मोक्षोपाय · अध्याय 2.5
प्रवृत्तिर् एवं प्रथमं यथाशास्त्रं विहारिणाम् ।
प्रभेव वर्णभेदानां साधनी सर्वकर्मणाम् ॥
मनसा वाञ्छ्यते यत् तु यथाशास्त्रं न कर्मणा ।
साध्यते मत्तलीलासौ मोहनी नार्थसाधनी ॥
यथा सञ्चेत्यते येन तथा तेनानुभूयते ।
स्वकर्मैवेति वास्त्व् अन्या व्यतिरिक्ता न दैवदृक् ॥
उच्छास्त्रं शास्त्रितं चेति पौरुषं द्विविधं स्मृतम् ।
तत्रोच्छास्त्रम् अनर्थाय परमार्थाय शास्त्रितम् ॥
द्वौ हुडाव् इव युध्येते पुरुषार्थौ समासमौ ।
आत्मीयश् चान्यदीयश् च जयत्य् अतिबलस् तयोः ॥
अनर्थः प्राप्यते यत्र शास्त्रिताद् अपि पौरुषात् ।
अनर्थकर्तुर् बलवत् तत्र ज्ञेयं स्वपौरुषम् ॥
परं पौरुषम् आश्रित्य दन्तैर् दन्तान् विचूर्णयन् ।
शुभेनाशुभम् उद्युक्तः प्राक्तनं पौरुषं जयेत् ॥
प्राक्तनः पुरुषार्थो ऽसौ मां नियोजयतीति धीः ।
बलाद् अधस्पदीकार्या प्रत्यक्षाद् अधिका न सा ॥
तावत् तावत् प्रयत्नेन यतितव्यं स्वपौरुषम् ।
प्राक्तनं पौरुषं यावद् अशुभं शाम्यति स्वयम् ॥
दोषश् शाम्यत्य् असन्देहं प्राक्तनो ऽद्यतनैर् गुणैः ।
दृष्टान्तो ऽत्र ह्यस्तनस्य दोषस्याद्यगुणैः क्षयः ॥
असद्दैवम् अधः कृत्वा नित्यम् उद्युक्तया धिया ।
संसारोत्तरणं भूत्यै यतेताधातुम् आत्मनि ॥
न गन्तव्यम् अनुद्योगैस् साम्यं पुरुषगर्दभैः ।
उद्योगस् तु यथाशास्त्रं लोकद्वितयसिद्धये ॥
संसारकुहराद् अस्मान् निर्गन्तव्यं स्वयं बलात् ।
पौरुषं यत्नम् आश्रित्य हरिणेवारिपञ्जरात् ॥
प्रत्यहं प्रत्यवेक्षेत नरश् चरितम् आत्मनः ।
सन्त्यजेत् पशुभिस् तुल्यं श्रयेत् सत्पुरुषोचितम् ॥
किञ्चित् कान्तान्नपानादिकलिलं कोमलं गृहे ।
व्रणे कीट इवास्वाद्य वयः कार्यं न भस्मसात् ॥
शुभेन पौरुषेणाशु शुभम् आसाद्यते फलम् ।
अशुभेनाशुभं नित्यं दैवं नाम न किञ्चन ॥
प्रत्यक्षदृष्टम् उत्सृज्य यो ऽनुमानमनास् त्व् असौ ।
स्वभुजाभ्याम् इमौ सर्पाव् इति प्रेक्ष्य पलायताम् ॥
दैवं सम्प्रेरयति माम् इति मुग्धधियां मुखम् ।
अदृष्टश्रेष्ठदृष्टीनां दृष्ट्वा लक्ष्मीर् निवर्तते ॥
तस्मात् पुरुषयत्नेन विवेकं पूर्णम् आश्रयेत् ।
आत्मज्ञानमयार्थानि शास्त्राणि प्रविचारयेत् ॥
चित्ते चिन्तयताम् अर्थं यथाशास्त्रं निजेहितैः ।
असंसाधयताम् एव मूढानां धिग् दुरीप्सितम् ॥
पौरुषं च न चानन्तं न यन् नामाभिवाञ्छ्यते ।
न यत्नेनापि महता तैलम् आसाद्यते ऽश्मनः ॥
यथा घटः परिमितो यथा परिमितः पटः ।
नियतः परिमाणस्थः पुरुषार्थस् तथैव वः ॥
स च शास्त्रार्थसत्सङ्गसमाचारैर् निजं फलम् ।
ददातीति स्वभावो ऽयम् अन्यथानर्थसिद्धये ॥
स्वरूपं पौरुषस्यैतद् एवं व्यवहरन् नरः ।
याति निष्फलयत्नत्वं न कदाचन कश्चन ॥
दैन्यदारिद्र्यदुःखार्ता अप्य् अन्ये पुरुषोत्तमाः ।
पौरुषेणैव यत्नेन याता देवेन्द्रतुल्यताम् ॥
आ बाल्याच् चैवम् अभ्यस्तैश् शास्त्रसत्सङ्गमादिभिः ।
गुणैः पुरुषयत्नेन स्वो ऽर्थस् सम्प्राप्यते हि तैः ॥
इति प्रत्यक्षतो दृष्टम् अनुभूतं श्रुतं कृतम् ।
दैवोत्थम् इति मन्यन्ते ये हतास् ते कुबुद्धयः ॥
आलस्यं यदि न भवेज् जगत्य् अनर्थः को न स्याद् बहुधनिको बहुश्रुतो वा ।
आलस्याद् इयम् अवनिस् ससागरान्ता सम्पूर्णा नरपशुभिश् च निर्धनैश् च ॥
बाल्ये गते ऽविरतकल्पितकेलिलोले पौगण्डमण्डनवयःप्रभृति प्रयत्नात् ।
सत्सङ्गमैः पदपदार्थविबुद्धबुद्धिः कुर्यान् नरस् स्वगुणदोषविचारणानि ॥
इत्य् उक्तवत्य् अथ मुनौ दिवसो जगाम सायन्तनाय विधये ऽस्तम् इनो जगाम ।
स्नातुं सभा कृतनमस्करणा जगाम श्यामाक्षये रविकरैश् च सहाजगाम ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0