मोक्षोपाय · अध्याय 2.16
विशेषेण महाबुद्धे संसारोत्तरणे नृणाम् ।
सर्वत्रोपकरोतीह साधुस् साधुसमागमः ॥
साधुसङ्गतरोर् जातं विवेककुसुमं शुभम् ।
रक्षन्ति ये महात्मानो भाजनं ते फलश्रियः ॥
शून्यम् आकीर्णताम् एति मृतिर् अप्य् उत्सवायते ।
आपत् सम्पद् इवाभाति विद्वज्जनसमागमे ॥
हिमम् आपत्सरोजिन्या मोहनीहारमारुतः ।
जयत्य् एको जगत्य् अस्मिन् साधुस् साधुसमागमः ॥
परं विवर्धनं बुद्धेर् अज्ञानतरुशातनम् ।
समुत्सरणम् आधीनां विद्धि साधुसमागमम् ॥
विवेकः परमो दीपो जायते साधुसङ्गमात् ।
मनोहरोज्ज्वलो नूनम् अशोकाद् इव गुच्छकम् ॥
निरपायां निराबाधां निर्वृतिं नित्यपीवरीम् ।
अनुत्तमां प्रयच्छन्ति साधुसङ्गविभूतयः ॥
अपि कष्टतरां प्राप्तैर् दशां विवशतां गतैः ।
मनाग् अपि न सन्त्याज्या मानवैस् साधुसङ्गतिः ॥
साधुसङ्गतयो लोके सन्मार्गशुभदीपिकाः ।
हार्दान्धकारहारिण्यो भासो ज्ञानविवस्वतः ॥
यस् स्नातश् शीतसितया साधुसङ्गतिगङ्गया ।
किं तस्य दानैः किं तीर्थैः किं तपोभिः किम् अध्वरैः ॥
नीरागाश् छिन्नसन्देहा गलितग्रन्थयो ऽनघ ।
साधवो यदि विद्यन्ते किं तपस्तीर्थसङ्ग्रहैः ॥
विश्रान्तमनसो वन्द्याः प्रयत्नेन परेण हि ।
दरिद्रेणेव मणयः प्रेक्षणीया हि साधवः ॥
सत्समागमसौन्दर्यशालिनी धीमतां मतिः ।
कमलेवाप्सरोवृन्दे सर्वदैव विराजते ॥
तेनामलविलासस्य पदस्याग्रावचूलता ।
प्रथिता येन भव्येन न त्यक्ता साधुसङ्गतिः ॥
विच्छिन्नग्रन्थयस् तज्ज्ञास् साधवस् सर्वसम्मताः ।
सर्वोपायेन संसेव्यास् ते ह्य् उपाया भवाम्बुधौ ॥
त एते नरकाग्नीनां संशुष्केन्धनतां गताः ।
यैर् दृष्टा हेलया सन्तो नरकानलवारिदाः ॥
दारिद्र्यं मरणं दुःखम् इत्यादिविषमो भ्रमः ।
सम्प्रशाम्यत्य् अशेषेण साधुसङ्गमभेषजैः ॥
सन्तोषस् साधुसङ्गश् च विचारो ऽथ शमस् तथा ।
एत एव भवाम्भोधाव् उपायास् तरणे नृणाम् ॥
सन्तोषः परमो लाभस् सत्सङ्गः परमा गतिः ।
विचारः परमं ज्ञानं शमो हि परमं सुखं ॥
चत्वार एते विमला उपाया भवभेदने ।
यैर् अभ्यस्तास् त उत्तीर्णा मोहवारेर् भवार्णवात् ॥
एकस्मिन्न् एव चैतेषाम् अभ्यस्ते विमलोदये ।
चत्वारो ऽपि किलाभ्यस्ता भवन्ति सुधियां वर ॥
एको ऽप्य् एको ऽपि सर्वेषां एषां प्रसवभूर् इव ।
सर्वसंसिद्धये तस्माद् यत्नेनैकं समाश्रयेत् ॥
सत्समागमसन्तोषविचारास् त्व् अविचारितम् ।
प्रवर्तन्ते शमे स्वच्छे वहनानीव सागरे ॥
विचारसन्तोषशमास् सत्समागमशालिनि ।
प्रवर्तन्ते श्रियो जन्तौ कल्पवृक्षाश्रिते यथा ॥
विचारशमसत्सङ्गास् सन्तोषवति मानवे ।
प्रवर्तन्ते प्रपूर्णेन्दौ सौन्दर्याद्या गुणा इव ॥
सत्सङ्गसन्तोषशमा विचारवति सन्मतौ ।
प्रवर्तन्ते मन्त्रिवरे राजनीव जयश्रियः ॥
तस्माद् एकतमं नित्यम् एतेषां रघुनन्दन ।
पौरुषेण मनो जित्वा यत्नेनाभ्याहरेद् गुणम् ॥
परं पौरुषम् आश्रित्य जित्वा चित्तमतङ्गजम् ।
यावद् एको गुणो नाप्तस् तावन् नास्त्य् उत्तमा गतिः ॥
पौरुषेण प्रयत्नेन दन्तैर् दन्तान् विचूर्णयत् ।
यावन् नाभिनिविष्टं ते मनो राम गुणार्जने ॥
देवो भवाथ यक्षो वा पुरुषः पादपो ऽथ वा ।
तावत् तव महाबाहो नोपायो ऽस्तीह कश्चन ॥
एकस्मिन्न् एव फलिते गुणे बलम् उपागते ।
क्षीयन्ते सर्व एवाशु दोषा विषदचेतसः ॥
गुणे विवृद्धे वर्धन्ते गुणा दोषक्षयावहाः ।
दोषे विवृद्धे वर्धन्ते दोषा गुणविनाशिनः ॥
मनोमहावने ह्य् अस्मिन् वेगिनी वासनासरित् ।
शुभाशुभबृहत्कूला नित्यं वहति जन्तुषु ॥
सा हि स्वेन प्रयत्नेन यस्मिन्न् एव निपात्यते ।
कूले तेनैव वहति यथेच्छसि तथा कुरु ॥
पुरुषयत्नजवेन मनोवने शुभतटानुगतां क्रमशः कुरु ।
वरमते निजभावमहानदीम् इह हि तेन मनाग् अपि नोह्यसे ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0