भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 3.126

3.126.1

इन्द्रियग्रामसङ्ग्रामसेतुना भवसागरः ।
तीर्यते नेतरेणेह केनचिन् नाम कर्मणा ॥

3.126.2

शास्त्रसत्सङ्गमाभ्यासैस् सविवेको जितेन्द्रियः ।
अत्यन्ताभावम् एवास्य दृश्यौघस्यावगच्छति ॥

3.126.3

एतत् ते कथितं सर्वं स्वरूपं रूपिणां वर ।
संसारसागरश्रेण्यो यथायान्ति प्रयान्ति च ॥

3.126.4

बहुनात्र किम् उक्तेन मनः कर्मद्रुमाङ्कुरः ।
तस्मिंश् छिन्ने जगच्छाखश् छिन्नः कर्मतरुर् भवेत् ॥

3.126.5

मनस् सर्वम् इदं राम तस्मिन्न् अन्तश् चिकित्सिते ।
चिकित्सितो ऽयं सकलो जन्मजालमयो भवः ॥

3.126.6

तद् एतज् जायते लोके मनो मललवाकुलम् ।
मनसो व्यतिरेकेण देहः क्व किल दृश्यते ॥

3.126.7

दृश्यात्यन्तासम्भवनम् ऋते नान्येन हेतुना ।
मनःपिशाचः प्रशमं याति कल्पशतैर् अपि ॥

3.126.8

एतच् च सम्भवत्य् एव मनोव्याधिचिकित्सने ।
दृश्यात्यन्तासम्भवात्म परमौषधम् उत्तमम् ॥

3.126.9

मनो मोहम् उपादत्ते म्रियते जायते मनः ।
कस्यचित् तु प्रसादेन बध्यते मुच्यते पुनः ॥

3.126.10

स्फुरतीत्थं जगत् सर्वं चित्ते मननमन्थरे ।
शून्य एवाम्बरे स्फारे गन्धर्वाणां पुरं यथा ॥

3.126.11

मनसीदं जगत् कृत्स्नं स्फारं स्फुरति चास्ति च ।
पुष्पगुच्छ इवामोदस् तत्स्थस् तस्माद् इवेतरः ॥

3.126.12

यथा तिलकणे तैलं गुणो गुणिनि वा यथा ।
यथा धर्मिणि वा धर्मस् तथेदं मनसि स्थितम् ॥

3.126.13

यथाम्भसि तरङ्गौघ इन्दौ द्वीन्दुभ्रमो यथा ।
मृगतृष्णा यथा तापे संसारश् चित्तके तथा ॥

3.126.14

रश्मिजालं यथा सूर्ये यथालोकश् च तेजसि ।
यथौष्ण्यं चित्रभानौ वा मनसीदं तथा जगत् ॥

3.126.15

शैत्यं यथैव तुहिने यथा नभसि शून्यता ।
यथा चञ्चलता वायौ मनसीदं तथा जगत् ॥

3.126.16

मनो जगज् जगद् अखिलं तथा मनः परस्परं त्व् अविरहितं सदैव हि ।
तयोर् द्वयोर् मनसि निरन्तरं क्षते क्षतं जगन् न तु जगति क्षते मनः ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc