भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 3.13

3.13.1

परमे ब्रह्मणि स्फारे समे समसमस्थितौ ।
अनुत्पन्ननभस्तेजस्तमस्सत्तादिकात्मनि ॥

3.13.2

पूर्वं चेत्यत्वकलनं स्वचेत्यांशस्य चेतनात् ।
उदेति चित्त्वकलनं चितिशक्तित्वचेतनात् ॥

3.13.3

ततो जीवत्वकलनं चेत्यसम्पोषचेतनात् ।
ततो ऽहम्भावकलनं चेत्यैकपरतावशात् ॥

3.13.4

ततो बुद्धित्वकलनम् अहन्तापरिणामतः ।
एतद् एव मनस्तादिशब्दतन्मात्रकादिमत् ॥

3.13.5

औच्छून्याद् अन्यतन्मात्रभावनाद् भूतरूपिणः ।
अयम् इत्थं महागुल्मो जगदादिर् विलोक्यते ॥

3.13.6

झगित्य् एव क्रमेणेति स्वप्ने पुरम् इवाकृतम् ।
महाकाशमहाटव्याम् उद्भूयोद्भूय नश्यताम् ॥

3.13.7

जगत्करञ्जकुञ्जानां बीजम् एतद् अवापजम् ।
नापेक्षते किञ्चिद् अपि क्षितिवार्यनिलादिकम् ॥

3.13.8

एतच् चिदात्मकं पश्चात् किलोर्व्यादि करिष्यति ।
स्वप्नसंवित्पुरम् इव चिन्मात्रात्मकम् एव तत् ॥

3.13.9

जगदाद्यङ्कुरं यत्रतत्रस्थम् अपि मुञ्चति ।
जगतः पञ्चकं बीजं पञ्चकस्य चिद् अव्यया ॥

3.13.10

यद् बीजं तत् फलं विद्धि तस्माद् ब्रह्ममयं जगत् ।
एवम् एष महाकाशे सर्गादौ पञ्चको गणः ॥

3.13.11

चिच्छक्त्याकाशभूतात्मा कल्पितो ऽस्ति न वास्तवः ।
अनेनोच्छूनताम् एत्य यद् अपीदं वितन्यते ॥

3.13.12

तद् अप्य् आकाशरूपात्म कलनात्म न सन्मयम् ।
न क्वचिन् नाम तत् सिद्धं यद् असिद्धेन साध्यते ॥

3.13.13

खरूपं यद् विकल्पात्म कथं तत् सत्यताम् इयात् ।
अथ चेत् पञ्चकं ब्रह्म ब्रह्मात्मकतया तया ॥

3.13.14

तत् पञ्चकविधिप्रौढो ब्रह्मैव त्रिजगद्भ्रमः ।
यथा स्फुरति सर्गादाव् एष पञ्चकसम्भवः ॥

3.13.15

तथैवाद्येह भूतत्वे याति कारणतां स्वयम् ।
एवं न जायते किञ्चिज् जगज् जातं च लक्ष्यते ॥

3.13.16

स्वप्नसङ्कल्पपुरवद् असत् सद् अनुभूयते ।
ब्रह्माकाशः पराकाशो जीवाकाशत्वम् आत्मनि ॥

3.13.17

इति वेत्त्य् अवदातात्मा पृथ्व्यादीनाम् असम्भवात् ।
इत्य् एष जीवः कथितो व्योम्नि खात्मा यथोदितः ॥

3.13.18

जीवाकाशस् त्व् इमं देहं यथा विन्दति तच् छृणु ।
जीवाकाशः खम् एवासौ तस्मिंस् तु परमाम्बरे ॥

3.13.19

अत्र तेजःकणो ऽस्मीति स्वयं चेतति चिन्तया ।
तम् एवोच्छूनम् इव सद् भावयत्य् आत्मनाम्बरे ॥

3.13.20

असद् एव सदाकारं सङ्कल्पेन्दुर् यथा शशम् ।
तम् एव भावयन् द्रष्टृदृश्यरूपतया स्थितः ।
एक एव द्विताम् एति स्वप्ने स्वमृतिबोद्धृवत् ॥

3.13.21

किञ्चित् स्थौल्यम् इवादत्ते ततस् तारकतां विदन् ।
यथाभावित्वम् अत्रार्थभाविताच् चित्स्वरूपतः ॥

3.13.22

ख एव खात्मा सततो ऽप्य् अयं सो ऽहम् इति स्वयम् ।
चित्त्वात् प्रत्ययम् आदत्ते स्वप्ने त्वम् इव पान्थताम् ॥

3.13.23

तारकाकारम् आकारं भाविदेहाभिधं ततः ।
भावयन् याति तद्भावं चित्तं चेत्यार्थताम् इव ॥

3.13.24

परित्यज्येव तद् बाह्यं ततस् तारककोटरे ।
अन्तर् भाति बहिस्स्थो ऽपि पर्वतो मकुरे यथा ॥

3.13.25

कूपसंस्थं यथा देहं समुद्गकगतं च वा ।
स्वप्नसङ्कल्पयोस् संविद् वेत्त्य् एवं जीवको ऽणुके ॥

3.13.26

खरूपतारकान्तस्स्थो जीवो यच् चेतति स्वयम् ।
तद् एतद् बुद्धिचित्तादि ज्ञानसन्तानरूपकम् ॥

3.13.27

जीवाकाशस् ततस् तत्र तारकाकाशकोशगः ।
प्रेक्षे ऽहम् इति भावेन द्रष्टुं प्रसरतीव खे ॥

3.13.28

ततो रन्ध्रद्वयेनेव भाविबाह्याभिधं पुनः ।
येन पश्यति तन् नेत्रयुग्मं नाम्ना भविष्यति ॥

3.13.29

येन स्पृशति सास्य त्वग् यच् छृणोति श्रुतिस् तु सा ।
येन जिघ्रति तद् घ्राणं स स्वम् आत्मनि पश्यति ॥

3.13.30

तत् तस्य स्वदनं पश्चाद् रसनाम्नोल्लसिष्यति ।
यत् स्पन्दति स तद् वायुचेष्टाः कर्मेन्द्रियव्रजम् ॥

3.13.31

रूपालोकमनस्कारजातम् इत्य् एव भावयन् ।
आतिवाहिकदेहात्मा तिष्ठत्य् अम्बरम् अम्बरे ॥

3.13.32

एवम् उच्छूनतां तस्मिन् भावयंस् तेजसः कणे ।
असत्यं सत्यसङ्काशं ब्रह्मास्ते जीवशब्दधृत् ॥

3.13.33

इत्थं स जीवशब्दार्थकलनाकुलतां गतः ।
आतिवाहिकदेहात्मा चित्तदेहाम्बराकृतिः ॥

3.13.34

स्वकल्पनात आकारम् अण्डसंस्थं प्रपश्यति ।
कश्चिज् जलगतं वेत्ति कश्चित् सम्राट्स्वरूपिणम् ॥

3.13.35

भाविब्रह्माण्डकलनं पश्यत्य् अनुभवत्य् अपि ।
आत्मगर्भगृहं चित्ताद् यथा सङ्कल्पितात्मकः ॥

3.13.36

देशकालक्रियाद्रव्यकलनावेदनं स तत् ।
भावयञ् शब्दनिर्माता शब्दैर् बध्नाति कल्पितैः ॥

3.13.37

आतिवाहिकदेहो ऽसाव् इत्य् असत्ये जगद्भ्रमे ।
असत्य एव कचति स्वप्नेषूड्डयनं यथा ॥

3.13.38

इत्य् अनुद्भूत एवासौ स्वयम्भूस् स्वयम् उत्थितः ।
आतिवाहिकदेहात्मा प्रभुर् आद्यः प्रजापतिः ॥

3.13.39

एतस्मिन्न् अपि सम्पन्ने ब्रह्माण्डाकारिणि भ्रमे ।
न किञ्चिद् अपि सम्पन्नं न च जातं न दृश्यते ॥

3.13.40

तद् ब्रह्माकाशम् आकाशम् एव स्थितम् अशङ्कितम् ।
सङ्कल्पनगराकारम् एतत् सद् अपि नैव सत् ॥

3.13.41

अनिर्मितम् अनङ्गं च एतद् खे चित्रम् उत्थितम् ।
अकृतं चानुभूतं च न सत्यं सत्यवत् स्थितम् ॥

3.13.42

महाकल्पे विमुक्तत्वाद् ब्रह्मादीनाम् असंशयम् ।
स्मृतिर् न प्राक्तनी काचित् कारणं सा स्वयम्भुवः ॥

3.13.43

तेन यादृक् स्वयम्भूस् स्यात् तादृक् तज्जम् इदं स्मृतम् ।
अनाद्यनुभवस् त्व् इत्थं य एवावनितादिभिः ॥

3.13.44

स्वप्नानुभूतं पृथ्व्यादि प्रबोधे यादृशं भवेत् ।
स्मृतं सद् व्योममात्रात्म सर्वदैवेदृशं जगत् ॥

3.13.45

यत्र यत्र यथा तोये द्रवत्वं नाम विद्यते ।
तत्र तत्र तथा नान्यस् सर्गो ऽस्ति परमात्मनि ॥

3.13.46

सृष्टिर् एवम् इयं प्रौढा सर्ग एवम् अयं स्थितः ।
ब्रह्माण्डं नाम भात्य् एव व्योमात्मैवापनिर्मितिः ॥

3.13.47

दृश्यम् एवम् इदं शान्तं खात्म निर्भित्ति निर्भ्रमम् ।
निराधारं निराधेयम् अद्वैतं चैक्यवर्जितम् ॥

3.13.48

जगत्संविदि जातायाम् अपि जातं न किञ्चन ।
परमाकाशम् आशून्यम् अच्छम् एव व्यवस्थितम् ॥

3.13.49

सर्वसंहारखे त्व् आसीद् यद् एव तद् अवस्थितम् ।
नाधेयं तत्र नाधारो न च दृश्यं न द्रष्टृता ॥

3.13.50

ब्रह्माण्डं नास्ति न ब्रह्मा न च ब्रह्माण्डिका क्वचित् ।
न जगन् नास्ति जगती शान्तम् एवाखिलं स्थितम् ॥

3.13.51

ब्रह्मैव कचति स्वच्छम् इत्थम् आत्मात्मनात्मनि ।
चित्त्वाद् द्रवत्वात् सलिलम् इवावर्ततयात्मनि ॥

3.13.52

असद् एवेदम् आभाति सद् इवेहानुभूयते ।
विनश्यत्य् असद् एवान्ते स्वप्ने स्वमरणं यथा ॥

3.13.53

अथ वाजस्वरूपत्वात् सद् एवेदम् अनामयम् ।
अखण्डितम् अनाद्यन्तं ज्ञानमात्राम्बरोदरम् ॥

3.13.54

आकाश एव परमे प्रथमः प्रजेशो नित्यं स्वयं कचति शून्यतया समानः ।
स ह्य् आतिवाहिकवपुर् न तु भूतरूपी पृथ्व्यादि तेन न सद् अस्ति यदा न जातम् ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc