मोक्षोपाय · अध्याय 3.125
महाप्रलयसर्गादौ प्रथमो ऽसौ प्रजापतिः ।
स्मृत्यात्मा जायते सर्गे स्मृत्यात्मैव ततो जगत् ॥
महाप्रलयसर्गादाव् एवम् एतद् रघूद्वह ।
स्मृत्यात्मैव भवत्य् आदौ प्रथमो ऽसौ प्रजापतिः ॥
तत्सङ्कल्पात्म च जगत् स्मृत्यात्मैवम् इदं ततः ।
भाति सङ्कल्पनगरं स्थितं पूर्वप्रजापतेः ॥
इति स्थिते ऽपि सा राम तस्य पूर्वप्रजापतेः ।
स्थितिर् न सम्भवत्य् एव नभसीव महाद्रुमः ॥
न सम्भवति किं ब्रह्मन् सर्गादौ प्राक्तनी स्मृतिः ।
महाप्रलयसम्मोहैर् नश्यति प्राक्स्मृतिः कथम् ॥
प्राङ्महाप्रलये प्राज्ञ पूर्वे ब्रह्मादयः पुरा ।
किल निर्वाणम् आयातास् ते ऽवश्यं ब्रह्मतां गताः ॥
प्राक्तन्याः कस् स्मृतेस् स्मर्ता तस्मात् कथय सुव्रत ।
स्मृतिर् निर्मूलतां याता स्मर्तुर् मुक्ततया यतः ॥
अतस् स्मर्तुर् अभावे सा स्मृतिः कोदेतु किं कथम् ।
अवश्यं हि महाकल्पे सर्वे मोक्षैकभागिनः ॥
नानुभूते ऽनुभूते च स्वतश् चिद्व्योम्नि या स्मृतिः ।
सा जगच्छ्रीर् इति प्रौढा दृश्याभावे हि चित्प्रभा ॥
भाति संवित्प्रभैवाच्छम् अनाद्यन्तावभासिनी ।
यत् तद् एतज् जगद् इति स्वयम्भूर् इति च स्थितम् ॥
अनादिकालसंसिद्धं यद् भानं ब्रह्मणो निजम् ।
स आतिवाहिको देहो विराजो जगदाकृतिः ॥
परमाणाव् इदं भाति जगत् सभुवनत्रयम् ।
देशकालक्रियाद्रव्यदिनरात्रिक्रमान्वितम् ॥
परमाणुं प्रति ततस् तस्यान्तस् तादृग् एव च ।
भाति भास्वरिताकारं तादृग्गिरिकुलावृतम् ॥
तत्रापि तादृगाकारम् एवं प्रत्य् अणुम् आततम् ।
दृश्यम् आभाति भारूपम् एतद् अङ्ग न वास्तवम् ॥
इत्य् अस्त्य् अन्तो न सद्दृष्टेर् असद्दृष्टेश् च वा क्वचित् ।
अस्यास् त्व् अभ्युदितं बुद्धम् अबुद्धं प्रति वानघ ॥
बुद्धं प्रतीदं ब्रह्मैव केवलं शान्तम् अव्ययम् ।
अबुद्धं प्रति तु द्वैतभासुरं भुवनान्वितम् ॥
यथेदं भासुरं भाति जगद् अण्डकजृम्भितम् ।
तथा कोटिसहस्राणि भान्त्य् अन्यान्य् अप्य् अणाव् अणौ ॥
यथा स्तम्भे पुत्रिकान्तस् तस्याश् चाङ्गेषु पुत्रिका ।
तस्याश् च पुत्रिकास्त्य् अङ्गे तथा त्रैलोक्यपुत्रिका ॥
न भिन्ना न च सङ्ख्येया यथाद्रौ परमाणवः ।
तथा ब्रह्मबृहन्मेरौ त्रैलोक्यपरमाणवः ॥
सूर्यौघांशुषु सङ्ख्यातुं शक्यन्ते लघवो ऽणवः ।
नानाद्यन्ताश् चिदादित्ये त्रैलोक्यपरमाणवः ॥
यथाणवो वहन्त्य् अर्कदीप्तिष्व् अप्सु रजस्सु च ।
तथा वहन्ते चिद्व्योम्नि त्रैलोक्यपरमाणवः ॥
शून्यानुभवमात्रात्म भूताकाशम् इदं यथा ।
सर्गानुभवमात्रात्म चिदाकाशम् इदं तथा ॥
सर्गस् तु सर्गशब्दार्थतया बुद्धो नयत्य् अधः ।
स ब्रह्मशब्दार्थतया बुद्धश् श्रेयो भवत्य् अलम् ॥
विज्ञानात्मा शासिता विश्वबीजं ब्रह्मैवाद्यं स्वं चिदाकाशमात्रम् ।
तस्माज् जातं यत् तद् एवेति वेद्यं बुध्यस्वान्तर् बोधसम्बोधमात्रम् ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0