मोक्षोपाय · अध्याय 3.127
भगवन् सर्वधर्मज्ञ पूर्वापरविदां वर ।
अयं मनसि संसारस् स्फारः कथम् इव स्थितः ॥
यथायं मनसि स्फार आरम्भस् स्फुरति स्फुटम् ।
दृष्टान्तदृष्ट्या स्फुटया तथा कथय मे ऽनघ ॥
यथैन्दवानां विप्राणां जगन्त्य् अवपुषाम् अपि ।
स्थितानि जातदार्ढ्यानि मनसीदं तथा स्थितम् ॥
लवणस्य यथा राज्ञश् चेन्द्रजालाकुलाकृतेः ।
चण्डालत्वम् अनुप्राप्तं तथेदं मनसि स्थितम् ॥
भार्गवस्य चिरं कालं स्वर्गभोगबुभुक्षया ।
भोगेश्वरत्वं च यथा तथेदं मनसि स्थितम् ॥
भगवन् भृगुपुत्रस्य स्वर्गभोगबुभुक्षया ।
कथं भोगाधिनाथत्वं संसारित्वं बभूव च ॥
शृणु राम पुरा वृत्तं संवादं भृगुकालयोः ।
सानौ मन्दरशैलस्य तमालविटपाकुले ॥
पुरा मन्दरशैलस्य सानौ कुसुमसङ्कुले ।
अतप्यत तपो घोरं कस्मिंश्चिद् भगवान् भृगुः ॥
तम् उपास्ते स्म तेजस्वी बालः पुत्रो महामतिः ।
शुक्रस् सकलचन्द्राभः प्रकाश इव भास्करम् ॥
भृगुर् वरवने तस्मिन् समाधाव् एव संस्थितः ।
सर्वकालं समुत्कीर्णो वनोपलतलाद् इव ॥
शुक्रः कुसुमशय्यासु कलधौताब्जिनीषु च ।
मन्दारतरुदोलासु बालो ऽरमत लीलया ॥
विद्याविद्यादृशोर् मध्ये शुक्रो ऽप्राप्तमहापदः ।
त्रिशङ्कुर् इव रोदोऽन्तर् अवर्तत तदा किल ॥
निर्विकल्पसमाधिस्थे स कदाचित् पितर्य् अथ ।
अव्यग्रो ऽभवद् एकान्ते जितारिर् इव भूमिपः ॥
ददर्शाप्सरसं तत्र गच्छन्तीं नभसः पथा ।
क्षीरोदमध्यलुलितां लक्ष्मीम् इव जनार्दनः ॥
मन्दारमाल्यवलितां मन्दानिलचलालकाम् ।
हारिझाङ्कारिगमनां सुगन्धितनभोऽनिलाम् ॥
लावण्यपादपलतां मदघूर्णितलोचनाम् ।
अमृतीकृततद्देशां देहेन्दूदयकान्तिभिः ॥
कान्ताम् आलोक्य तस्याभूद् उल्लासतरलं मनः ।
दृष्टे निर्मलपूर्णेन्दौ वपुर् अम्बुनिधेर् इव ॥
मनसिजेषुशताहतम् आशये स परिरुध्य मनस् तदनूशनाः ।
विगलितेतरवृत्तितयात्मना सुरवधूमय एव बभूव सः ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0