भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 2.4

2.4.1

सौम्याम्बुत्वे तरङ्गत्वे सलिलस्याम्बुता यथा ।
समैवाब्धौ तथादेहसदेहत्वविमुक्तता ॥

2.4.2

सदेहा वास्त्व् अदेहा वा मुक्तता विषयेन वः ।
अनास्वादितभोज्यस्य कुतो भोज्यानुभूतयः ॥

2.4.3

जीवन्मुक्तं मुनिश्रेष्ठ केवलं हि पदार्थवत् ।
पश्यामः पुरतो नास्य पुनर् विद्मो ऽन्तराशयम् ॥

2.4.4

सदेहादेहमुक्तानां भेदः को ऽभेदरूपिणाम् ।
यद् एवाम्बु तरङ्गत्वे सौम्यत्वे ऽपि तद् एव तत् ॥

2.4.5

न मनाग् अपि भेदो ऽस्ति सदेहादेहमुक्तयोः ।
सस्पन्दो ऽस्त्व् अथ वास्पन्दो वायुर् एव किलानिलः ॥

2.4.6

सदेहा वा विदेहा वा मुक्तता न प्रमास्पदम् ।
अस्माकम् अस्यास् तु यदा स्वैकतास्त्य् अविभागिनी ॥

2.4.7

तस्मात् प्रकृतम् एवेदं शृणु श्रवणभूषणम् ।
मयोपदिश्यमानं त्वं ज्ञानम् अज्ञान्ध्यनाशनम् ॥

2.4.8

सर्वम् एवेह हि सदा संसारे रघुनन्दन ।
सम्यक्प्रयुक्तात् सर्वेण पौरुषात् समवाप्यते ॥

2.4.9

इह हीन्दोर् इवोदेति शीतलाह्लादनं हृदि ।
परिस्पन्दफलप्राप्तौ पौरुषाद् एव नान्यतः ॥

2.4.10

पौरुषस्पन्दफलवद् दृष्टं प्रत्यक्षतो न यत् ।
कल्पितं मोहिभिर् मन्दैर् दैवं किञ्चिन् न विद्यते ॥

2.4.11

साधूपदेशशास्त्रेण यन् मनोऽङ्गविचेष्टितम् ।
तत् पौरुषं तत् सफलम् अन्यद् उन्मत्तचेष्टितम् ॥

2.4.12

यो यम् अर्थं कामयते तद् अर्थं चेहते क्रमात् ।
अवश्यं तम् अवाप्नोति न चेद् अर्धान् निवर्तते ॥

2.4.13

पौरुषेण प्रयत्नेन त्रैलोक्यैश्वर्यसुन्दरीम् ।
कश्चित् प्राणिविशेषो हि शक्रतां समुपागतः ॥

2.4.14

पौरुषेण प्रयत्नेन सहसाम्भोरुहास्पदाम् ।
कश्चिद् एव चिदुल्लासो ब्रह्मताम् अधिगच्छति ॥

2.4.15

सारेण पुरुषार्थेन स्वेनैव गरुडध्वजाम् ।
कश्चिद् एव पुमान् एष पुरुषोत्तमतां गतः ॥

2.4.16

पौरुषेणैव यत्नेन ललनावलनाकृतिम् ।
शरीरी कश्चिद् एवेह गतश् चन्द्रार्धचूडताम् ॥

2.4.17

प्राक्तनं चैहिकं चेति द्विविधं विद्धि पौरुषम् ।
प्राक्तनो ऽद्यतनेनाशु पुरुषार्थेन जीयते ॥

2.4.18

यत्नवद्भिर् दृढाभ्यासैः प्रज्ञोत्साहसमन्वितैः ।
मेरवो ऽपि निगीर्यन्ते कैव प्राक्पौरुषे कथा ॥

2.4.19

शास्त्रनियन्त्रितपौरुषपरमा पुरुषस्य पुरुषता या स्यात् ।
अभिमतफलभरसिद्ध्यै भवति हि सान्या त्व् अनर्थाय ॥

2.4.20

कस्याञ्चित् स्वयम् आत्मदुस्स्थितिवशात् पुंसो दशायां शनैर् अङ्गुल्यग्रनिपीडितैकचुलुकाद् आचामबिन्दुर् बहुः ।
कस्याञ्चिज् जलराशिपर्वतपुरद्वीपान्तरालङ्कृता कर्तव्योचितसंविभागकरणे पृथ्वी न पृथ्वी भवेत् ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc