मोक्षोपाय · अध्याय 2.3
पूर्वम् उक्तं भगवता यज् ज्ञानं पद्मजन्मना ।
सर्गादौ लोकशान्त्यर्थं तद् इदं कथयाम्य् अहम् ॥
कथयिष्यसि विस्तीर्णां भगवन् मोक्षसंहितां ।
इमं तावत् क्षणं जातं संशयं मे निवारय ॥
पिता शुकस्य सर्वज्ञो गुरुर् व्यासो महामुनिः ।
विदेहमुक्तो न कथं कथं मुक्तस् सुतो ऽस्य सः ॥
परमार्कप्रकाशान्तस् त्रिजगत्त्रसरेणवः ।
उत्पत्योत्पत्य लीना ये न सङ्ख्याम् उपयान्ति ते ॥
वर्तमाने च यास् सन्ति त्रैलोक्यगणकोटयः ।
शक्यन्ते नैव सङ्ख्यातुं ताश् च काश्चन केनचित् ॥
भविष्यन्ति पराम्भोधौ जगत्सर्गतरङ्गकाः ।
ये तांश् च परिसङ्ख्यातुं सङ्कथैव न विद्यते ॥
या भूता या भविष्यन्त्यो जगत्सर्गपरम्पराः ।
तासां विचारणं युक्तं वर्तमानासु का कथा ॥
तिर्यक्पुरुषदेवादेर् यो यो राम विनश्यति ।
तस्मिन्न् एव प्रदेशे ऽसौ तदैवेदं प्रपश्यति ॥
आतिवाहिकनाम्नान्तस् स्वहृद्य् एव जगत्त्रयम् ।
व्योम्नि चित्तशरीरेण व्योमात्मानुभवत्य् अजः ॥
एवं मृता म्रियन्ते च मरिष्यन्ति च कोटयः ।
भूतानां या जगन्त्य् आसाम् उदितानि पृथक् पृथक् ॥
दुर्वातभूकम्प इव पिशाचत्रस्तबालवत् ।
मुक्तालीवामले व्योम्नि नौस्पन्दतरुयानवत् ॥
स्वप्नसंवित्तिपुरवत् स्मृतिजातखवृक्षवत् ।
जगत्संसरणं स्वान्तर् मृतो ऽनुभवति स्वयम् ॥
तत्रातिपरिणामेन तद् एव घनतां गतम् ।
इह लोको ऽयम् इत्य् एव जीवाकाशे विजृम्भते ॥
पुनस् तत्रैव जन्मेहामरणाद्यनुभूतिमान् ।
परलोकं कल्पयति मृतस् तत्र तथा पुनः ॥
तदन्तर् अन्ये पुरुषास् तेषाम् अन्तस् तथा परे ।
संसारा इति भान्तीमे कदलीदलपीठवत् ॥
न पृथ्व्यादिमहाभूतगणा न च जगत्क्रमाः ।
मृतानां सन्ति तत्रापि तथाप्य् एषां जगद्भ्रमाः ॥
अविद्यैवम् अनन्तेयं नानाप्रसवशालिनी ।
जडानां सरिद् आदीर्घा जगत्सर्गतरङ्गिणी ॥
परमार्थाम्बुधौ स्फारे राम सर्गतरङ्गकाः ।
भूयो भूयो विवर्तन्ते त एवान्ये च भूरिशः ॥
सर्वतस् सदृशाः केचित् कुलक्रममनोगुणैः ।
केचिद् अर्धेन सदृशाः केचिच् चातिविलक्षणाः ॥
इमं व्यासमुनिं तत्र द्वात्रिंशं संस्मराम्य् अहम् ।
यथासम्भवया ज्ञानदृशा दर्शसमानया ॥
द्वादशान्यधियस् तत्र कुलाकारेहितैस् समाः ।
दश सर्वसमाकाराश् शिष्टाः कुलविलक्षणाः ॥
अद्याप्य् अन्ये भविष्यन्ति व्यासवाल्मीकयस् तथा ।
भृग्वङ्गिरःपुलस्त्याश् च तथैवाथान्य एव च ॥
नानासुरर्षिदेवानां गणास् सम्भूय भूरिशः ।
उत्पद्यन्ते विलीयन्ते कदाचिच् च पृथक् पृथक् ॥
ब्रह्मद्वासप्ततेस् त्रेता आसीद् अस्ति भविष्यति ।
स एवान्यश् च लोकश् च त्वं चाहं चेति वेद्म्य् अहम् ॥
क्रमेणास्य मुनेर् इत्थं व्यासस्याद्भुतकर्मणः ।
संलक्ष्यते ऽवतारो ऽयं दशमो दीर्घदर्शिनः ॥
अभूम व्यासवाल्मीकियुक्ता वयम् अनेकशः ।
अभूम वयम् एवेमे नानाकारास् समाशयाः ॥
भाव्यम् अद्याप्य् अनेनेह ननु वाराष्टकं पुनः ।
भूयो ऽपि भारतं नाम स्वेतिहासं करिष्यति ॥
कृत्वा वेदविभागं च नीत्वानेन कुलं प्रथाम् ।
ब्रह्मत्वं च ततो गत्वा भाव्यं वैदेहमोक्षिणा ॥
वीतशोकभयश् शान्तो निर्वाणो गतकल्पनः ।
जीवन्मुक्तो जितमना व्यासो ऽयम् इति वर्णितः ॥
वित्तबन्धुवयःकर्मविद्याविज्ञानचेष्टितैः ।
समानि सन्ति भूतानि सर्गे सर्गे पुनः पुनः ॥
क्वचित् सर्गशतैस् तानि भवन्ति न भवन्ति वा ।
कदाचिद् अपि मायेयम् इत्थम् अन्तविवर्जिता ॥
गच्छतीयं विपर्यासं भूरिभूतपरम्परा ।
बीजराशिर् इवाजस्रम् उप्यमानः पुनः पुनः ॥
तेनैव सन्निवेशेन तथान्येन पुनः पुनः ।
सर्गाकाराः प्रवर्तन्ते तरङ्गाः कालवारिधेः ॥
आश्वस्तान्तःकरणः क्षीणविकल्पस् स्वरूपसारमयः ।
परमशमामृततृप्तस् तिष्ठति विद्वान् निरावरणः ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0