मोक्षोपाय · अध्याय 2.2
तस्य व्यासतनूजस्य मतिमात्रापमार्जनम् ।
यथोपयुक्तं ते राम तावद् एवोपयुज्यते ॥
ज्ञेयम् एतेन विज्ञातम् अशेषेणावनीश्वर ।
स्वदन्ते ऽस्मै न यद् भोगा रोगा इव सुमेधसे ॥
ज्ञातज्ञेयस्य मनसो नूनम् एतद् धि लक्षणम् ।
न स्वदन्ते समग्राणि भोगवृन्दानि यत् पुनः ॥
भोगभावनया याति बन्धो दार्ढ्यम् अवस्तुजः ।
तयैव शान्तया याति बन्धो जगति तानवम् ॥
वासनातानवं राम मोक्ष इत्य् उच्यते बुधैः ।
पदार्थवासनादार्ढ्यं बन्ध इत्य् अभिधीयते ॥
आत्मतत्त्वाभिगमनं भवति प्रायशो नृणाम् ।
पुनर् विषयवैरस्यं कदर्थाद् उपजायते ॥
सम्यक् पश्यति यस् तज्ज्ञो ज्ञातज्ञेयस् तु पण्डितः ।
न स्वदन्ते बलाद् एव तस्मै भोगा महात्मने ॥
यशःप्रभृतिना यस्मै हेतुनैव विना पुनः ।
भुवि भोगा न रोचन्ते स जीवन्मुक्त उच्यते ॥
ज्ञेयं यावन् न विज्ञातं तावत् तात न जायते ।
विषयेष्व् अरतिर् जन्तोर् मरुभूमौ लता यथा ॥
अत एव हि विज्ञातज्ञेयं विद्धि रघूद्वह ।
यद् एनं रञ्जयन्त्य् एता न रम्या भोगभूमयः ॥
रामो यद् एतज् जानाति तद् वस्त्व् इत्य् एव सन्मुखात् ।
आकर्ण्य चित्तविश्रामो राघवस्योपजायते ॥
केवलं केवलीभावविश्रान्तिं समपेक्षते ।
रामबुद्धिश् शरल्लक्ष्मीर् जलविश्रमणं यथा ॥
अत्रास्य चित्तविश्रान्त्यै राघवस्य महात्मनः ।
युक्तिं कथयतु श्रीमान् वसिष्ठो भगवान् अयम् ॥
रघूणाम् एष सर्वेषां प्रभुः कुलगुरुस् सदा ।
सर्वज्ञस् सर्वदर्शी च त्रिकालामलदर्शनः ॥
वसिष्ठ भगवन् पूर्वं कच्चित् स्मरसि यत् स्वयं ।
आवयोर् वैरशान्त्यर्थं श्रेयसे च महात्मनाम् ॥
निषधाद्रेर् मुनीनां च सानौ सरलसङ्कुले ।
उपदिष्टं भगवता ज्ञानं पद्मभुवा बहु ॥
येन युक्तिमता ब्रह्मञ् ज्ञानेनेयं हि वासना ।
संसारी नूनम् आयाति शमं श्यामेव भास्वता ॥
तद् एव युक्तिमज् ज्ञेयं रामायान्तेनिवासिने ।
ब्रह्मन्न् उपदिशाशु त्वं येन विश्रान्तिम् एष्यति ॥
कदर्थना च नैवैषा रामो हि गतकिल्बिषः ।
निर्मले मकुरे वक्त्रम् अयत्नेनैव बिम्बति ॥
तज् ज्ञानं स च शास्त्रार्थस् तद् वैदग्ध्यम् अखण्डितम् ।
सच्छिष्याय विरक्ताय साधो यद् उपदिश्यते ॥
अशिष्यायाविरक्ताय यत् किञ्चिद् उपदिश्यते ।
तत् प्रयात्य् अपवित्रत्वं गोक्षीरं श्वदृताव् इव ॥
वीतरागभयक्रोधा निर्ममा गलितैनसः ।
वदन्ति त्वादृशा यत् तु तत्र विश्राम्यतीह धीः ॥
इत्य् उक्ते गाधिपुत्रेण व्यासनारदपूर्वकाः ।
मुनयस् ते तम् एवार्थं साधु साध्व् इत्य् अपूजयन् ॥
अथोवाच महातेजा राज्ञः पार्श्वे व्यवस्थितः ।
ब्रह्मेव ब्रह्मणः पुत्रो वसिष्ठो भगवान् मुनिः ॥
मुने यद् आदिशसि मे तद् अविघ्नं करोम्य् अहम् ।
कस् समर्थस् समर्थो ऽपि सतां लङ्घयितुं वचः ॥
अहं हि राजपुत्राणां रामादीनां मनस्तमः ।
ज्ञानेनापनयाम्य् अद्य दीपेनेव निशातमः ॥
स्मराम्य् अखण्डितं सर्वं संसारभ्रमशान्तये ।
निषधाद्रौ पुरा प्रोक्तं यज् ज्ञानं पद्मजन्मना ॥
इति निगदितवान् असौ महात्मा परिकरबन्धगृहीतवन्द्यतेजाः ।
अकथयद् इदम् अज्ञतोपशान्त्यै परमपदैकविबोधनं वसिष्ठः ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0