भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 3.108

3.108.1

अथ गच्छति काले ऽत्र जराजर्जरितायुषि ।
तुषारपूर्णशष्पौघसमश्मश्रुधृते मयि ॥

3.108.2

कर्मवातावनुन्नेषु सरसेष्व् अरसेष्व् अपि ।
पतत्सु वासरौघेषु शीर्णपर्णगणेष्व् इव ॥

3.108.3

आजाव् इव शरौघेषु सुखदुःखेष्व् अनारतम् ।
कलहेष्व् अथ कार्येषु आगच्छत्सु व्रजत्सु च ॥

3.108.4

विकल्पकलनावर्तवर्तिनीव जगद्भ्रमे ।
समुद्र इव कल्लोलभरे भ्रमति चेतसि ॥

3.108.5

चलं चिन्ताचितं चक्रम् आरूढे भ्रान्त आत्मनि ।
प्रोह्यमाने तृण इव सावर्ते कालसागरे ॥

3.108.6

विन्ध्योर्वीव्रणकीटस्य ग्रामैकशरणस्य च ।
द्विबाहोर् गर्दभस्यात्र क्षीण इत्थं समागणे ॥

3.108.7

विस्मृते मम भूपत्वे शवस्येव महाज्वरे ।
चण्डालत्वे स्थिरीभूते छिन्नपक्ष इवाचले ॥

3.108.8

संसारम् इव कल्पान्तो दावाग्निर् इव काननम् ।
सागरोर्मिस् तटम् इव शुष्कवृक्षम् इवाशनिः ॥

3.108.9

अकाण्डमरणोड्डीनचण्डचण्डालमण्डलम् ।
निरन्नतृणपत्त्राम्बु विन्ध्यकच्छं तदा ययौ ॥

3.108.10

न वर्षति घनव्राते दृष्टनष्टे क्वचित् स्थिते ।
पूताङ्गारकणोन्मिश्रगतौ वहति मारुते ॥

3.108.11

शीर्णमर्मरपर्णासु दावाग्निवलितासु च ।
वनस्थलीषु शून्यासु चिरप्रव्रजितास्व् इव ॥

3.108.12

अकाण्डम् अभवद् भीमम् उद्दामदवपावकम् ।
शोषिताशेषगहनं भस्मशेषतृणोलपम् ॥

3.108.13

पांसुधूसरसर्वाङ्गं क्षुधिताशेषमानवम् ।
निरन्नतृणपानीयदेशोद्यद्दावमण्डलम् ॥

3.108.14

कचन्मरुमरीच्यम्बुमज्जन्महिषमण्डलम् ।
वातोत्थसैकतव्यूहवारिवाहावृताम्बरम् ॥

3.108.15

पानीयशब्दमात्रैकश्रवणोत्कनरव्रजम् ।
आतपाद् अतिसंशोषसीदत्सकलमानवम् ॥

3.108.16

पुत्रग्रसनसंरब्धक्षुधितोज्झितजीवितम् ।
स्वाङ्गचर्वणसंरम्भलुठद्दशनमण्डलम् ॥

3.108.17

मांसशङ्कानिगीर्णोग्रखदिराग्निकणोत्करम् ।
मण्डूकाशावशग्रस्तवनपाषाणखण्डकम् ॥

3.108.18

अन्योऽन्यद्रुतसंसक्तमातृपुत्रपितृव्रजम् ।
गृध्रोदररटत्साग्रनिगीर्णवनशारिकम् ॥

3.108.19

परस्पराङ्गविच्छेदरक्तसिक्तधरातलम् ।
हरिग्रसनसंरब्धमत्तक्षुभितवारणम् ॥

3.108.20

दरीनिगिरणैकोत्कसिंहभ्रमणभीषणम् ।
अन्योऽन्यग्रसनोद्युक्तलोकमल्लकृताहवम् ॥

3.108.21

निष्पत्त्रपादपोड्डीनपूताङ्गारमयानिलम् ।
रक्तपानोत्कमार्जारलीढधातुतलावनि ॥

3.108.22

ज्वालाघनघनाटोपसावतंसवनानिलम् ।
सर्वस्खलज्ज्वलद्वह्निपुञ्जपिञ्जरजङ्गलम् ॥

3.108.23

दग्धाजगरकुञ्जोत्थधूममांसलगुल्मकम् ।
मारुतावलितज्वालासन्ध्याभ्रवलिताम्बरम् ॥

3.108.24

उड्डामरमरुद्भ्रान्तभास्मनस्तम्भमण्डलम् ।
साक्रन्दनरदन्ताग्रशीर्णार्भककृतारवम् ॥

3.108.25

सम्भ्रान्तपुरुषव्यूहदन्तकृत्तमहाशवम् ।
मांसभोगजवग्रस्तरक्तरक्तनिजाङ्गुलि ॥

3.108.26

नीलपत्त्रलताशब्दपीतधूमघनच्छवि ।
भ्रमद्गृध्रनिगीर्णोग्रनभोभ्रान्तोल्मुकामिषम् ॥

3.108.27

इतरेतरभिन्नाङ्गलोकविद्रवणाकुलम् ।
ज्वलिताग्निटनत्कारविदीर्णहृदयोदरम् ॥

3.108.28

गतमारुतभाङ्कारभीमदावाग्निवल्गनम् ।
भीताजगरफूत्कारपतदङ्गारपादपम् ॥

3.108.29

तद् अकाण्डं स्फुटं प्राप्य स देशश् शुष्ककोटरः ।
द्वादशार्काग्निदग्धस्य जगतो ऽनुकृतिं ययौ ॥

3.108.30

ज्वलदनलजटालवृक्षषण्डः प्रसृतमरुत्प्रसरापनुन्नलोकः ।
ज्वलनतपनभास्करात्मजानां रमणगृहानुकृतिं जगाम देशः ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc