मोक्षोपाय · अध्याय 3.12
एतस्मात् परमाच् छान्तात् पदात् परमपावनात् ।
यथेदम् उत्थितं विश्वं तच् छृणूत्तमया धिया ॥
सुषुप्तं स्वप्नवद् भाति भाति ब्रह्मैव सर्गवत् ।
सर्वम् एकं च तच् छान्तं तत्र तावत् क्रमं शृणु ॥
तस्यानन्तप्रकाशात्मरूपस्याततचिन्मणेः ।
सत्तामात्रात्म कचनं यद् अजस्रं स्वभावतः ॥
तद् आत्मनि स्वयं किञ्चिच् चेत्यताम् इव गच्छति ।
अगृहीतार्थकं संविदीहामर्शनसूचकम् ॥
भाविनामार्थकलनैः किञ्चिदूहितरूपकम् ।
आकाशाद् अणु शुद्धं च सर्वस्मिन् भाविबोधनम् ॥
ततस् सा परमा सत्ता सतीतश् चेतनोन्मुखी ।
चिन्नामयोग्या भवति किञ्चिल्लभ्यतया तया ॥
घनसंवेदनात् पश्चाद् भाविजीवादिनामिका ।
सा भवत्य् आत्मकलना यदा यान्ती परात् पदात् ॥
स्वतैकभावनामात्रसारा संसरणोन्मुखी ।
तदा वस्तुस्वभावेन तन्वस् तिष्ठन्ति ताम् इमाः ॥
समनन्तरम् एतस्याः खसत्तोदेति शून्यता ।
शब्दादिगुणबीजं सा भविष्यदभिधार्थदा ॥
अहन्तोदेति तदनु सह वै कालसत्तया ।
भविष्यदभिधार्थे ते बीजं मुख्यं जगत्स्थितेः ॥
तस्याश् शक्तेः परायास् तु स्वसंवेदनमात्रकम् ।
एतज् जालम् असद्रूपं सद् इवोदेति विस्फुरत् ॥
एवम्प्रायात्मिका सा चिद् बीजं सङ्कल्पशाखिनः ।
तत्राप्य् अहङ्कारकरस् स तत्स्पन्दतया मरुत् ॥
चिद् अहन्तावती व्योमशब्दतन्मात्रभावनात् ।
स्वतो घनीभूय शनैः खतन्मात्रं भवत्य् अलम् ॥
भाविनामार्थरूपं तद् बीजं शब्दौघशाखिनः ।
पदवाक्यप्रमाणाढ्यवेदवृन्दविकारि तत् ॥
तस्माद् उदेष्यत्य् अखिला जगच्छ्रीश् शब्दरूपिणः ।
शब्दौघनिर्मितार्थौघपरिणामविसारिणी ॥
चिद् एवम्परिवारा सा जीवशब्देन कथ्यते ।
भाविशब्दार्थजालेन बीजं भूतौघशाखिनः ॥
चतुर्दशविधं भूतजातम् आवलिताम्बरम् ।
जगज्जठरयन्त्रौघं प्रसरिष्यति वै ततः ॥
असम्प्राप्ताभिधासारा चिज् जीवत्वात् स्फुरद्वपुः ।
या सैव स्पर्शतन्मात्रं भावनाद् भवति क्षणात् ॥
पवनस्कन्धविस्तारं बीजं स्पर्शैकशाखिनः ।
सर्वभूतक्रियास्पन्दस् तस्मात् सम्प्रसरिष्यति ॥
तत्र यश् चिद्विलासेन प्रकाशो ऽनुभवाद् भवेत् ।
तेजस्तन्मात्रकं तत्तद्भविष्यदभिधार्थदम् ॥
तत् सूर्यादिविजृम्भाभिर् बीजम् आलोकशाखिनः ।
तस्माद् रूपविभेदेन संसारः प्रसरिष्यति ॥
भवच् चतुर्णाम् अवतस् ततस् सत इवासतः ।
स्वदनं तस्य सङ्घस्य रसतन्मात्रम् उच्यते ॥
भाविवारिविलासात्म तद् बीजं रसशाखिनः ।
अन्योऽन्यास्वदनेनास्मात् संसारः प्रसरिष्यति ॥
भविष्यद्गन्धसङ्कल्पनामासौ कलनात्मका ।
सङ्कल्पात्मा ससौगन्धतन्मात्रत्वं प्रयच्छति ॥
भाविभूगोलकत्वेन बीजम् आकृतिशाखिनः ।
सर्वाधारात्मनस् तस्मात् संसारः प्रसरिष्यति ॥
चिता विभाव्यमानानि तन्मात्राणि परस्परम् ।
स्वयं परिणतान्य् अन्तर् अम्बुनीव निरन्तरम् ॥
तथैतानि विमिश्राणि विविक्तानि पुनर् यथा ।
न शुद्धान्य् उपलभ्यन्ते सर्वनाशान्तम् एव हि ॥
संवित्तिमात्ररूपाणि स्थितानि गगनोदरे ।
भवन्ति वटजालानि यथा बीजकणान्तरे ॥
प्रसवं परिपश्यन्ति शतशाखं स्फुरन्ति च ।
परमाण्वन्तरे मान्ति क्षणात् कल्पीभवन्ति च ॥
विवर्तम् एव धावन्ति निर्विवर्तानि सन्ति च ।
चिद्वेदितानि सर्वाणि क्षणात् पिण्डीभवन्ति हि ॥
तन्मात्रगणम् एतत् सा स्वसङ्कल्पात्मकं चितिः ।
वेदनावसरे ऽण्वौघम् अनाकारैव पश्यति ॥
बीजं जगत्सु ननु पञ्चकमात्रम् अस्य बीजं परा व्यवहिता चितिशक्तिर् आद्या ।
तज्जं तद् एव भवतीति सदानुभूतं चिन्मात्रम् एकम् अजम् आद्यम् अतो जगच्छ्रीः ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0