मोक्षोपाय · अध्याय 3.129
इति शुक्रः पुरं प्राप्य वैबुधं स्वेन चेतसा ।
विसस्मार निजं भावं प्राक्तनं व्यसनं विना ॥
मुहूर्तम् अथ विश्रम्य तस्य पार्श्वे शचीपतेः ।
स्वर्गं विहर्तुम् उत्तस्थौ स्वर्वासिपरिचोदितः ॥
स्वर्गश्रियं समालोक्य लोललोचनलाञ्छितम् ।
स्त्रैणं द्रष्टुं जगामासौ नलिनीम् इव सारसः ॥
तत्र तां मृगशावाक्षीं कान्ताम् अध्यागताम् असौ ।
ददर्श विपिनान्तस्स्थां भृङ्गश् चूतलताम् इव ॥
ताम् आलोक्य लसल्लोलविलासवलिताकृतिम् ।
आसीद् विलीयमानाङ्गो ज्योत्स्नयेन्दुमणिर् यथा ॥
विलीयमानसर्वाङ्गस् ताम् अवैक्षत कामिनीम् ।
चन्द्रकान्त इव ज्योत्स्नां शीतलां खे विलासिनीम् ॥
तेनावलोकिता सापि तत्परायणतां गता ।
निशान्ते चक्रवाकेन कान्तेव परिकूजिता ॥
रसाद् विकसतोर् नूनम् अन्योऽन्यम् अनुरक्तयोः ।
प्रातर् अर्कनलिन्योर् या शोभा सैव तयोर् अभूत् ॥
सङ्कल्पितार्थदायित्वाद् देशस्य मदनेन सा ।
सर्वाङ्गं विवशीकृत्य शुक्रायैव समर्पिता ॥
पेतुस् स्मरशरास् तस्या मृदुष्व् अङ्गेषु भूरिशः ।
पलाशेष्व् इव पद्मिन्या धारा नवपयोमुचः ॥
सा बभूव स्मराधूता लोलालिवलयालका ।
मन्दवातविनुन्नाया मञ्जर्यास् सहधर्मिणी ॥
नीलनीरजनेत्रां तां हंसवारणगामिनीम् ।
मदनः क्षोभयाम् आस पूरः कमलिनीम् इव ॥
अथ तां तादृशीं दृष्ट्वा शुक्रस् सङ्कल्पितार्थभाक् ।
तमस् सङ्कल्पयाम् आस संहारम् इव भूतकृत् ॥
त्रिविष्टपस्य देशो ऽसौ बभूव तिमिराकुलः ।
भूलोकस्यान्धतमसो लोकालोकतटो यथा ॥
लज्जान्धकारतीक्ष्णांशौ तस्मिंस् तिमिरमण्डले ।
प्रतिष्ठाम् आगते तस्य मिथुनस्येव मन्मथे ॥
तेषु सर्वेषु भूतेषु गतेष्व् अभिमतां दिशम् ।
तस्मात् प्रदेशाद् भूलोकं दिनान्ते विहगेष्व् इव ॥
सा दीर्घधवलापाङ्गा प्रवृद्धमदना तथा ।
आजगाम भृगोः पुत्रं मयूरी वारिदं यथा ॥
धवलागारमध्यस्थे पर्यङ्के परिकल्पिते ।
विवेश भार्गवस् तत्र क्षीरोद इव माधवः ॥
सा पादाव् अवलम्ब्यास्य विवशेव वरानना ।
रराज च सुरेभस्य पादलग्नेव पद्मिनी ॥
उवाच चेदं ललितं लसत्स्नेहोत्कया गिरा ।
वचो मधुरम् आनन्दि विलासवलिताक्षरम् ॥
पश्यामलेन्दुवदन मण्डलीकृतकार्मुकः ।
अबलाम् अनुबध्नाति माम् एष किमनङ्गकः ॥
पाहि माम् अबलां नाथ दीनां त्वच्छरणाम् इह ।
कृपणाश्वासनं साधो विद्धि सच्चरितव्रतम् ॥
स्नेहदृष्टिम् अजानद्भिर् मूढैर् एव महामते ।
प्रणया अवगण्यन्ते न रसज्ञैः कदाचन ॥
अशङ्कितोपसम्पन्नः प्रणयो ऽन्योऽन्यरक्तयोः ।
अधःकरोति निष्यन्दं चान्द्रम् आस्वादितं प्रिय ॥
न तथा सुखयत्य् एषा चेतस् त्रिभुवनेशता ।
यथा परस्परानन्दी स्नेहः प्रथमरक्तयोः ॥
त्वत्पादस्पर्शनेनेयं समाश्वस्तास्मि मानद ।
चन्द्रपादपरामृष्टा यथा निशि कुमुद्वती ॥
संस्पर्शामृतपानेन तव जीवामि सुन्दर ।
चन्द्रांशुरसपानेन चकोरी चपला यथा ॥
माम् इमां चरणालीनां भ्रमरीं करपल्लवैः ।
आलिङ्ग्यामृतसम्पूर्णे सत्पद्महृदये कुरु ॥
इत्य् उक्त्वा पुष्पमृद्वङ्गी सा तस्य पतितोरसि ।
व्याघूर्णितालिनयना सुतराव् इव मञ्जरी ॥
तौ दम्पती तत्र विलासकान्तौ विलेसतुस् तासु वनस्थलीषु ।
किञ्जल्कगौरानिलघूर्णितासु मत्तौ द्विरेफाव् इव पद्मिनीषु ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0