ञानम् अवाप्तवान् ।
जज्ञे नृपतनुं त्यक्त्वा गुरुस् सर्वोपदेशकः ॥

3.130.41

मन्त्रसाधितसिद्धिर् हि सो ऽथ विद्याधरो ऽभवत् ।
कल्पम् एकं तु बुभुजे ततो वैद्याधरीं पुरीम् ॥

3.130.42

कल्पावसानसमयं नीत्वा पवनरूपया ।
तन्वा सृष्टौ प्रवृत्तायां भूयो जातो मुनेस् सुतः ॥

3.130.43

ततो मुनीनां सम्पर्कात् तपस्य् उग्रे व्यवस्थितः ।
अवसन् मेरुगहने मन्वन्तरम् अनिन्दितः ॥

3.130.44

तत्र तस्य समुत्पन्नो मृग्याः पुत्रो नराकृतिः ।
तत्स्नेहेन परं मोहं पुनर् अभ्याययौ क्षणात् ॥

3.130.45

पुत्रस्यास्य धनं मे ऽस्तु गुणाश् चायुश् च शाश्वतम् ।
इत्य् अनारतचिन्ताभिर् जहौ सत्याम् अवस्थितिम् ॥

3.130.46

धर्मचिन्तापरिभ्रंशात् पुत्रार्थं भोगचिन्तनात् ।
क्षीणायुषं तम् अहरन् मृत्युस् सर्प इवानिलम् ॥

3.130.47

भोगैकचिन्तया सार्धं स समुत्क्रान्तचेतनः ।
प्राप्य मद्रेशपुत्रत्वम् आसीन् मद्रमहीपतिः ॥

3.130.48

मद्रदेशे चिरं कृत्वा राज्यम् उच्छिन्नशात्रवः ।
जराम् अभ्याजगामात्र हिमाशनिर् इवाम्बुजम् ॥

3.130.49

मद्रराजतनुं तां तु तपोवासनया सह ।
तत्याज तेन जातो ऽसौ तपस्वी तापसात्मजः ॥

3.130.50

समङ्गाया महानद्यास् तटम् आसाद्य तापसः ।
तपस् तेपे महाबुद्धिस् स राम विगतज्वरः ॥

3.130.51

विविधजन्मदशाविवशाशयस् समनुसृत्य शरीरपरम्पराम् ।
सुखम् अतिष्ठद् असौ भृगुनन्दनो वरनदीसुतटे दृढवृक्षवत् ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc