भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 3.128

3.128.1

अथ तां मनसा ध्यायंस् तत्रैवामीलितेक्षणः ।
आरब्धवान् मनोराज्यम् इदम् एकः किलोशनाः ॥

3.128.2

एषा हि ललना व्योम्नि सहस्रनयनालये ।
सम्प्राप्तो ऽयम् अहं स्वर्गम् आलोलसुरसुन्दरम् ॥

3.128.3

इमे ते मृदुमन्दारकुसुमोत्तंससुन्दराः ।
द्रवत्कनकनिष्ष्यन्दविलासिवपुषस् सुराः ॥

3.128.4

इमास् ता लोचनोल्लाससृष्टनीलाब्जवृष्टयः ।
मुग्धा हासविलासिन्यः कान्ता हरिणदृष्टयः ॥

3.128.5

इमे ते कौस्तुभोद्द्योता अन्योऽन्यप्रतिबिम्बिताः ।
विश्वरूपोपमाकारा मरुतो मत्तकाशिनः ॥

3.128.6

ऐरावणकटामोदविरक्तमधुपश्रुताः ।
इमास् ताः काकलीगीता गीर्वाणगणगीतयः ॥

3.128.7

इयं सा कनकाम्भोजचरद्वैरिञ्चसारसा ।
मन्दाकिनीतटोद्यानविश्रान्तसुरनायिका ॥

3.128.8

एते ते यमचन्द्रेन्द्रसूर्यानिलजलानलाः ।
लोकपालास् तनूद्द्योतकीर्णदीप्तोज्ज्वलार्चिषः ॥

3.128.9

अयं स सुरविक्रान्तहेतिकण्डूयिताननः ।
ऐरावणो रणद्दन्तप्रोतदैत्येन्द्रमण्डलः ॥

3.128.10

इमे ते भूतलस्थाना व्योमतारकतां गताः ।
वैमानिकाश् चलच्चारुहारचामरकुण्डलाः ॥

3.128.11

इमास् ता विविधोद्यानमणिमन्दिरमण्डिताः ।
विमानपङ्क्तयश् चारुचामीकरमयातपाः ॥

3.128.12

मेरूपलतलास्फालशीकराकीर्णदेवताः ।
एतास् ताः कीर्णमन्दारा गङ्गासलिलवीचयः ॥

3.128.13

एताः प्रसृतमन्दारमञ्जरीपुञ्जपिञ्जराः ।
दोलालोलाप्सरश्श्रेण्यश् शक्रोपवनवीथयः ॥

3.128.14

इमे ते कुन्दमन्दारमकरन्दसुगन्धयः ।
चन्द्रांशुनिकराकाराः पारिजातसमीरणाः ॥

3.128.15

पुष्पकेसरनीहारपटवासेरणोत्सुकैः ।
लताङ्गनागणैर् व्याप्तम् इदं तन् नन्दनं वनम् ॥

3.128.16

कान्तगीतरवानन्दप्रनर्तितसुराङ्गनौ ।
इमौ तौ वल्लकीस्निग्धस्वरौ नारदतुम्बुरू ॥

3.128.17

इमे ते पुण्यकर्तारो भूरिभूषणभूषिताः ।
व्योमन्य् उड्डयमानेषु विमानेषु सुखं स्थिताः ॥

3.128.18

मदमन्मथमत्ताङ्ग्य इमास् तास् सुरयोषितः ।
देवेश्वरं निषेवन्ते वनं वनलता इव ॥

3.128.19

चन्द्रांशुजालकुसुमाश् चिन्तामणिगुलुच्छकाः ।
कल्पवृक्ष इमे पक्वरत्नस्तबकदन्तुराः ॥

3.128.20

इह तावद् इमं शक्रम् अहम् आसनसंस्थितम् ।
द्वितीयम् इव देवेशं पूजयैवाभिवादये ॥

3.128.21

इति सञ्चिन्त्य शुक्रेण मनसैव शचीपतिः ।
तेनाभिवादितस् तत्र द्वितीय इव वै भृगुः ॥

3.128.22

अथ सादरम् उत्थाय शुक्रश् शक्रेण पूजितः ।
गृहीतहस्तम् आनीय समीप उपवेशितः ॥

3.128.23

धन्यस् त्वदागमेनाद्य स्वर्गो ऽयं शुक्र शोभते ।
उष्यतां चिरम् एवेह शक्र इत्थम् उवाच तम् ॥

3.128.24

अथ तत्रोपविश्यासौ भार्गवश् शोभिताननः ।
श्रियं जहार शशिनस् सकलस्यामलस्य च ॥

3.128.25

सकलसुरगणाभिवन्दितो ऽसौ भृगुतनयश् शतमन्युपार्श्वसंस्थः ।
चिरतरम् अतुलाम् अवाप तुष्टिं नरमतिम् उज्झितवान् अलं बभूव ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc