भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 3.14

3.14.1

इत्थं जगदहन्तादि दृश्यजातं न किञ्चन ।
अजातत्वाच् च नास्त्य् एव यच् चास्ति परम् एव तत् ॥

3.14.2

परमाकाश एवासौ जीवतां चेतति स्वयम् ।
निस्स्पन्दाम्भोधिजठरे सलिलं स्पन्दताम् इव ॥

3.14.3

आकाशरूपम् अजहद् एव वेत्तीव दृश्यताम् ।
स्वप्नसङ्कल्पशैलादाव् इव चिद्वृत्तिर् आन्तरी ॥

3.14.4

पृथ्व्यादिरहितो देहो यो विराडात्मनो महान् ।
आतिवाहिक एवासौ चिन्मात्राच्छनभोमयः ॥

3.14.5

अक्षयस्वप्नशैलाभस् स्थिरस्वप्नपुरोपमः ।
चित्रकृत्स्थितचित्तस्थचित्रसैन्यसमाकृतिः ॥

3.14.6

अनिखातमहास्तम्भपुत्रिकौघसमोपमः ।
ब्रह्माकाशे ऽनिखातात्मा स्वस्तम्भे सालभञ्जिका ॥

3.14.7

आद्यः प्रजापतिः पूर्वं स्वयम्भूर् इति विश्रुतः ।
प्राक्तनानां स्वकार्याणाम् अभावाद् अपकारणः ॥

3.14.8

महाप्रलयपर्यन्तेष्व् आद्याः किल पितामहाः ।
मुच्यन्ते सर्व एवातः प्राक्तनं कर्म तेषु किम् ॥

3.14.9

मोक्तव्य एव कुड्यात्मा दृश्यो ऽदृश्यश् च संस्थितः ।
न च दृश्यं न च द्रष्टा न स्रष्टा सर्वम् एव च ॥

3.14.10

प्रतिच्छन्दः पदार्थानां सर्वेषाम् एष एव सः ।
अस्माद् उदेति जीवाली दीपाली दीपकाद् इव ॥

3.14.11

सङ्कल्प एव सङ्कल्पात् किलैति क्ष्मादिवर्जितः ।
क्ष्मादिमान् इव निष्कुड्यस् स्वप्नात् स्वप्नान्तरं यथा ॥

3.14.12

अस्माद् एव प्रतिच्छन्दाज् जीवास् सम्प्रसरन्त्य् अमी ।
सहकारिकारणानाम् अभावाच् च स एव ते ॥

3.14.13

सहकारिकारणानाम् अभावे कार्यकारणम् ।
एकम् एतद् अतो नान्यः परस्मात् सर्गविभ्रमः ॥

3.14.14

ब्रह्मैवाद्यो विराडात्मा विराडात्मैव सर्गता ।
जीवाकाशस् स एवेत्थं स्थितः पृथ्व्याद्य् असद् यतः ॥

3.14.15

किं स्यात् परिमितो जीवराशिर् आहो अनन्तकः ।
आहोस्विद् अस्त्य् अनन्तात्मा जीवपिण्डो ऽचलोपमः ॥

3.14.16

धाराः पयोमुच इव शीकरा इव वारिधेः ।
कणास् तप्तायस इव कस्मान् निर्यान्ति जीवकाः ॥

3.14.17

इति मे भगवन् ब्रूहि जीवजालविनिर्णयम् ।
ज्ञातम् एतन् मया प्रायस् तद् एव प्रकटीकुरु ॥

3.14.18

एक एव न जीवो ऽस्ति राशीनां सम्भवः कुतः ।
शशशृङ्गं समुड्डीय प्रयातीतीव ते वचः ॥

3.14.19

न जीवो ऽस्ति न जीवानां राशयस् सन्ति राघव ।
न चैकः पर्वतप्रख्यो जीवपिण्डो ऽस्ति कश्चन ॥

3.14.20

जीवशब्दार्थकलनास् समस्तकलनान्विताः ।
न च काश्चन सन्तीति निश्चयो ऽस्तु तवाचलः ॥

3.14.21

शुद्धं चिन्मात्रम् अमलं ब्रह्मास्तीह हि सर्वतः ।
तद् यथा सर्वशक्तित्वाद् विन्दते यां स्वयं कलाम् ॥

3.14.22

चिन्मात्रानुक्रमेणैव सम्प्रफुल्तां लताम् इव ।
ननु मूर्ताम् अमूर्तां वा ताम् एवाशु प्रपश्यति ॥

3.14.23

जीवो बुद्धिः क्रियास्पन्दो मनो द्वित्वैक्यम् इत्य् अपि ।
स्वसत्तां प्रकचन्तीं तां नियोजयति वेदने ॥

3.14.24

साबुद्धैवं भवत्य् एव भवेद् ब्रह्मैव बोधतः ।
अबोधः प्रेक्षया याति नाशं न तु स बुध्यते ॥

3.14.25

यथान्धकारो दीपेन प्रेक्ष्यमाणः प्रणश्यति ।
न चास्य ज्ञायते तत्त्वम् अबोधस्यैवम् एव हि ॥

3.14.26

एवं ब्रह्मैव जीवात्मा निर्विभागो निरन्तरः ।
सर्वशक्तिर् अनाद्यन्तं महाचित्साररूपधृत् ॥

3.14.27

सर्वानन्ततया त्व् अस्य न काचिद् भेदकल्पना ।
विद्यते या हि कलना सा तद् एवानुभूतितः ॥

3.14.28

एवम् एतत् कथं ब्रह्मन्न् एकजीवेच्छयाखिलाः ।
जगज्जीवा न युज्यन्ते महाजीवैकतावशात् ॥

3.14.29

महाजीवात्म तद् ब्रह्म सर्वशक्तिमयात्मकम् ।
स्थितं यथेच्छम् एवेह निर्विभागं निरन्तरम् ॥

3.14.30

यद् एवेच्छति तत् तस्य भवत्य् आशु महात्मनः ।
पूर्वं तु नश्यतीच्छा चेद् अतो द्वित्वम् उदेति तत् ॥

3.14.31

पश्चाद् द्वित्वविभक्तानां स्वशक्तीनां प्रकल्पितः ।
अनेनेत्थं हि भवतीत्य् एवं तेन क्रियाक्रमः ॥

3.14.32

शक्त्याद्यया तया ब्राह्म्या नियमो यः प्रकल्पितः ।
तं विना नोदयो ऽन्यासां प्रधानेच्छैव रोहति ॥

3.14.33

यस्या जीवाभिधानायाश् शक्त्या येच्छा फलत्य् असौ ।
प्रधानशक्तिनियमानुष्ठानेन विना तु न ॥

3.14.34

प्रधानशक्तिनियमस् सुप्रतिष्ठो भवेन् न चेत् ।
तत् फलं शक्त्यशक्तित्वान् नेहितानां क्वचिद् भवेत् ॥

3.14.35

एवं ब्रह्म महाजीवो विद्यते ऽन्तादिवर्जितः ।
जीवत् कोटिमहाकोटीभवत्य् अथ न किञ्चन ॥

3.14.36

चेत्यसंवेदनाज् जीवो भवत्य् आयाति संसृतिम् ।
तदसंवेदनाद् रूपं शमम् आयाति संसृतेः ॥

3.14.37

एवं कनिष्ठजीवानां ज्येष्ठजीवक्रियाक्रमैः ।
समुदेत्य् आद्यजीवत्वं ताम्राणाम् इव हेमता ॥

3.14.38

अत्रानन्ते पराकाशे इत्थम् एष गणो ऽप्य् असन् ।
खात्मैव सन्न् इवोदेति चिच्चमत्करणात्मकः ॥

3.14.39

स्वयम् एव चमत्कारो यस् समागम्यते चिता ।
भविष्यन्नामदेहादि तद् अहम्भावनं विदुः ॥

3.14.40

चितो यस् स्याच् चिदालोकस् तन्मयत्वाद् अनन्तकः ।
स एष भुवनाभोग इति तस्याः प्रबिम्बति ॥

3.14.41

परिणामविकारादिशब्दैस् सैव चिद् अव्यया ।
तादृग्रूप्याद् अभेद्यापि स्वशक्त्यैव विबुध्यते ॥

3.14.42

अविच्छिन्नविलासात्म स्वतो यत् स्वदनं चितः ।
अचेत्यस्य प्रकाशस्य जगद् इत्य् एव तत् स्थितम् ॥

3.14.43

आकाशाद् अपि सूक्ष्मैषा या शक्तिर् वितता चितः ।
सा स्वभावत एवैनाम् अहन्तां परिपश्यति ॥

3.14.44

आत्मन्य् आत्मात्मनैवास्या यत् प्रस्फुरति वारिवत् ।
जगदन्तम् अहन्ताणुं तद् एवासौ प्रपश्यति ॥

3.14.45

चमत्कारकरी चारु यच् चमत्कुरुते चितिः ।
इयं स्वात्मनि तस्यैव जगन्नाम ततं कृतम् ॥

3.14.46

चितश् चित्त्वम् अहङ्कारस् सैव राघव कल्पना ।
तन्मात्रादि चिद् एवातो द्वित्वैकत्वे क्व संस्थिते ॥

3.14.47

जीवहेताव् असन्त्यागे त्वं चाहं चेति सन्त्यज ।
शेषं सदसतोर् मध्ये भवेत्य् अर्थात्मको भवेत् ॥

3.14.48

चिता यथादौ कलिता स्वसत्ता सा तथोदिता ।
अभिन्ना दृश्यते व्योम्नस् सत्तासत्ते ऽथ वेद्म्य् अहम् ॥

3.14.49

चित्खं खं जगदीहाः खं खम् अब्धिविबुधाचलाः ।
खाकारचिच्चमत्काररूपत्वान् नान्यद् अस्ति हि ॥

3.14.50

यो यद्विलासस् तस्मात् स न कदाचन भिद्यते ।
अपि सावयवात् तत्त्वात् कैवानवयवे कथा ॥

3.14.51

चितेर् नित्यम् अचेत्यायाश् चिन् नास्त्य् अवितताकृतेः ।
यद् रूपं जगतो रूपं तत् तत्स्फुरणरूपिणः ॥

3.14.52

मनो बुद्धिर् अहङ्कारो भूतानि गिरयो दिशः ।
इति पर्यायरचना चितस् तत्त्वाज् जगत्स्थितेः ॥

3.14.53

चितश् चित्त्वं जगद् विद्धि नाजगच् चित्त्वम् अस्ति हि ।
अजगत्त्वाद् अचिच् चित् स्याद् भावाभेदाज् जगत् कुतः ॥

3.14.54

चितेर् मरिचबीजस्य निजा यान्तश् चमत्कृतिः ।
सैवैषा जीवतन्मात्रमात्रं जगद् इति स्थिता ॥

3.14.55

चित्त्वात् स्वशक्तिकचनं यद् अहम्भावनं चितेः ।
जीवस् स्पन्दात्मकर्मात्मा भविष्यदभिधो ह्य् असौ ॥

3.14.56

यच् चिच् चित्त्वेन कलनं स्वसम्पाद्याभिधार्थदिक् ।
व्यवच्छेदविकारैस् तद् भिद्यते ऽतो न विद्यते ॥

3.14.57

चित्स्पन्दरूपिणोर् अस्ति न भेदः कर्तृकर्मणोः ।
स्पन्दमात्रं भवेत् कर्म स एव पुरुषस् स्मृतः ॥

3.14.58

जीवश् चित्त्वे परिस्पन्दः पुंसां चित्तं स एव च ।
मनस् त्व् इन्द्रियरूपं सन् नानानानैव गच्छति ॥

3.14.59

शान्ताशेषविशेषं हि चित्प्रकाशच्छटा जगत् ।
कार्यकारणतादित्वं तस्माद् अन्यन् न विद्यते ॥

3.14.60

अच्छेद्यो ऽहम् अदाह्यो ऽहम् अक्लेद्यो ऽशोष्य एव च ।
नित्यस् सततगस् स्थाणुर् अचलो ऽहम् इति स्थितम् ॥

3.14.61

विवदन्ते यथा ह्य् अत्र विवदन्तु तथा भ्रमैः ।
भ्रमन्तो न वयं त्व् एते जाता विगतविभ्रमाः ॥

3.14.62

दृश्ये मूर्ते ऽज्ञसंरूढे विकारादि पृथग् भवेत् ।
नामूर्ते तज्ज्ञकचिते चित्खे सदसदात्मनि ॥

3.14.63

चित्तरुश् चेत्यरसतश् शक्तीः कालादिनामिकाः ।
तनोत्य् आकाशविशदाश् चिन्मधुश्रीस् स्वमञ्जरीः ॥

3.14.64

स्वयं विचित्रं स्फुरति चित्कर्मुकम् अनाहतम् ।
स्वयं विचित्रं कचति चिद्रत्नम् अपकारणम् ॥

3.14.65

स्वयं विलक्षणस्पन्दश् चिद्वायुर् अजडात्मकः ।
स्वयं विचित्रवलनं चिद्वारि न निखातगम् ॥

3.14.66

स्वयं विचित्रधातूच्चैश् चिच्छृङ्गम् अपनिर्मितम् ।
स्वयं चित्ररसोल्लासा चिज्ज्योत्स्ना सततोदिता ॥

3.14.67

स्वयं सदैव प्रकटश् चिदालोको ऽमलात्मकः ।
स्वयम् अस्तङ्गतेवाज्ञे ज्ञे ज्ञानाद् उदिता चितिः ॥

3.14.68

स्वयं जडेषु जाड्येन पदं सौषुप्तम् आगता ।
स्वयं स्पन्दि तथास्पन्दि चित्त्वाच् चितिमहानभः ॥

3.14.69

चित्प्रकाशप्रकाशो हि जगद् अस्ति च नास्ति च ।
चिदाकाशैकशून्यत्वं जगद् अस्ति च नास्ति च ॥

3.14.70

चिदालोकमहारूपं जगद् अस्ति च नास्ति च ।
चिन्मारुतघनस्पन्दो जगद् अस्ति न चास्ति च ॥

3.14.71

चिद्घनध्वान्तकृष्णत्वं जगद् अस्ति च नास्ति च ।
चिदर्कालोकदिवसो जगद् अस्ति न चास्ति च ॥

3.14.72

चित्कज्जलरजश्शैलपरमाणुर् जगद्भ्रमः ।
चिदग्न्यौष्ण्यं जगल्लेखा जगच् चिच्छङ्खशुक्लता ॥

3.14.73

जगच् चिच्छैलजठरं चिज्जलद्रवता जगत् ।
जगच् चिदिक्षुमाधुर्यं चित्क्षीरस्निग्धता जगत् ॥

3.14.74

जगच् चिद्धिमशीतत्वं चिज्ज्वालाज्वलनं जगत् ।
जगच् चित्सर्पिषि स्नेहो वीचिश् चित्सरितो जगत् ॥

3.14.75

जगच् चित्क्षौद्रमाधुर्यं जगच् चित्कनकाङ्गदम् ।
जगच् चित्पुष्पसौगन्ध्यं चिल्लताग्रफलं जगत् ॥

3.14.76

चित्सत्तैव जगत्सत्ता जगत्सत्तैव चिद्वपुः ।
अत्र भेदविकारादि न खे मलम् इव स्थितम् ॥

3.14.77

इतीदं सन्मयत्वेन सद् असद् भुवनत्रयम् ।
अविकल्प्यतदात्मत्वात् सत्तासत्ते तद् एव वा ॥

3.14.78

अवयवावयविताशब्दार्थौ शशशृङ्गवत् ।
अनुभूत्यपलापाय कल्पितौ यैर् धिग् अस्तु तान् ॥

3.14.79

न विद्यते जगद् यत्र साद्रिद्यूर्वीनदीश्वरम् ।
चिदेकत्वात् प्रसङ्गस् स्यात् कस् तत्रेतरविभ्रमे ॥

3.14.80

शिलाहृदयपीनापि स्वाकाशविशदैव चित् ।
धत्ते ऽन्तर् अखिलं शान्तं सन्निवेशं यथा शिला ॥

3.14.81

पदार्थनिकराकाशे त्वम् आकाशलवोपमः ।
त्वत्तामत्तात्मतातत्तासत्तोल्लेखा न सन्ति ते ॥

3.14.82

पल्लवान्तरलेखौघसन्निवेशवद् आततम् ।
अन्यानन्यात्मकम् इदं धत्ते ऽन्तश् चित् स्वभावतः ॥

3.14.83

समस्तकारणौघानां कारणादिपितामहम् ।
स्वभावतो ऽकारणात्म चित्त्वं विद्ध्य् अनुभूतितः ॥

3.14.84

न चासत्त्वम् अचेत्यायाश् चितो वाचापि सिध्यति ।
यद् अस्ति तद् उदेतीति दृष्टं बीजाद् इवाङ्कुरम् ॥

3.14.85

गगनम् इव सुशून्यभेदम् अस्ति त्रिभुवनम् अङ्ग महाचितो ऽन्तर् अस्याः ।
परमपदमयं समस्तदृश्यं त्व् इदम् इति निश्चयवान् भवानुभूतेः ॥

3.14.86

इत्य् उक्तवत्य् अथ मुनौ दिवसो जगाम सायन्तनाय विधये ऽस्तम् इनो जगाम ।
स्नातुं सभा कृतनमस्करणा जगाम श्यामाक्षये रविकरैश् च सहाजगाम ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc